द्वितीयकाण्डः - ११ ते १५

पैप्पलादसंहिता


११
दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात् ।
मणि: सहस्रवीर्य: परि ण: पातु विश्वतः ॥२॥
अयं विष्कन्धं सहते अयं रक्षोप बाधते ।
अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
शणश्च त्वा जङ्गिडश्च विष्कन्धादधि मुञ्चताम् ।
अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥


१२
एह यन्तु पशोव ये परेयुर्वायुर्येषां सहचारं जुजोष ।
त्वष्टा येषां रूपधेयानि वेदास्मिन्तान् गोष्ठे सविता नि यच्छात् ॥१॥
इमं गोष्ठं पशवः सं सृजन्तु बृहस्पतिरा नयतु प्रजानन् ।
सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमतिर्नि यच्छात् ॥२॥
सं सं स्रवन्तु पशव: समश्वा उत पूरुषाः ।
सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।
सं सिक्ता अस्माकं वीरा मयि गावश्च गोपतौ ॥४॥
आा हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।
आहार्षमस्माकं वीराना पत्नीमेदमस्तकम् ॥५॥

१३
सं वः सृजत्वर्यमा सं पूषा सं बृहस्पति: ।
समिन्द्रो यो धनञ्जय इह पुष्यत यद् वसु ॥१॥
इहैव गाव एतनेही शका इव पुष्यत ।
इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥२॥
मया गावो गोपत्या सचध्वमयं वो गोष्ठ इह पोषयाति ।
रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप व: सदेम ॥३॥
सं वो गोष्ठेन सुषदा सं रय्या सं सुपुष्टया ।
अहर्जातस्य यन्नाम तेन वः सं सृजामसि ॥४॥
संजानाना अविहृता अस्मिन् गोष्ठे करीषिणी: ।
बिभ्रती: सोम्यं हविः स्वावेशास एतन ॥५॥

१४
उद्यन्नादित्यः क्रिमीन् हन्तु सूर्यो निम्रोचन् रश्मिभिर्हन्तु ।
ये अन्त: क्रिमयो गवि ॥१॥
यो विश्वरूपश्चतुरक्ष: क्रिमिः सारङ्गो अर्जुनः ।
हतो हतभ्राता क्रिमिर्हतमाता हतस्वसा ॥२॥
हतो राजा क्रिमीणामुतैषां स्थपतिर्हत: ।
हतासो अस्य वेशसो हतास: परिवेशसः ॥३॥
प्र ते शृणामि शृङ्गे याभ्यां त्वं वितुदायसि ।
अथो भिनद्मि तं कुम्भं यस्मिन् ते निहितं विषम् ॥४॥
अत्रिवत्त्वा क्रिमे हन्मि कण्ववज्जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा सर्वे ते क्रिमयो हताः ॥५॥

१५
इन्द्रस्य या मही दृषत् क्रिमेर्विश्वस्य तर्हणी ।
तया पिनष्मि सं क्रिमीन् दृषदा खल्वाँ इव ॥१॥
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
अल्गण्डून् सर्वाञ्छलूलान् क्रिमीन् वचसा जम्भयामसि ॥२॥
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन्।
शिष्टानशिष्टानि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥३॥
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमिम् ।
अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
ये क्रिमयः पर्वतेषु ये वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।
ये अस्माकं तन्वं स्थाम चक्रिर इन्द्रस्तान् हन्तु महता वधेन ॥५॥
(इति पञ्चर्चोनामद्वितीयकाण्डे तृतीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP