अष्टादशकाण्ड: - २६ ते ३०
पैप्पलादसंहिता
२६
न तस्मात् पूर्वं न परं न्वस्ति न भूतं नोत भव्यं यदासीत्।
सहस्रपादेकमूर्धा द्वैयात्मा स एवेदमावरीवर्ति भूतम् ॥१॥
एकैकं ये अपतं सुपतं सुपर्णाः सोमं दिप्सन्तो ह्यानिवाढाः।
कस्तेषां वेद पितरं मातरं च को निदानं क आत्मानमेषाम् ॥२॥
योभिर्वात् इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३॥
इमामेषां पृथिवीं वस्त एको अन्तरिक्षं पर्येको बभूव ।
दिवमेषां ददते यो विधर्ता: सर्वा दिशो रक्षत्येक एषाम् ॥४॥
(इति महत् काण्डनाम अष्टादशकाण्डे चतुर्थोऽनुवाकः)
२७
व्रात्यो वा इदमग्र आसीदीयमान एव स प्रजापतिं समैरयत् । तु. शौनकीय संहिता १५.१.१
स प्रजापतिरात्मनः सुपर्णमपश्यत् ॥१॥
तदेकमभवत् तल्ललाममभवत् तन्महदभवत् तज्ज्येष्ठमभवत् ।
तद् सत्यमभवत् तद् ब्रह्माभवत् तेन प्राजायत ॥२॥
सोवर्धत स महानभवत् स महादेवोभवत् स ईषानोभवत् स देवानामीशां गच्छेत् स देवानामेकव्रात्योभवत् ॥३॥
स धनुरादत्त तदिन्द्रधनुरभवत् ।
नीलमस्योदर लोहितमस्य पृष्ठम् ॥४॥
नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं
विध्यतीति ब्रह्मवादिनो वदन्ति ॥५॥
२८
स प्राचीं दिशमनु व्यचलत् ॥१॥
तं बृहच्च रथन्तरं च विश्वे च देवा आदित्याश्चानु व्यचलन् ॥२॥
बृहतश्च वै स रथन्तरस्य च विश्वेषां च देवानामादित्यानां च प्रियं धाम भवति य एवं वेद ॥३॥वृहतश्च
बृहते च वै स रथन्तराय विश्वेभ्यश्च देवेभ्य आदित्येभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । तस्य प्राच्यां दिशि ॥४॥वृहते
श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणि: ॥५॥पुंश्चलो
भूतं च भव्यं च परिष्कन्दौ मनो विपथम् मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशः गच्छति यः एवं वेद
॥६॥विपथवाहौ, पूरःसरा
स दक्षिणां दिशमनु व्यचलत् ।
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानु व्यचलन् ॥७॥
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्य दक्षिणायां दिशि ॥८॥
उषा: पुंश्चली मन्त्रो मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणि: ॥९॥पूंश्चली
अहश्च रात्री च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीः रेष्मा प्रतोदः कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यश गच्छति य एवं वेद ॥१०॥विपथबाहौ
स प्रतीची दिशमनु व्यचलत् ।
तं वैरूपं च वैराजं च वरुणश्च राजा पश्चानु व्यचलन् ॥११॥
वैरूपस्य च वै स वैराजस्य च वरुणस्य चापं च राज्ञः प्रियं धाम भवति य एवं वेद ।
वैरूपाय च वै स वैराजाय च वरुणाय च राज्ञेभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्य प्रतीच्यां दिशि ॥१२॥
इरा पुंश्चली हसो मागधो विज्ञानं वासोहरुष्णीषं रात्री केषा हरितौ प्रवर्तौ कल्मलिर्मणि: ।
पौर्णमासी चामावास्या च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीः रेष्मा प्रतोद:
कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशो गच्छति य एवं वेद ॥१३॥
स उदीची दिशमनु व्यचलत् ।
तं श्यैतं च नौधसं च सोमश्च राजा सप्तर्षयश्चानु व्यचलन् ।
श्यैतस्य च वै स नौधसस्य च सोमस्य राज्ञ: सप्तर्षीणां च प्रियं धाम भवति य एवं वेद ॥१४॥
श्यैताय च वै स नौधसाय च सोमाय च राज्ञे सप्तर्षिभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्योदीच्यां दिशि ॥१५॥
विद्युत् पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । स्तनइत्नुर्मागधो
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वात: सारथी रेष्मा प्रतोद: कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशो गछति य एवं वेद ॥१६॥ विपथबाहौ
२९
स संवत्सरमूर्ध्वोतिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठतीति ।
सो ऽब्रवीदासन्दी मे सं भरन्त्विति । तस्मै आसन्दीं समभरन् ॥१॥
तस्या वसन्तश्च ग्रीष्मश्च पूर्वौ पादावास्तां वर्षाश्च शरच्चापरौ ।
तं बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥२॥
ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ।
वेद आस्तरणं ब्रह्मोपबर्हणं सामासाद उदगीथोपश्रय: तामासीदत् ॥३॥
तस्य संकल्पा: प्राहाय्या आसन्देवजना: परिष्कन्दा अप्सरस: पत्नी विश्वानि भूतान्युपसद: ।
ऐनं विश्वानि भूतानि गच्छन्ति प्रियो विश्वेषां भूतानां भवति य एवं वेद ॥४॥
३०
तस्मै प्राच्या दिश: ।
वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ ।
वसन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥बृहच्च
तस्मै दक्षिणाया दिशः ।
ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥
तस्मै प्रतीच्या दिशः ।
वार्षिको मासौ गोप्तारावकुर्वन् वैरुपं च वैराजं चानुष्ठातारो ।
वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥
तस्मा उदीच्या दिश: ।
शारदौ मासौ गोप्तारावकुर्वञ्छ्यैतं च नौधसं चानुष्ठातारौ ।
शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥
तस्मै धुवाया दिश: ।
हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ।
हैमनावेनं मासी धुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥५॥
तस्मा ऊर्ध्वाया दिश: ।
शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ।
शैशिरावेनं मासौ ऊर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥६॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP