संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ३१ ते ३५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ३१ ते ३५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३१ ते ३५ Translation - भाषांतर ३१तस्मै प्राचीनादन्तर्देशाद् भवमिष्वासमनुष्ठातारमकुर्वन् ।भव एनमिष्वास: प्राचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥तस्मै दक्षिणादन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ।शर्व एनमिष्वासो दक्षिणादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥तस्मै प्रतीचीनादन्तर्देशादुग्र देवमिष्वासमनुष्ठातारमकुर्वन् ।उग्रं एनमिष्वासो प्रतीचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥तस्मा उदीचीनादन्तर्देशात् पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ।पशुपतिरेनमिष्वास उदीचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शवों न भवो नेशान: ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥तस्मै ध्रुवाया अन्तर्देशाद्रुद्रं देवमिष्वासमनुष्ठातारमकुर्वन्।रुद्रं एनं देवमिष्वासो ध्रुवादन्तर्देशादनुष्ठातानु तिष्ठति ।नैनं शर्वो न भवो नेशानः ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥तस्मा उर्ध्वाया अन्तर्देशान्महादेवमिष्वासमनुष्ठातारमकुर्वन् ।महादेव एनमिष्वास ऊर्ध्वाया अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशान: ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ।ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥३२स धुवां दिशमनु व्यचलत् । तु. शौनकीय अथर्ववेद १५.६.१तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वीरुधश्च वानस्पत्याश्चानुव्यचलन् ।भूमेश्च वै सोग्नेश्चौषधीनां च वनस्पतीनां च वीरुधां च वानस्पत्यानां च प्रियं धाम भवति य एवं वेद ।भूमये च वै सोग्नये चौषधीभ्यश्च वनस्पतिभ्यश्च वीरुद्भ्यश्व वानस्पत्येभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥१॥स ऊर्ध्वां दिशमनु व्यचलत् ।तमृतं च सत्यं च सूर्यश्च चन्द्रमाश्चानु व्यचलन् ।ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रमसश्च ।ऋताय च वै स सत्याय च सूर्याय च चन्द्रमसे चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥२॥स बृहती दिशमनु व्यचलत् !तमृचश्च सामानि च यजूंषि च ब्रह्म चानु व्यचलन् ।ऋचां च वै सा साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ।ऋग्भ्यश्च वै स सामभ्यश्च यजुर्भ्यश्च ब्रह्मणे चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥३॥स उत्तमां दिशमनु व्यचलत् ।तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ।इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ।इतिहासाय च वै पुराणाय च गाथाभ्यश्व नाराशंसीभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥४॥तं परमां दिशमनु व्यचलत् ।तमृतवश्चार्तवाश्च लोकाश्ध लौक्याश्चानुव्यचलन् ।ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च प्रियं धाम भवति य एवं वेद ।ऋतुभ्यश्च वै स आर्तवेभ्यश्च लोकेभ्यश्च लौकेभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥५॥सो कद्रीचीं दिशमनुव्यचलत्ततो नावर्त्स्यन्नमन्यत ।तं विराडनु व्यचलन् ।सर्वे च देवा: सर्वाश्च देवता: ।विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां च प्रियं धाम भवति य एवं वेद ।विराजे च वै स सर्वेभ्यश्च देवेभ्यः सर्वाश्च देवताभ्यो आवृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥६॥सोनादिष्टां दिशोमनु व्यचलत्।तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्।दक्षिणाग्नेश्च वै स गार्हपत्यस्य चाहवनीयस्य यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।दक्षिणाग्नये वै स गार्हपत्याय चाहवनीयाय च यज्ञाय च।यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥७॥तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ।दितेश्च वै सोदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ।दितये च वै सोदितये चेडायै चेन्द्राण्यै चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥८॥स दिशोनु व्यचलत् ।तं प्रजापति च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ।प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ।प्रजापतये च वै स परमेष्ठिने च पित्रे च पितामहायचा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥९॥(इति महत् काण्डनाम अष्टादशाकाण्डे पञ्चमो ऽनुवाकः)३३स महिमा सद्रुर्भूत्वान्तं भूम्या अगच्छत् स समुद्रोभवत ।तं प्रजापतिश्च परमेष्ठीचापश्च श्रद्धा च वर्षं च भूत्वानुव्यवर्तयन्त ॥१॥तं यज्ञश्च लोकश्चान्नञ्चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥२॥ऐनमापो गच्छत्यैनं वर्षं गच्छत्यैनं श्रद्धा गच्छत्यैनंगच्छत्यैनमन्नाद्यं गच्छति य एवं वेद ॥३॥३४सोरज्यत तस्माद्रज्यमानाद्राजन्यो अजायत ।स विशः सबन्धूनन्नमन्नाद्यञ्चाभ्युदतिष्ठत् ।विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ।विशाभ्यश्च वै स सबन्धूभ्यश्चान्नाय चान्नाद्याय चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥१॥३५स विशोनु व्यचलत् ।तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ।सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धामो भवति य एवं वेद ।सभायै च वै समित्यै च सेनायै च सुरायै चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥१॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP