द्वितीयकाण्डः - २१ ते २५

पैप्पलादसंहिता


२१
आ नो अग्ने सुमतिं सम्भलो गेदिमां कुमारी सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुरोषं पत्या भवतु सम्भगेयम् ॥१॥
इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोतु ।
सुवाना पुत्रान् महिषी भवाति गत्चा पतिं सुभगा वि राजात् ॥२॥
सोमजुष्टो ब्रह्मजुष्टो अर्यम्णा सम्भृतो भगः ।
धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥३॥
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।
एवेयं जुष्टा भगस्यास्तु संप्रिया पत्याविराधयन्ती ॥४॥
भगस्य नावमा रोह पूर्णामनपदस्वतीम् ।
तयोपप्रयाहि तं य: पति: प्रतिकाम्य:॥५॥
इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।
एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥६॥

२२
युनक्त सीरा वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन्नो नेदीय इत् सृण्य: पक्वमा यवम् ॥१॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथग् धीरा देवेषु सुम्नयौ ।
अनड्वाहः पुरुषा ये कृषन्ति लाङ्गलं फालं समनज्मि स्फात्या ॥२॥
शुनं कीनाशो अन्येतु वाहाञ्छुनं फालो विनुदन्नेतु भूमिम् ।
शुनासीरा हविषा यो ददातै सुपिण्पला ओषधयः सन्तु तस्मै ॥३॥
शुनं नरो लाङ्गलेनानडुद्भिर्भगः फालै: क्षेत्रपतिर्मरुद्भि: ।
पर्यन्यो बीजमिरयेदं हिनोतु शुनासीरा कृणुतं धान्येह ॥४॥
इन्द्र: सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥५॥
उदस्थाद्रथजिद् गोजिदश्वजिद्धिरण्यजित् सूनृतया परीवृत: ।
एकचक्रेण सविता रथेनोर्जो भागै: पृथिवी नेत्यापृणन् ॥६॥

२३
गवां गृहाणां रसमोषधीनामनुज्येष्ठं वर्च आयुर्विकल्प्य ।
स मा हिंसी: पितरौ वर्धमानो भद्राच्छ्रेयांसमभि लोकमेहि ॥१॥
यदीदं भक्तं यदि वा विभक्तं क्षेत्रं देवानां यदि वा पितॄणाम् ।
यदि सूर्य उदिते यदि वा मनुष्यवच्छिवा नो अस्तु पृथिवी उत द्यौ: ॥२॥
ऊर्जा वां भागो वरया पृथिव्यां देवी द्वारौ ब्रह्मणा वां धारयामि ।
शिवं शग्ममवसानं नो अस्तुं रातं देवेभिः पितृभिर्मनुष्यैः ॥३॥
विश्वावसोस्त्वा सदनं कुलायं गन्धर्वासो वेधसो मह्यमूचुः ।
स मा हिंसीः शेवधिं यन्त एतं शतं हिमाः परि दध्मो मनुष्यम् ॥४॥
रुद्रा उत्से सदमक्षीयमाणे देवा मदन्ति पितरो मनुष्याः।
अयं भागो भागपतिश्च देवा उर्वीरस्तर्या: शरदस्तरेम ॥५॥

२४
यो अस्मिन् यक्ष्मः पुरुषे प्रविष्ट इषितं दैव्यं सह: ।
अग्निष्टं घृतबोधनो अप स्कन्दयत्वधि दूरमस्मत्
सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥१॥
यस्त्वा यक्ष्मो देवेषित इषितः पितृभिश्च यः ।
तस्मात् त्वा विश्वे देवा मुञ्चन्तु पर्यंहस ।
ते ते यक्ष्ममपि स्कन्दयन्त्वधि दूरमस्मत्
सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥२॥
यत् त्वमेनो अन्यकृतं यदात्मकृतमारिथ
तस्मात् त्वा विश्वा भूतानि मुञ्चन्तु पर्यंहस: ।
तानि ते यक्ष्ममप स्कन्दयन्त्वधि दूरमस्मत्
सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥३॥
यत् त्वा स्व आदृशा यद् वा चकार निष्ट्यः ।
तस्मात् त्वा पृथिवी माता मुञ्चन्तु पर्यंहसः ।
सा ते यक्ष्ममप स्कन्दयन्त्वधि दूरमस्मत्
सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥४॥
अपस्कन्देन हविषा यक्ष्मं ते नाशयामसि ।
तदग्निराह तदु सोम आह बृहस्पति: सविता तदिन्द्रः॥
ते ते यक्ष्ममपि स्कन्दयन्त्वधि दूरमस्मत्
सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥५॥

२५
अग्न्यग्रा इन्द्रबला आदित्या या युधो विदुः ।
युधो अधि प्रतिष्ठिता होत्रा जैत्राय जुह्वति ॥१॥
अभियुक्तस्य प्रघने ऽनु योद्धारमिच्छताम् ।
हवींष्यग्रे युध्यतां प्रति गृह्णीत जुह्वताम ॥२॥गह्णीत
जेत्रा राज्ञा वरुणेन जेत्रा रुद्रेण केशिना ।
भवेन जिष्णुना जयति पर्यन्येन सहीयसा ॥३॥
अस्त्रा ताम्ब्रेण बृहता अस्त्रा सर्वेण युध्यता ।
गन्धर्वेण त्विषीमता रथेनासमयोधिना ॥४॥
सिनीवाल्यनुमतिर्वाहाश्वा निषङ्गिणः ।
जयन्तो ऽभि प्रेतामित्रान् साकमिन्द्रेण मेदिना ॥५॥
(इति पञ्चर्चोनामद्वितीयकाण्डे पञ्चमो अनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP