प्रथमस्थानम् - पञ्चमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


वयश्चतुर्विधं प्रोक्तमुत्तमाधममध्यमम्
हीनं चातुर्थिकं प्रोक्तं तानि वक्ष्यामि साम्प्रतम् ॥१॥
बालं युवानं वृद्धं च मध्यमं च तथैव च
चतुर्विधं वयः सम्यक् तत्समासेन वक्ष्यते ॥२॥
पथि श्रान्तं श्रमक्षीणं बालस्त्री सुकुमारकम्
एतेषां मध्यमा संज्ञा प्रोच्यते वैद्यकागमे ॥३॥
आषोडशाद्भवेद्बालः पञ्चविंशो युवा नरः
मध्यमं सप्ततिर्यावत्परतो वृद्ध उच्यते ॥४॥
तथा च सुकुमाराश्चेत्येते मध्यमसंज्ञकाः
वयसः षोडशाधिक्यं समयश्च भवेत्तु यः ॥५॥
आविंशति समाः प्राप्तो यथा च कृशदेहवान्
पूर्णं वयः स्त्रियः प्राप्ता मध्यमे चाधमं वयः ॥६॥
पञ्चविंशत्समादूर्ध्वमापञ्चाशदगतः पुमान्
कर्मकठोरा वनिता दृश्यते चोत्तमं वयः ॥७॥
सप्तविंशत्समादूर्ध्वं पञ्चाशत्संयुताः समाः
बालवृद्धिस्तथा यस्य इत्येतदुत्तमं वयः ॥८॥
स्थूलोऽतिदीर्घकठिनस्तथा स्त्री बृहदौदरा
इत्युत्तमोऽवयववाञ्ज्ञातव्यश्चोत्तमोत्तमः ॥९॥
षष्ठयूर्ध्वमशीतिसमाः प्राप्तं हीनबलं वयः
तदूर्ध्वं हीनहीनश्च विज्ञेयो वयसः क्रमः ॥१०॥
क्षीणाध्वश्रान्तसङ्खिन्नस्तथा रोगानुपीडितः
रूक्षश्चातिकृशो ज्ञेयो बालसात्म्यमुदाहृतम् ॥११॥
सुकुमारोऽतिभीरुश्च मध्यकायस्त्रियोपि वा
मध्यसात्म्योऽपि विज्ञेयो मध्यमो वयसात्म्यकः ॥१२॥
पञ्चवर्षा स्मृता बाला मुग्धा च षट्समावधिम्
द्वादशाब्दं स्मृता बाला मुग्धा स्यात्सप्तमावधिम् ॥१३॥
प्रौढा च नववर्षाणि प्रगल्भा च त्रयोदश
चतुर्विंशद्वर्षादूर्ध्वं सप्तत्रिंशति मध्यगाः
पूर्णं वयः स्त्रियः प्राप्ता इत्येतदुत्तमं वयः ॥१४॥
मध्यसात्म्यश्च स्थूलः स्याद्बलवान् सत्त्ववान्नरः
सचाऽप्युत्तमसात्म्यः स्याद्बलवत्समुपाचरेत् ॥१५॥
अथातः सम्प्रवक्ष्यामि प्रकृतिज्ञानमुत्तमम्
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥१६॥
यः कृष्णवर्णश्चपलोऽतिसूक्ष्मः केशाल्परूक्षो बलवान् क्षमः स्यात्
सूक्ष्मातिदन्तो नखवृद्धिमेति दीर्घस्वनश्चंक्रमणक्षमोऽसौ ॥१७॥
दीर्घाक्रमो लोलुपहीनसत्त्वस्तथैव चाम्लीरसभोजनेच्छुः
संस्वेदने नातिविमर्दनेन सौख्यं समागच्छति वातलो नरः ॥१८॥
गौरातिपिङ्गः सुकुमारमूर्त्तिः प्रीतः सुशीते मधुपिङ्गनेत्रः
तीक्ष्णोऽपि कोऽपि क्षणभंगुरश्च त्रासी मृदुर्गात्रमलोमकं स्यात् ॥१९॥
लौल्यप्रियस्तिक्तरसानुभोजी द्वेषी च तीक्ष्णे च नवोष्णसेवी
स्तुतिप्रियो दन्तविशुद्धवर्णो जातः स पित्तप्रकृतिर्मनुष्यः ॥२०॥
सुस्निग्धवर्णः सितनेत्रतृप्तः श्यामः सुकेशो नखदीर्घरोमा
गम्भीरशब्दः श्रुतशास्त्रनिद्रातन्द्राप्रियस्तिक्तकटूष्णभोजी ॥२१॥
स मांसलः स्निग्धरसप्रियश्च सगीतवाद्योऽतिसहिष्णुशीतः
व्यायामशीलो रतिलालसोऽसौ भवेत् कफस्य प्रकृतिर्मनुष्यः ॥२२॥
सम्मिश्रवर्णोऽतिसुदीप्तगात्रो गम्भीरधीरोऽतिविदीर्णरोमा
रामाप्रियो भारसहोऽतिमिश्रो भोगेन युक्तः समता प्रकृत्याः ॥२३॥
अथान्तरं वच्मि मरुत्प्रवाहं पूर्वं तथा पश्चिमदक्षिणोत्तरम्
तेषां गुणान् दोषविकोपनं च पृथक्पृथङ्मे गदतः शृणु त्वम् ॥२४॥
शीतोऽतिमाधुर्यगुणः प्रयुक्तो वातप्रकोपी बलकृद्विशेषात्
वाताधिकानां व्रणशोफिनाञ्च प्राचीप्रवृत्तः पवनो न शस्तः ॥२५॥
किञ्चित्सतिक्तो मधुरान्वितः स्यात् कफः समीरोद्भवरोगकारी
सुशीतलः शोफवतां व्रणानां शस्तो न चाग्नेयसमीरणश्च ॥२६॥
तिक्तः कषायो मधुरातिमन्दः सुगन्धसंशीतगुणैः प्रकृष्टः
वदन्ति संज्ञां मलयानिलेति प्रकृष्टरामाजनचित्तहारी ॥२७॥
मनोभवस्य प्रकरो मरुत्स्यात्कफोद्भवः सम्भवति प्रवारः
न चाति शीतो न तथोष्णको वा शुभश्च याम्यां प्रभवः समोरः ॥२८॥
रूक्षोष्णवातः प्रशमः समीरः कट्वम्लपित्तासृजि दोषकारी
प्रशोषणो देहबलस्य वायुः कफान्वितो नैऋर्तिकः समीरः ॥२९॥
अथातिसूक्ष्मो मरुतः प्रशस्तो नूनं प्रतीच्यास्तु दिशः प्रवृत्तः
वायुस्तथोदीरति रक्तपित्तं शस्तो व्रणानां कफशोफिनां वा ॥३०॥
वायव्यजातो मरुतः प्रशस्तः कषायसंशुष्कगुणप्रसन्नः
करोति वातस्य वशं नराणां शस्तो न निन्द्यो व्रणशोफिनाञ्च ॥३१॥
स्वादुः कषायश्च कफप्रकोपी वायुः कुबेरस्य दिशः प्रवृत्तः
करोति मेघागमनं जलस्य शीतो न चोष्णो न च निन्द्य एषः ॥३२॥
शीतोतिगौल्यः कफवातकोपं करोति चैशानदिशः प्रवृत्तः
शस्तश्च नासौ व्रणशोफकासिनां क्षमस्तथा श्वासविकारिणाञ्च ॥३३॥
वस्त्रं नानाविधं चर्म वैणवं तालव्यञ्जनम्
उशीरं शिखिपिच्छन्तु प्रत्येकेन गुणोत्तमाः ॥३४॥
वस्त्रप्रवृत्तो मरुतो न शस्तो व्रणशोफिनाम्
रक्तवासःसमुत्पन्नं विशेषेण तु वर्जयेत् ॥३५॥
करोति कफरक्तस्य कोपनं बहुरोगकृत्
श्रमग्लानिपिपासासु तन्द्रानिद्राकरो भृशम् ॥३६॥
वैणवं व्यजनं तन्द्रानिद्राकरणमेव च
रूक्षोऽतिकषायरसो न च वातप्रकोपनः ॥३७॥
कांस्यपात्रमरुद्रूक्षाः सोष्णो वातस्य शान्तिकृत्
दाहश्रमघ्नः स्वेदघ्नो निद्रासौख्यकरो नृणाम् ॥३८॥
तालपत्रकरम्भाया दलस्य व्यजनो हिमः
मधुरोऽति श्रमघ्नः स्यादार्द्रत्वात्कफकोपनः ॥३९॥
निद्राकरः प्रीतिकरः शोकरोगविकारहा
दाहपित्त श्रमग्लानिनाशनो भ्रमशान्तिकृत् ॥४०॥
उशीरमूलरचितं व्यजनं शिखिपिच्छकैः
व्यजनेन सुगन्धः स्यान्मन्दशीतगुणात्मकः ॥४१॥
ग्लानिमूर्च्छाभ्रमशोषविसर्पविषदर्पहा
इति पञ्चविधो वायुरुपायेन कृतो नृणाम् ॥४२॥
शिशिरे पूर्वकृद्वायुराग्नेयो हेमन्ते मरुत्
वसन्ते दक्षिणो वायुग्रीष्मे नैऋर्त्यकस्तथा ॥४३॥
वर्षासु पश्चिमो वायुर्वायव्यः शरदि स्मृतः
शिशिरे च हेमन्ते च कथितश्चोत्तरोऽनिलः ॥४४॥
अपराह्णे वर्षा वदन्ति निपुणास्तस्मिन्निशीथे शरत्
प्रोक्तः शैशिरिकस्ततो हिमऋतुः सूर्योदयादग्रतः ।
मध्याह्ने च तथा वदन्ति निपुणा ग्रीष्मो ऋतुः स्यात्ततो
वासन्तः कथितो ऋतुस्तु मुनिभिः पूर्वापराह्णे सदा ॥४५॥
कार्तिके मार्गशीर्षे वा माघे चाषाढसंज्ञके
ऋतुसन्धौ च हेमन्ते सविषः स्यात्तु मारुतः ॥४६॥
स यस्मिन्नगरे देशे ग्रामे वाऽनगरेऽपि वा
संस्पृशेदुल्बणो वायुर्गोमनुष्येभवाजिनाम् ॥४७॥
तिलकं गोषु जानीयाद्यक्ष्माणं मानुषेषु च
गजेषु पावकं विद्याद्धयानां वेद्य उच्यते ॥४८॥
रक्षणीयं गजे पित्तं श्लेष्मा वाजिषु सर्वदा
पवनोऽयं मनुष्याणां प्रायो रक्षेत सर्वदा ॥४९॥
वर्षां वायुः कुप्यतेऽन्तः शरत्सु लीनो वायुः कुप्यते पित्तरोगे
लीयेत्पित्तं शैशिरे श्लेष्मकुञ्जे हेमन्ते वा चीयमानस्तथापि ॥५०॥
कोपं याति श्लेष्मरोगो वसन्ते तस्माच्छान्तिः श्लेष्मरोगस्य चोष्णे
पित्तं यायात्कोपतां ग्रीष्मकाले दृष्ट्वा शान्तिः पैत्तिकी वार्षिके च ॥५१॥
अधोवातमूत्रपुरीषस्य रोधात् कषायातिशीतान्निशाजागरेषु
व्यवायेऽथ वाहःश्रमाद्वातिभुक्त्या ध्वनि प्रायशो भाषणेनातिभीत्या ॥५२॥
विरूक्षैरतिक्षारतिक्तैः कटूभिस्तथा यानदोलाश्वकोष्ट्रे रथे वा
खरे कुञ्जरे मन्दिरारोहणेनोपवासे भवेन्मारुतस्य प्रकोपः ॥५३॥
शीते दिने दुर्दिने स्नानपीतेऽपराह्णे निशाजागरे वासरे वा
वर्षासु वै केवलं याति कोपं मरुत्सेवितो याति भुक्तस्य जीर्णम् ॥५४॥
मसूराः कलायाश्च निष्पावकाश्च महामाषशुभ्रा यवाश्चामलाः स्युः
महाचावलाः कृष्णकान्या प्रदिष्टा हिमाः कंगुनीवाररक्ताश्च शाल्यः ॥५५॥
तथा कोरदूषकः श्यामाक एतैः कृतं चौदनं वा यवागूशृतं वा
कलिङ्गानि वास्तूकचिल्लीकपूती पलाण्डुस्तथा गृञ्जनं कन्दशाकम् ॥५६॥
इमान् सेवितात्यर्थमेति प्रकोपं समीरस्य चोक्तः सुरासम्भवस्तु
ततो यत्नतो रक्षणीयं मनुष्यैः शुभं चेहसे त्वं सदा रोगशान्तिम् ॥५७॥
अत्युष्णकट्वम्लरूक्षैर्विदाहे ससीधूसुरासेवनेनोपवासैः
घर्मेण क्रोधेन वा स्वेदनेन व्यवायेन वा याति कोपञ्च पित्तम् ॥५८॥
कुलित्थाढकीयूषमूला कशिग्रुशठीसर्षपाराजिकाशाकमेव
निशाजागरेणापि युद्धे श्रमे वा घनान्ते शरत्सु प्रकोपः प्रदिष्टः ॥५९॥
अम्लेन वापि चोष्णकाले शरत्सु भृशं वासरे मध्यमे वा निशीथे
जीर्णे रसे भुक्तमात्रे प्रकोपः प्रदिष्टो विदैः कोविदैः पैत्तिकः स्यात् ॥६०॥
निशाजागरे वासरे वातिनिद्रा सुशीतोदसंसेवने शीतले वा
पयःपानपीयूषमिक्षुस्तिलैस्तु तथा गृञ्जनैः कन्दशाकैरथापि ॥६१॥
सदा सेवितैर्वास्तुकैश्चाणुमत्स्यैर्दधिपिच्छिलैर्माषमद्यैर्गुरूभिः
अतिस्निग्धसंसेवनैर्भोजनेषु प्रदिष्टः कफस्य प्रकोपोवसन्ते ॥६२॥
दिनान्ते प्रभाते निशान्ते नरस्य प्रकोपः प्रदिष्टोपि भुङ्क्ते न जीर्णे
प्रदिष्टो बुधैः कोविदैरेव रोगः कफोत्पत्तिं जानीहि कष्टप्रयुक्ताम् ॥६३॥
सशीतेऽथवा शीतकाले निशान्ते नरस्य प्रकोपः प्रदिष्टोऽपि भुक्तेः
न जीर्णे प्रदिष्टो बुधै रोगवेगो निदानं कफस्येति चोक्तं सुधीभिः ॥६४॥
यदा विपर्यासगते ऋतौ च प्रकोपनं यस्य यथा प्रदिष्टम्
तत्सेवमानस्य नरस्य रोगः स्याद्द्वन्द्वजो नाम विकारकारी ॥६५॥
यस्मिन्नृतौ वातविकोप उक्तस्तस्मिन्यदि श्लेष्मविकोपनानि
संसेवते वा मनुजस्तदास्य भवेत्प्रकोपः कफवातयोश्च ॥६६॥
यस्मिन्मरुत्कुप्यति सेवते यः पित्तस्य कोपप्रकराणि यानि
विपर्ययो वा ऋतुधान्ययोश्च स पित्तवातप्रभवस्तदा स्यात् ॥६७॥
विपर्यासागते काले रसे विपरिसेविते
तदा स्यात्सन्निपातो हि रोगोपद्रवकारकः ॥६८॥

इति आत्रेयभाषिते हारीतोत्तरे दोषप्रकोपो नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP