संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ५१ ते ५५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ५१ ते ५५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५१ ते ५५ Translation - भाषांतर ५१आग्निं वयं त्रातारं यजामहे मेनिहनं बलगहनम् ।जुषाणो अग्निराज्यस्य मेनिहा बलगहात्राता त्रायतां स्वाहा ॥१॥इन्द्रं वयं त्रातारं यजामहे मेनिहनं बलगहनम् । इन्द्र जुषाण इन्द्र आज्यस्य मेनिहा बलगहात्राता त्रायतां स्वाहा ॥२॥सोमं वयं त्रातारं यजामहे मेनिहनं बलगहनम् । सोमजुषाणः सोम आज्यस्य मेनिहा बलगहा।त्राता त्रायतां स्वाहा ॥३॥विश्वान् वयं देवांस्त्रातॄन् यजामहे मेनिघ्नो बलगघ्नः ।जुषाणा विश्वे देवा आज्यस्य मेनिहनो बलगहनस्त्रातारस्त्रायन्तां स्वाहा ॥४॥बृहस्पतिं वयं त्रातारं यजामहे मेनिहनं बलगहनम् ।जुषाणो बृहस्पतिराज्यस्य मेनिहा बलगहात्राता त्रायतां स्वाहा ॥५॥५२ये केशिन: प्रथमा: सत्त्रमासथ येभिराभृतं यदिदं विरोचते ।तेभ्यो जुहोमि हविषा घृतेनाश्ववान् गोमानयमस्तु वीरः ॥१॥नर्त दानात्तमसो मुच्यते परि द्विनाम्नीं दीक्षां वशिनीं य आयत् ।प्रास्य केशा: सुवते काण्डिनो भवन्ति तेषां ब्रह्मेशे वपनस्य नान्यः ॥२॥येनावपत् सविता शीर्ष्णो ऽग्रे क्षुरेण सोमस्य राज्ञो वरुणस्य केशान् ।तेन ब्रह्माणो वपतेदमस्याश्रामो दीर्घायुरयमस्तु वीर: ॥३॥मा ते केशाड् अनु गाद्वर्च एतत् तथा धाता दधातु ते ।तुभ्यमिन्द्रो वरुणो बृहस्पति: सविता वर्च आादधन् ll४॥आ रोह प्रोष्ठं वि षहस्व शत्रून् वास्रा दीक्षां वशिनी ह्युग्रा ।देहि दक्षिणां ब्रह्मणेभ्यो ऽथो मुच्यस्व वरुणस्य पाशात् ॥५॥५३ये देवा: पुरःसदो ऽग्निनेत्रा रक्षोहणः ।ते न: पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य: स्वाहा ॥१॥ये देवा दक्षिणासदो यमनेत्रा रक्षोहण: ।ते न: पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य: स्वाहा ॥२॥ये देवा: पश्चात्सदो मरुन्नेत्रा रक्षोहण: ।ते न: पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य: स्वाहा ॥३॥ये देवा उत्तरासद: सोमनेत्रा रक्षोहण: ।ते नः पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य: स्वाहा ॥४॥ये देवा अन्तरिक्षसदो बृहस्पतिनेत्रा रक्षोहणः ।ते न: पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य: स्वाहा ॥५॥५४अग्नये पुर: सदे रक्षोघ्ने स्वाहा ॥१॥यमाय दक्षिणासदे रक्षोघ्ने स्वाहा ॥२॥मरुद्भ्यः पश्चात्सद्भ्यो रक्षोहभ्यः स्वाहा ॥३॥सोमायोत्तरासते रक्षोघ्ने स्वाहा ॥४॥बृहस्पतये ऽन्तरिक्षसदे रक्षोघ्ने स्वाहा ॥५॥अवस्पते दिवस्पते रक्षोघ्ने स्वाहा ॥६॥५५दिवो जातो दिवस्पुत्रो यस्माज्जातं महत् सह ।अश्वत्थमग्रे जैत्रायाच्छा देवं वदामसि ॥१॥तं त्वाश्वा यथारथमुप तिष्ठन्तु राजान: ।समितिभ्यो विवक्तवे ॥२॥त्वया वयं देवजात: सर्वा: प्राशो जयामसि ।उत सत्या उतानृता: ॥३॥यो ऽश्वत्थेन मित्रेण समितीरिव गच्छति ।जयात् स सर्वाः पृतना याश्च सत्या उतानृता: ॥४॥अधराञ्चो निर्द्रवन्तु समित्या उलुलाकृताः ।अश्वत्थमित्रं पुरुषं ये वाचा पृतन्यात् ॥५॥(इति पञ्चर्चोनाम द्वितीयकाण्डे एकादशोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP