संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| १६ ते २० पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६या शत्रून् प्राशं जयात् सहमानाभिभूरसि । भिमूरसि सामून प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥सुपर्णस्त्वा ऽन्वविन्दत् सूकरस्त्वाखनन्नसा ।इन्द्रस्त्वा चक्रे बाह्वोरसुरेभ्य स्तरीतवे ॥२॥पाटामिन्द्रो व्याश्नाद्धन्तवा असुरेभ्यः ।त्वयाहं शत्रून् साक्षीयेन्द्रः शालावृकानिव ॥३॥रुद्र जलासभेषज नीलशिखण्ड कर्मकृत् ।प्रश्नं दुरस्यतो जहि यो अस्माङ् अभिदासति ॥४॥तस्य प्रश्नं त्वं जहि यो न इन्द्राभिदासति ।अधि नो ब्रूहि शक्तिभि: प्राशि मामुत्तरं कृधि ॥५॥१७यथेदं भूम्यामधि वातस्तृणं मथायति । एवा मथ्नामि ते मनो यथा मा कामिन्यसो यथा मामन्वायसि ॥१॥एयमगन् पतिकामा जनिकामोहमागमम् ।अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥२॥सं चेन्नयाथो अश्विना कामिना सं च नेषथ: ।सं वां मनांस्यग्मत सं चक्षूंषि समु व्रता ॥३॥यदन्तरं तद् बाह्यं यद् बाह्यं तदन्तरम् ।कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥या सुपर्णापक्षणवानपक्षणवा !अत्रा त आार्पितं मनः शल्य इव कुर्मलं यथा ॥५॥१८सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥१॥या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरश्वेषु पुरुषेषु गोषु या ।इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥२॥या राजन्ये दुन्दुभावायतायां त्विषि: सेनायां स्तनयित्नौ घोषे या !इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥३॥रथे अक्षेष्वृषभस्य वाजे पर्जन्ये वाते वरुणस्य शुष्मे ।इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥४॥या रुद्रेषु या वसुष्वादित्येषु मसत्सु या ।त्विषिर्या विश्वेषु देवेषु सा न ऐतु वर्चसा संविदाना ॥५॥१९यदि गाधानां यदि नाव्यानां नदीनां पारे नृपतिः सखा न: ।विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥१॥यद्यपारे यदि वा घ पारे यदि धन्वनि नृपतिः सखा न: ।विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥२॥यदि यत्सु यदि दृत्यां यदि समित्यां नृपतिः सखा न: ।विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥३॥अधस्पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥४॥यम मृत्यो मैनं हिंसीर्यमहं हृदा मनसा जुगोप ।यो मां पिपर्ति यमहं पिपर्मि स प्रजावान् मघवान् सूरिरस्तु ॥५॥२०इमां नावमा रोहताच्छिद्रां पारयिष्णवम् ।नराशंसस्य या गृहे शतारित्रा भगस्य च ॥१॥उप धुव गुल्गुलुना यक्ष्माः सन्त्वघ्न्याया: ।रुद्रस्येष्वा यातुधानानथो राज्ञो भगस्य च ॥२॥रुद्रावीशाते द्विपदां चतुष्पदां तयोर्वयमधिवाके स्याम ।पक्वैर्वित्थैः प्रतिभूषन्त एनौ वयं देवानां सुमतौ स्याम ॥३॥प्रतीची नाम ते माता शतवारो घ ते पिता ।ततो ह यज्ञिषे त्वमरिष्यन्त्यरुन्धति ॥४॥माता नामासि मातृतो अमृतस्यैव वा असि ।अरुन्धति त्वं सर्वमभि जीवमधा इदम् ॥५॥(इति पञ्चर्चोनामद्वितीयकाण्डे चतुर्थो अनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP