अष्टादशकाण्ड: - ६ ते १०
पैप्पलादसंहिता
६
गृहास्त्वा प्रोर्गुवन्त वर्चसा भगेन
ज्योतिष्मतीदं प्रति मुञ्चस्व वपुः ।
उषा इव सूर्यस्य संदृशि ॥१॥
इन्द्राग्नी द्यावापृथिवी ह पूषा मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारीं प्रजया वर्धयन्तु ॥२॥
बृहस्पतिः प्रथमः सूर्याया: शीर्षे केशाङ् अकल्पयत् ।
तेनेमामश्विना नारीं पत्या सं शोभयामसि ॥३॥
इदं तदूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम ।
तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमं विद्वान् वि चचर्त पाशम् ॥४॥
अहं वि ष्यामि मयि रूपमस्या वेददित् पश्यन् मनस: कुलायम् ।
नस्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशम् ॥५॥
इमं वि ष्यामि वरुणस्य पाशं येन त्वाबध्नात् सविता सुशेवाः ।
ऊरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥६॥
उद्यच्छध्वमप रक्षो हनाथेमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिमस्यै विवेद भगो राजा पुर एतु प्रजानम् ॥७॥
भगस्ततक्ष चतुर: पदो भगस्ततक्ष चत्वार्युष्पलानि ।
त्वष्टा पिपेश मध्यतो वध्रान् सा नो अस्तु सुमङ्गली ॥८॥
येनाज्येन हविषा प्रजायै च वरेण्यम्॥
पशुभ्य: चक्षुषे च कंसमग्निं समिधीमहि ॥९॥
सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥१०॥
मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥११॥
ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वत: ।
अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥१२॥
(इति महत् काण्डनाम अष्टादशकाण्डे प्रथमो अनुवाकः)
७
तुभ्यमग्रे पर्यवहन् सूर्या वहतुना सह ।
स न: पतिभ्य जायां दा अग्ने प्रजया सह ॥१॥
पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
सोमस्य जाया प्रथमं गन्धर्वस्तेपर: पति: !
तृतीयो अग्निष्टे पतिस्तुरीयो मनुष्यजाः ॥३॥
सोम ददद् गन्धर्वाय गन्धर्वो दददग्नये ।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥४॥
आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अंरसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्या अशीमहि ॥५॥
सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं प्रथिष्टामप दुर्मतिं हतम् ॥६॥
अप रक्षांस्यप दुर्मतिं हतं शुभस्पती वहतोर्यातो अस्मात् ।
पुरोगवी जनयन् रक्षांस्यग्ने क्षेत्र वि पूर्वो वि मृधो नुदस्व ॥७॥
या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
ते त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥८॥
एमं पन्थामगन्म सुगं स्वस्तिवाहनम् ।
यत्र वीरो न रिष्यत्यन्येषां विन्दते वसु ॥९॥ (पा. रीष्यत्यन्येषां)
इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येष्वध्या तस्थुः ।
स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥१०॥
८
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्तु जनाङ् अनु ।
पुनस्तान यज्ञिया देवा नयन्तु यत आगता: ॥१॥
मा विदन् पर्यायिणो या आसीदन्ति दंपती ।
सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥२ १॥
सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
पर्याणद्धं विश्वरूपं यदस्मिन् स्योनं पतिभ्यः सविता कृणोतु तत् ॥३॥
शिवा नारीयमस्तमागन्निमं धाता लोकमस्यै विवेद ।
तामर्यमा भगो अश्विनोभाः प्रजापतिः प्रजया वर्धयन्तु ॥४॥
आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम्।
सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥५॥
प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वती ।
दुर्वेवेन्द्र प्र जायतां भगस्य सुमतावसत् ॥६॥
उद् वाम् ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चन्तु ।
मा दुस्कृतौ व्येनसावध्न्यावशूनमारताम् ॥७॥
अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेषु ।
प्रजावती वीरसूर्देवृकामेममग्निं गार्हपत्यं सपर्य ॥८॥
अदेवृघ्न्यपतिघ्नीहैधि स्योना पशुभ्य: सुमना: सुवीरा: ।
वीरसुर्देवृकामा स्योना सं त्वयैधिषीमहि सुमनस्यमाना ॥९॥
उत्तिष्ठेत: किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद् गृहात्।
शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत माति रंस्था: ॥१०॥
९
यदा गार्हपत्यमसपर्यैत् पूर्वमग्निं वधूरियम् ।
अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥१॥
शर्म वर्मैतदा हरास्यै नार्या उपस्तरे ।
सिनीवाली प्र जायतां भगस्य सुमतावसत् ॥२॥
उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥३॥
यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥४॥
आ रोह चर्मोप सीदाग्निमेष देवो हन्तु रक्षांसि सर्वा ।
सुमङ्गल्युप सीदेममग्निं सपत्नी प्रति भूषेह देवान् ॥५॥
प्र जायन्तां मातुरस्या उपस्थान् नानारूपा: पशवो जायमानाः ।
इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवतु ते पुत्र एषः ॥६॥
सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
स्योना श्वश्र्वैः प्र गृहान् विशेमान् प्रजावती जरदष्टिर्यथास: ॥७॥
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वा दौर्भाग्येन परेतना ॥८॥
या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।
वचों हास्यै सं दत्ताथास्त विपरेतन ॥९॥
ऋक्मप्रस्तरणं वह्यं विश्वारूपाणि बिभ्रतम् ।
आरोहत् सूर्या सावित्री बृहते सौभगाय कम् ॥१०॥
१०
आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरः ॥१॥
देवा अग्रे न्यपद्यन्त पत्नी: समस्पृशन्त तन्वस्तनूभि: ।
सूर्यव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवाति ॥२॥
उदीर्ष्वात: पतिवती ह्येषा विश्वावसुं मनसा गीर्भिरीडे ।
जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३॥
या अप्सरसः सधमादं मदन्त्यन्तरा हविर्धानं सूर्यं च ।
तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥४॥
नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्म: ।
विश्वावसो नो ब्रह्मणा ते कृणोम्यभि जाया अप्सरस: परेहि ॥५॥
राया वयं सुमनस: स्यामोदितो गन्धर्वमावीवृताम ।
अगन्स देव: परमं सधस्थमगन्म वयं प्रतिरन्त आयुः ॥६॥
सं पितरावृत्विये सृजेथां पिता माता च रेतसो भवाथ: ।
मर्यों योषामधिरोहयैनां प्रजां कृण्वाथामिह मोदमानौ ॥७॥
आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥८॥
तान् पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाति यस्यामुशन्त: प्रहरेम शेपः ॥९॥
आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथामिह पुष्यतं रयिं दीर्घं वामायुः सविता कृणोतु ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP