संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| १ ते ५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १अरसं प्राच्यं विषमरसं यदुदीच्यम् ।अथेदमधराच्यं करम्भेण वि कल्पते ॥१॥करम्भं कृत्वा तिर्यं पीवस्याकमुदारथिम् ।क्षुधा किल त्वा दुष्टनो यक्षिवां स न रूरुप: ॥२॥वि ते मदं मदवति शरुमिव पातयामसि ।प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥३॥परि ग्राममिवाचितं परेि त्वा स्थापयामसि ।तिष्ठा वृक्ष इव स्थामन्नभ्रिखाते न रूरुप: ॥४॥पवस्तैस्त्वा पर्यक्रीणं दूर्शभिरजिनैरुतप्रक्रीरसि त्वमोषधेभ्रिखाते न रूरुप: ॥५॥२आविद्य द्यावापृथिवी आविद्य भगमश्विना ।आविद्य ब्रह्मणस्पतिं कृणोम्यरसं विषम् ॥१॥अरसं हेदिदं विषं यथैनदहमाशिषम् ।उतैनदद्यात् पुरुषो भवादिदगदः पुनः ॥२॥मा बिभेर्न मरिष्यसि परि त्वा पामि विश्वत: ।रसं विषस्य नाविदमुद् न: फेनमदन्निव ॥३॥अपावोचदपवक्ता प्रथमो दैव्यो भिषक् ।समक्षमिन्द्र गा इव या वाचो विषदूषणीः ॥४॥यच्च पिष्टं यच्चापिष्टं यद् दिग्धं यच्च देह्यम् ।देवाः सर्वस्य विद्वांसोरसं कृणुता विषम् ॥५॥३क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्।अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी अभूताम् ॥१॥शं ते अग्नि: सहाद्भिरस्तु शं गाव: सहौषधीभिः ।शमन्तरिक्षं सह वातमस्तु ते शं ते भवन्तु प्रदिशश्चतस्त्रः ॥२॥या देवी: प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।तास्वेतं जरस आा दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ॥३॥सूर्यमृतं तमसो ग्राह्या यथा देवा मुञ्चन्तो असृजन्निरेनस: ।एवा त्वा क्षेत्रियान्निर्ऋत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ॥४॥अमोचि यक्ष्माद् दुरितादवद्याद् द्रुहः पाशाद् ग्राह्याश्चोदमोचि ।जहदवर्तिमविदत् स्योनामप्यभूद्भद्रे सुकृतस्य लोके ॥५॥४नि: सालां धृष्णुं धिषणमेकावाद्यां जिघत्स्वम् ।सर्वाश्चण्डस्य नप्त्यो नाशयाम: सदान्वा: ॥१॥यदि वा घ क्षेत्रिया यदि वा पुरुषेषितात् !यदि स्थ दस्युभ्यो जाता नश्यतेत: सदान्वाः ॥२॥परि धामान्यासामाशुर्गाष्ठामिवासरम् ।अजैषं सर्वानाजीन् वो नश्यतेतः सदान्वाः ॥३॥निर्वो गोष्ठादजामसि निर्योनेर्निरुपानसात् ।निर्वो मुगुन्द्या दुहितरो गृहेभ्यश्चातयामसि ॥४॥अमुष्मिन्नधरे गृहे सर्वा: सन्त्वराय्यः ।तत्र पाप्मा न्यच्यतु सर्वाश्च यातुधान्यः ॥५॥५द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायो अद्भुतः । उतान्तरिक्षमुरु वातगोपं ते घ तप्यन्तां मयि तप्यमाने ॥१॥इदमिन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि ।वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥२॥इदं देवाः शृणुत ये च यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसतु।पाशे स बद्धो दुरिते न्यच्यतां यो अस्माकं मन इदं हिनस्ति ॥३॥अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः।इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।अङ्गिरसः पितरः सोम्यासः पापमार्च्छत्वपकामस्य कर्ता ॥५॥अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौ: ॥६॥आ दधामि ते पदं समिद्धे जातवेदसि ।अग्नि: शरीरं वेवेष्टु यमं गच्छतु ते असुः ॥७॥सप्त प्राणानष्टौ मज्ज्ञस्तांस्ते वृश्चामि ब्रह्मणा ।यमस्य गच्छ सादनमग्निदूतो अरंकृतः ॥८॥(इति पञ्चर्चोनाम द्वितीयकाण्डे प्रथमो अनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP