अष्टादशकाण्ड: - १ ते ५

पैप्पलादसंहिता



सत्येनोत्तभिता भूमि: सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
सोमेनादित्या बलिन: सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहित: ॥२॥
सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षित: ।
ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥
चित्तिरावत् उपबर्हणं चक्षुरावदभ्यञ्जनम् ।
द्यौर्भूमि: कोश आसीद्यदयात् सूर्या पतिम् ॥५॥
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता ॥६॥
स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत् पुरोगवः ॥७॥
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्या यत् पत्ये शंसन्तीं मनसा सविताददात् ॥८॥
मनो अस्या अन आसीद् द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात् सूर्या पतिम् ॥९॥
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।
श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचर: ॥१०॥


शुची ते चक्रे यात्या व्यानो अक्ष आहत: ।
अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥१॥
सूर्याया वहतुः प्रागात् सविता यमवासृजत् ।
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥२॥
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वामासीत् क्व देष्ट्राय तस्थथुः ॥३॥
यदयातं शुभस्पती वरेयं सूर्यामुप ।
विश्वे देवा अनु तद् वामजानन्
पुत्रः पितराववृणीत पूषा ॥४॥
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा तदद्धातय इद् विदुः ॥५॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहपत्न्यै वधु ॥६॥
अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुञ्चन्तु मामुतः ॥७॥
प्रेतो मुञ्चन्तु मामुत: सुबद्धाममुतस्करत्।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥८॥
भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥९॥
इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥१o ।


इहैव स्तं मा वि यौष्टं दीर्घमायुर्व्यश्नुतम् ।
क्रीड़न्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥१॥
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्यन्यो भुवना विचष्टे ऋतूँरन्यो विदधज्जायते नवः ॥२॥
नवोनवो भवति जायमानोह्नां केतुरुषसामेत्यग्रम् ।
भागं देवेभ्यो वि दधात्यायन् प्र चन्द्रमास्तिरते दीर्घमायुः ॥३॥
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु।
कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥४॥
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
एधन्ते अस्या ज्ञातय: पतिर्बन्धेषु बध्यते ॥५॥
अश्लीला तनूर्भवति रुशती पापयामुया ।
पतिर्यद् वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥६॥
आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुन्धति ॥७॥
तृष्टमेतत् कटुकमपाष्ठवद् विषवन्नैतदत्तवे ।
सूर्यां यो ब्रह्मा वेद स इद् वाधूयमर्हति ॥८॥
स वै तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥९॥
युवं भगं सं भरतः समृद्धमृतं वदन्तावृतोद्येन ।
ब्रह्मणस्पते पतिमस्यै रोचयामुं चारु संभलो वदतु वाचमेताम् ॥१०॥


इहेदसाथ न परो गमाथेमं गाव: प्रजया वर्धयाथ । तु. शौनक संहिता १४.१.३२
शुभं यतीरुस्त्रिया: सोमवर्चसो विश्वे देवा:क्रन्निह वो मनांसि ॥१॥
इमं गावः प्रजया सं विशध्वमयं देवानां न मिनाति भागम् ।
अस्मै वः पूषा मरुतश्च सर्वे अस्मै व धाता सविता सुवाति ॥२॥
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।
सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा नः ॥३॥
येन महानघ्न्या जघनमश्विना येन वा सुरा ।
येनाक्षा अभ्यषिञ्चन्त तेनेमां वर्चसावतम् ॥४॥
यद् वर्चो अक्षेषु सुरायां च यदाहितम् ।
यद् गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥५॥
यो अनिध्मो दीदायाप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।
अपां नपान् मधुमतीरपो दा याभिरिंद्रो वावृधे वीर्यावान् ॥६॥
इदमहं रुशन्तं ग्राभं तनूदूषिमपि नुदामि ।
य: शिवो भद्रो रोचनस्तमुदचामि ॥७॥
आस्यै हरन्तु स्रपनीर्ब्राह्मणा अवीरघ्नीरुदजन्त्वाप: ।
अर्यम्णो अग्निं पर्येतु क्षिप्रं प्रतीक्षन्ते श्वशुरा देवरश्च ॥८॥
शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
शं त आप: शतपवित्रा भवन्तु शं पत्या तन्वं सं स्पृशस्व ॥९॥
यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।
एवा त्वं साम्राज्ञेधि पत्युरस्तं परेत्य ॥१०॥


सम्राज्ञेधि श्वशुरेषु सम्राज्ञुत श्वश्रुवाम् ।
ननान्दु: सम्राज्ञेधि सम्राज्ञुत देवृषु ॥१॥
या अकृन्तन्वयन् याश्च तत्निरे या देवीरन्ताँ अभितोददन्त।
तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥२॥
जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसिर्ति दीध्युर्नर:।
वामं पितृभ्यो य इदं समरिरे मय: पतिभ्यो जनये परिष्वजे ॥३॥
ध्रुवं स्योनं प्रजायै ते धारयाम्यश्मानं देव्याः पृथिव्या उपस्थे ।
तमा रोहानुमाद्या सुवीरा दीर्घं त आयुः सविता कृणोतु ॥४॥
देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
अग्निः सुभगां जातवेदा: पत्ये पत्नीं जरदष्टिं कृणोतु ॥५॥
गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथास: ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥६॥
येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह ॥॥७॥
धाता ते हस्तमग्रहीत् सविता हस्तमग्रहीत् ।
भगस्ते हस्तमग्रहीदर्यमा हस्तमग्रहीत् ।
पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥८॥
ममेयमस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः ।
मया पत्या प्रजावति सं जीव शरदः शतम् ॥९॥
त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पते: प्रशिषा कवीनाम् ।
तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP