संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|प्रथमस्थानम्| एकविंशोऽध्यायः प्रथमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः प्रथमस्थानम् - एकविंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता स्थलचराणां मांसवर्गो नाम Translation - भाषांतर पक्षिणाञ्च महाश्रेष्ठो लावको जाङ्गलात्मजःसंग्राही दीपनः प्रोक्तः कषायो मधुरो लघुः ॥१॥तथा विपाके मधुरः सन्निपातेऽतिपूजितः ॥२॥तथैव तित्तिरो वृष्यो मेधाग्निबलवर्द्धनःसर्वदोषहरो बल्यो बलाका समता गुणैः ॥३॥वार्त्ताको विशदो वृष्यो यथा लावस्तथैव चकृष्णगौरप्रभेदाश्च श्रेष्ठो गौरश्च तित्तिरः ॥४॥तृतीयतित्तिरोऽन्योऽपि सामान्यो गुणलक्षणैःसवातलोऽतिबलकृद्घनः किञ्चिद्रसायनः ॥५मेधावृद्धिं स्रोतसाञ्च करोत्युत्पाटनं शिखीसवातलोऽतिबलकृद्घनः किञ्चिद्रसायनः ॥६॥सुस्निग्धो श्लेष्मलो वृष्यो घनः शुक्रविवर्द्धनःमांसवृद्धिकरो बल्यो द्वितीयश्च मयूरकः ॥७॥तथैव कौक्कुटो ज्ञेयो मधुरश्च गुणात्मकः ॥८॥कापोतो बृंहणो बल्यो वातपित्तविनाशनःतर्पणः शुक्रजननो हितो नॄणां रुचिप्रदः ॥९॥तथा पारावतो ज्ञेयो वातश्लेष्मकरो गुरुःबल्यो वृष्यो रुचिकृच्च तथा हारीतको मतः ॥१०॥पोतकी भङ्गिका क्षुद्रा तथा च कुनटी तथाएते तुल्यगुणा ज्ञेया लघुवातापहारिणः ॥११॥लघुश्च कृकरो ज्ञेयः कायाग्निवर्द्धनो भृशम् ॥१२॥तथा लघुर्वातहरः काष्ठकूटोऽग्निवर्द्धनःवातश्लेष्माधिको ज्ञेयः शीतलः शुक्रवर्द्धनः ॥१३॥अश्मरीं हन्ति विशदो बलकृन्मां सतक्षणः ॥१४॥चकोरोऽथ तथा शारी समदोषौ गुणागुणैः ॥१५॥क्रौंचो वृष्योऽतिरुचिकृदश्मरीं हन्ति नित्यशःशोषमूर्च्छाहरो वृष्यो हन्ति कासमरोचकम् ॥१६॥कोकिलः श्लेष्मलो ज्ञेयः पित्तसंशमनो मतः ॥१७॥वैवृताक्षस्त्रिदोषघ्नो बल्यः शुक्रविवर्द्धनः ॥१८॥गृहस्य चटको वृष्यो बलशुक्रविवर्द्धनःसर्वदोषहरश्चापि दीपनो मांसवर्द्धनः ॥१९॥इति आत्रेयभाषिते हारीतोत्तरे स्थलचराणां मांसवर्गो नाम एकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP