द्वितीयकाण्डः - ७१ ते ७५

पैप्पलादसंहिता


७१
कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।
न त्वामचक्रुषे वयं वधाय सं सिसीमहे ॥१॥
यथा ते देव्योषधे प्रतीचीनं फलं कृतम् ।
एवा त्वं कृत्वने कृत्यां हस्तगृह्य परा णय ॥२॥
पुन: कृत्यां कृत्याकृते गोधेवावटमन्नयत् ।
सक्तुरिव सक्तुप्रेष्यं प्रतीचीः प्रति दध्म सत् ॥३॥
यां ते चक्रुर्वर्तनेषु वार्ताकुषु वृतासु च ।
मण्डूके कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।
सुखे रथ इव वर्ततां कृत्या कृत्याकृतं कृता ॥५॥

७२
अग्निर्द्युम्नेन सूर्यो ज्योतिषा द्यौर्महिम्नान्तरिक्षं व्यचसा ।
दिश आशाभिः पृथिवी पयोभिरिदं राष्ट्रं वर्धयन्तु प्रजावत् ॥१॥
त्वष्टा रूपेण सविता सवेनाहर्मित्रेण वरुणेन रात्री ।
पूषा पुष्टैर्भगो अंशेन भक्त्येदं राष्ट्रं वर्धयन्तु प्रजावत् ॥२॥
यां विश्वकर्मा निजघान मेथिमन्तरा द्यावापृथिवी उभे ।
तस्या आहुः क्षत्रियं गर्भमेतं परि माव पत्था मूर्धनि धारयस्व ॥३॥
छन्दांस्यस्या अभितो मयूखा स्तोमा आत्मा यजुरस्याः पुरीषम् ।
तस्या आहुः क्षत्रियं निर्मितं परि माव पत्था मूर्धनि धारयस्व ॥४॥
परा णुदस्व व्यथयाभिमातिमधस्पदं कृणुष्व दुर्धरायतः ।
मा त्वा दभन् सपत्ना दिप्सन्तस्तव राष्ट्रमुत्तरं द्युम्नमस्तु ॥५॥

७३
इदं तन्मित्रावरुणा हविर्वां येनाग्रे देवा अमृतत्वमायन् ।
येनास्मै क्षत्रमधिधारयौजोऽसपत्नाः प्रदिशः सन्त्वस्मै ॥१॥
घृतस्य धारा मित्रावरुणा दुहां वां धेनुरनुपस्फुरन्ती ।
देव: सवितोत वायुरग्निर्भूतस्य पतिरिह शर्म यच्छात् ॥२॥
शं नस्तन्मित्रावरुणा गृणीतं दृढ़ावमित्रा बहुधा वि शेराम् ।
जयतु सेनोप घोष एतु पृथक् सत्वानो बहुधा भरन्ताम् ॥३॥
हनाम मित्रावरुणावमित्रान् भवाम भद्रे सुकृतस्य लोके ।
पारयान्न: सविता देवो अग्निर्जयामेदं हविषा कश्यपस्य ॥४॥
वातोयं मित्रावरुणा तदाह विश्वन्तरं निर्मितं कश्यपस्य !
अध्वर्यवो मरुतो अस्यासन् तेन देवेभ्यो वरिमाणि चक्रुः ॥५॥

७४
अचिक्रदत् स्वपा इह भवदग्ने यजस्व रोदसी उरूची ।
अमुं नय नमसा रातहव्यो युञ्जन्तु सुप्रजसं पञ्च जना: ॥१॥
दूरे चित् सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।
यद् गायत्रीं बृहतीकर्ममस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
अद्भ्यस्त्वा राजा वरुणो जुहाव सोमस्त्वायं ह्वयतु पर्वतेभ्य
इन्द्रस्त्वायं ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥
श्येनं हविर्नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम्।
अश्विना पन्थां कृणुतां सुगं ते गर्भं सजाता अभिसंविशध्वम् ॥४॥
श्येनं हविः कश्यपस्योप शिक्षेन्द्रं वातः प्रहितो दूत आ वह ।
विषह्य शत्रून् सेनाग्रैर्विशो वृणानो ऽव गच्छ कामी ॥५॥
यस्ते हवं परितिष्ठात् सजात उत निष्ट्यः ।
अपाच इन्द्र तां नीत्वाथेममव गमय ॥६॥
ह्वयन्तु त्वा पञ्च जनाः प्रतिमित्रा अवर्षत ।
पति इन्द्राग्नी विश्वे देवा विशि क्षेममदीधरन् ॥७॥

७५
प्रजापतिरनवर्तिः स प्रजाभिरनवर्तिः ।
स मानवर्तिरनवर्तिं कृणोतु ! ॥१॥
इन्द्रो ऽनवर्तिः स वीर्येणानवर्तिः ।
स मानवर्तिरनवर्तिं कृणोतु ॥२॥
सोमो ऽनवर्तिः स ओषधीभिरनवर्ति: ।
स मानवर्तिरनवर्तिं कृणोतु ॥३॥
आपो ऽनवर्तयस्ता: पर्जन्येनानवर्तयः ।
पर्यन्ये ता मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥४॥
देवा अनवर्तयस्ते ऽमृतेनानवर्तय: ।
ते मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥५॥.
(इति पञ्चर्चोनाम द्वितीयकाण्डे पञ्चदशो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP