संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ६६ ते ७० पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ६६ ते ७० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६६ ते ७० Translation - भाषांतर ६६भगाय राज्ञे प्रथमं जुहोमि विश्वे देवा उत्तरे मादयन्ताम् ।उशन् पत्नीभ्य उशतीभ्य आाभ्यः पतिमग्न आ वह रातहव्यः ॥१॥पतिं वृणीष्व हविषा गृणाना तमा वहात् सविता तं ते अग्नि:।तस्मै नमस्व शतशारदाय भगभत्ता भगवती सुवीरा ॥२॥यमर्यमन् पतिमस्यै दिदेशिथ जने चित् सन्तं तमिहा वहासि ।सुमङ्गल्यपतिघ्नी सुशेवा रायस्पोषेण तमिषा सचस्व ॥३॥यं ते पतिमर्यमा जायमानायै धाता चकल्प तमिहा वहासि ।अभि वरेण हविषा जुहोमि प्रजानन्नैतु सुमनस्यमानः ॥४॥पतिं ते द्यावापृथिवी अधातां पतिर्मित्रावरुणा वातौ अग्नि: ।सप्त ऋषयो ऽदितिः सोम इन्द्रस्ते त्वा देवाः पतिवत्नीं कृण्वन्तु ॥५॥६७यस्त्वाराय: प्रविवेशाजानिर्जनिवाङ् उत ।अथो यस्तन्वं पस्पर्श तमितो निर्णयामसि ॥१॥निष्ट्वाराय नयामसि य इमां प्रविवेशिथ ।आत्मानमस्या मा हिंसीरन्यत्र चर मेह भू: ॥२॥यदरायेमामुपायसि धेह्यस्यै रयिपोषणम् ।प्रजां चिदस्या मा हिंसीरन्यत्र चर मेह भूः ॥३॥यदरायेहायसि हनाम वीरुधा त्वा ।अथो खनित्रिमैस्त्वाद् वृषेण यथा भगम् ॥४॥यदरायासूयं स्त्रैषूयमावतोक्यम् ।यत् पैतृषद्यं दौर्भाग्यं तदितो निर्णयामसि ॥५॥६८अग्नेर्वो बलवतो बलेन मन्युं वि नयामसि ॥१॥इन्द्रस्य वो बलवतो बलेन मन्युं वि नयामसि ॥२॥सोमस्य वो बलवतो बलेन मन्युं वि नयामसि ॥३॥बृहस्पतेर्वो बलवतो बलेन मन्युं वि नयामसि ॥४॥प्रजापतेर्वो बलवतो बलेन मन्युं वि नयामसि ॥५॥यत् ते सूर्य दिवि देवेषु वर्चस्तस्य नो धेहि त्वमसि प्रचेताः।अहं त्वदुग्रस्त्विषितस्त्विषीमानिमां वाचं वि साक्षीय ॥६॥६९वातः पुरस्तात् पवसे नभस्वान् । वार्तःनमस्ते विद्म ते नामधेयं मा नो हिंसी: ॥१॥तपोजा असुरो दक्षिणतः पवसे नभस्वान् ।नमस्ते विदा ते नामधेयं मा नो हिसी: ॥२॥विश्वायुर्विश्वजनीनः प्रतीच्या दिशः पवसे नभस्वान् ।नमस्ते विद्म ते नामधेयं मा नो हिसी: ॥३॥शिवो वैश्वदेव उदीच्या दिशः पवसे नभस्वान् ।नमस्ते विद्म ते नामधेयं मा नो हिसी: ॥४॥अतिष्ठावान् बार्हस्पत्य ऊर्ध्वाया दिशः पवसे नभस्वान्।नमस्ते विद्म ते नामधेयं मा नो हिंसी: ॥५॥७०अप द्यौरपाततनदपस्कद् य वधेदहिम् ।कल्याण्या यथा स्मृतं शमुन: सन्तु विद्युतः ॥१॥यत् पर्यन्य स्तनयति सर्वं संविजते जगत् ।पतिं तदृत्चियावती पृथिवी प्रति मोदते ॥२॥एष एनाभ्यक्रन्दीद् वृषाश्वो धेनुका इव ।अहींस्त्वं विद्युतां जहि मास्माकं पुरुषान् वधीः ॥३॥अभिक्रन्दा स्तनयित्नोरवस्फूर्जादशन्या उत॥देवा नरुतो मृडत नः पातु नो दुरितादवद्यात् ॥४॥ऋजीते परि णो नमादित्याः शर्म यच्छत ।युयुत् पर्णिनं शरमुतापर्णं रिशादसः ॥५॥(इति पञ्चर्चोनाम द्वितीयकाण्डे चतुर्दशोऽनुवाकः) । N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP