प्रथमस्थानम् - सप्तमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
अथातः सम्प्रवक्ष्यामि पानीयानि पृथक्पृथक्
शृणुध्वं च समासेन गुणान्गुणविपर्ययम् ॥१॥
द्विविधं चोदकं प्रोक्तमान्तरिक्षं तथौद्भिदम्
आन्तरिक्षं तु द्विविधं गाङ्गं सामुद्रिकं पयः ॥२॥
तद्वच्चतुर्विधं प्रोक्तमन्तरिक्षसमुद्भवम्
भूमा निपतितं तच्च जातं चाष्टविधं जलम् ॥३॥
गाङ्गसामुद्रविज्ञानं कथयिष्यामि साम्प्रतम्
धारितं येन पात्रेण लक्ष्यते तेन तद्विधम् ॥४॥
धौतं शुद्धं सितं वस्त्रं चतुर्हस्तप्रमाणकम्
दण्डास्त्रिहस्ताच्चत्वारश्चतुष्कोणेषु बन्धयेत् ॥५॥
तस्मात्परीक्ष्यं तत्तोयं शुद्धे रौप्यमयेऽथवा
कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः ॥६॥
शुद्धकार्पासतूलं वा श्वेतशाल्योदनस्य वा
पिण्डिका तत्समाक्षिप्ता श्वेततां याति सा पुनः ॥७॥
श्वेता तु निर्मला पिण्डी शुद्धञ्च निर्मलं पयः
तद्गाङ्गं सर्वदोषघ्नं गृहीताङ्गं सुभाजने ॥८॥
तद्घारयेच्च मतिमान्बल्यं मेध्यं रसायनम्
श्रमक्लमपिपासाघ्नं कण्डूदोषनिवारणम् ॥९॥
लघु मूर्च्छातृषाच्छर्दिमूत्रस्तम्भविनाशनम्
गङ्गोदकस्य वृष्टिः स्याद्दिवसे वा प्रदृश्यते ॥१०॥
आविलं समलं नीलं घनं पीतमथापि च
सक्षारं पिच्छिलं चैव सामुद्रं तन्निगद्यते ॥११॥
सघनं कफकृच्चैव कण्डूश्लीपदकारकम्
सवातलं च विज्ञेयं रक्तदोषार्त्तिकारणम् ॥१२॥
द्विविधमुदकं प्रोक्तं तथा वक्ष्ये चतुर्विधम्
रात्रिवृष्टिर्दिवावृष्टिर्दुर्दिनावाक्षणोद्भवा ॥१३॥
निशाजलं कफकरं घनशीतगुणात्मकम्
सामुद्रतोयस्य समं विज्ञेयं वातकोपनम् ॥१४॥
दिवा सूर्यांशुतप्ताश्च मेघा वर्षन्ति यत्पयः
तत्कफघ्नं पिपासाघ्नं लघु वातप्रकोपनम् ॥१५॥
दुर्दिने वृष्टिसम्पातं वातभूतं सवातलम्
कफकृच्छोषहननं तर्पणं दोषकोपनम् ॥१६॥
तथा वा क्षणवृष्टिश्च दोषरोगकरी नृणाम्
कण्डूत्रिदोषजननं पानीयं न प्रशस्यते ॥१७॥
मेघा वमन्ति यत्तोयं सशैलवनकानने
श्रावणे निन्द्यते भूमौ कराम्बु वर्षते रविः ॥१८॥
सघनं नाभसं नीरं श्लेष्मकृद्वातकोपनम्
शमनं पित्तरोगाणां मधुरं रक्तदोषकृत् ॥१९॥
रूक्षं पित्तकरं चाम्लं गुल्मरक्तविकारकृत्
चित्रानक्षत्रसम्भूतं खरं शस्यविदोषकृत् ॥२०॥
कार्त्तिकीवृष्टिसम्भूतं स्वातिसन्तापशीतलम्
नाशनं च त्रिदोषाणां सर्वशस्यप्रवर्द्धनं ॥२१॥
शीतलं बलकृद्वृष्यं विदाहज्वरनाशनम्
क्वचित् पुण्यतरे देशे शरद्वर्षति माधवम् ॥२२॥
पित्तज्वरविनाशाय शस्यनिष्पत्तिहेतवे
अम्बरस्थं सदा पथ्यममृतं स्वातिसम्भवम् ॥२३॥
गगनाम्बु त्रिदोषघ्नं गृहीतं यच्च भाजने
बल्यं रसायनं मेध्यं यन्त्रापेक्ष्यं ततः परम् ॥२४॥
अनार्त्तवं विमुञ्चन्ति जलं जलधरास्तु यत्
पतितं तत् त्रिदोषाय सर्वेषां देहिनामपि ॥२५॥
अकाले वृष्टिसन्तापसम्भूतं तद्विकारकृत्
विशेषाच्छ्लेष्मरोगाणां कारणान्न प्रशस्यते ॥२६॥
तथा धारं च कारं च तौषारं हैममेव च
चतुर्विधं समुद्दिष्टं तेषां वच्मि गुणागुणान् ॥२७॥
धारं चतुर्विधं प्रोक्तं वक्ष्ये कारं महामते
श्रीमतां महाप्राज्ञानां हिताय रुजशान्तये ॥२८॥
स्वर्नद्याः शीतवातेन मेघविस्फूर्जसंकुलम्
शीताम्बु कठिनं भूत्वा शिलं जातं हिमेन तु ॥२९॥
पश्चात् सुसूर्यात् सन्तापात् किञ्चिद्वै द्रवते जलम्
वमन्ति मेघाः सलिलशकलं शीतलं मतम् ॥३०॥
कारं शीतगुणैः श्रमोपशमनं शोषार्त्तिनिर्णाशनं
मूर्च्छामोहशिरोर्त्तिनाशनकरं हिक्कावमेर्वारणम् ।
शोफानां व्रणिनान्तु दोषशमनं पित्तात्मिकानां हितं
शंसन्ति प्रवरं गुणैः प्रतिदिनं तस्मान्न दूरे कृतम् ॥३१॥
तौषारं लघु शीतलं श्रमहरं पित्तार्त्तिशान्तिप्रदं
दोषाणां शमनं जलार्त्तिहननं सर्वामयघ्नं परम् ।
कुष्ठश्लीपदचर्चिकाविषहरं पामाविसर्पापहं
क्षीणानां क्षतशोषिणां हितकरं संसेव्यते मानवैः ॥३२॥
हैमं घनञ्च मधुरञ्च कफात्मकञ्च मूर्च्छाश्रमार्तिशमनं भ्रमनाशनञ्च
पित्तासृजः प्रशमनं रुधिरक्षमञ्च शान्तिङ्करोति हिमसम्भववारि सद्यः ॥३३॥
धारं पृथिव्यां पतितं पयस्तु तत्रैव जातं गुणभेदभिन्नम्
नानाविधैर्भेदगुणैश्च सम्यग् जातं जलं चाष्टविधं वदन्ति ॥३४॥
नाद्यौद्भिदं प्रस्रवणं च चौण्ड्य कौपं तडागं सरसोद्भवञ्च
वाप्युद्भवं तत्प्रवदन्ति धीरा नीरं समासेन वदन्ति चात्र ॥३५॥
यत् श्रीमताञ्चैव महीपतीनां सेव्यं तथा योग्यतमं प्रदिष्टम्
नादेयमम्बु मधुरं तथा लघु रूक्षं तथोष्णं शमनञ्च वायोः ॥३६॥
सन्दीपनं शस्यविनाशनञ्च हिमागमे वा शिशिरे निषेव्यम्
बलप्रदं पथ्यकरं नराणां प्रदिष्टमेतत्तु सदा भिषग्भिः ॥३७॥
औद्भिद्यमुष्णं लघु वातहारि सपैत्तिकं तृड्ज्वरनाशनञ्च
कुष्ठव्रणानां श्रमशोषिणाञ्च शस्तं न च क्षारगुणोपपन्नम् ॥३८॥
उष्णं कषायं स्रवणोद्भवञ्च श्लेष्मापहं गुल्महृदामयघ्नम्
कण्डूविसर्पक्षयरोगकारि नानाविधं दोषचयं करोति ॥३९॥
वदन्ति चौण्ड्यं लवणं तथा गुरु कफात्मकं वारि विकारकर्तृ
हिक्काज्वरं शूलमरोचनञ्च करोति नूनं त्वचि दोषरोगम् ॥४०॥
रूक्षं कफघ्नं लवणात्मकञ्च सन्दीपनं पित्तकरं लघूष्णम्
कौपं जलं वातहरं प्रदिष्टं हितं न शस्तं शरदि वदन्ति ॥४१॥
घनं कषायञ्च तडागजं स्यात्स्वादु प्रपाके मधुरं तथैव
शस्तं शरत्सु कफकृत् सवातं ग्रीष्मे हितं न प्रवदन्ति धीराः ॥४२॥
क्षारं घनं वातकफानुकारि त्वग्दोषकारि कटु दीपनञ्च
प्रोक्तं विपाके भ्रमशोषकारि स्यात् सारसं नो सुखकारि वारि ॥४३॥
क्षारं कवोष्णं कफवातरोगविनाशनं पित्तकरं कटु स्यात्
शस्तं सदा पित्तविकारिणाञ्च शस्तं न वाप्यं शरदि वदन्ति ॥४४॥
इति चाष्टविधं प्रोक्तं जलं भिषजसत्तमैः
नादेयं सम्प्रवक्ष्यामि समुद्रङ्गानित्तोतसाम् ॥४५॥
तथा प्राच्याङ्गमाश्चान्याः पश्चिमानुगमास्तथा
तासां गुणागुणान् वक्ष्ये समासेन गुणोत्तम ॥४६॥
ससैकता सपाषाणां द्विविधा चाम्बुवाहिनी
एवं चतुर्विधा नद्यो वातपित्तकफात्मिकाः ॥४७॥
सदावहा वा घनवारिकोष्णा मरुत्कफानां शमनञ्च तस्याः
नीरं वसन्ते हितकृद्विशेषात् नदीभवं नैव हिमागमे च ॥४८॥
घनविमलशिलानां स्फालनात्ततफेनं बहलसजलवीचीच्छन्नसंक्षोभदृप्तम् ।
ननु लघु सुखशीतं नाति चोष्णं घनञ्च हरति पवनपित्तं श्लेष्मकृद्वारि सम्यक् ॥४९॥
न घनविमलतोयं सैकतायाः प्रवाहो न च भवति लघुत्वं श्लेष्मकृद्धन्ति
पित्तम् ।
भवति मधुरमेवं किञ्चिदुष्णं कषायं भवति पवनकारि शोषमूर्च्छां निहन्ति ॥५०॥
हिमवत्प्रभवा नद्यः पुण्या देवर्षिसेविताः
घनपाषाणसिकतावाहिन्यो विमलोदकाः ॥५१॥
हन्ति वातकफं तोयं श्रमशोषविनाशनम्
किञ्चित् करोति वा पित्तं त्रिदोषशमनं जलम् ॥५२॥
मलयप्रभवा नद्यः शीततोयामृतोपमाः
घ्नन्ति वातञ्च पितञ्च शोषभ्रमश्रमापहाः ॥५३॥
गङ्गा सरस्वती शोणो यमुना सरयू शची
वेणा शरावती नीला उत्तरापूर्ववाहिनी ॥५४॥
हिमवत्प्रभवा ह्येता हिमसम्भवशीतलाः
समाः सर्वगुणैर्नद्यो वातश्लेष्महरा नृणाम् ॥५५॥
आसां नवशतैर्युक्ता गङ्गा प्रोक्ता मनीषिभिः
तथा चर्म्मण्वती वेत्रवती पारावती तथा ॥५६॥
क्षिप्रा महापदी पीता मुत्सकान्या मनस्विनी
शेवती शैवलिन्यश्च सिन्धुयुक्ताः समुद्रगाः ॥५७॥
वातपित्तहरं नीरं त्रिदोषघ्नं मतं परम्
श्रमग्लानिहरं वृष्यमुत्तराशानुगामि च ॥५८॥
तापी तापा च गोलोमी गोमती सलिला मही
सरस्वतीयुता नद्यो नर्मदा पश्चिमानुगाः ॥५९॥
आसां जलं घनं पीतं पित्तघ्नं कफकृत्तथा
वातदोषहरं हृद्यं कण्डूकुष्ठविनाशनम् ॥६०॥
पश्चिमाद्रिसमुद्भूता गौतमी पुण्यभावना
अस्याः शीतं जलं वापि कफवातविकारकृत्
पित्तदं शमनं बल्यं मूत्रदोषविकारकृत् ॥६१॥
पूर्णा पयस्विनी वेत्रा प्रणीता च वरानना
द्रोणा गोवर्द्धनी यान्या गौतम्यानुगता इमाः ॥६२॥
आसां जलं घनं नातिवातश्लेष्मविकारकृत्
पूर्वसामुद्रगाश्चैव नद्यो नवशतैर्युताः ॥६३॥
कावेरी वीरकान्ता च भीमा चैव पयस्विनी
विभावरी विशाला च गोविन्दी मदनस्वसा
पार्वती चापरा नद्यो दक्षिणादिग्गमा इमाः ॥६४॥
प्रत्येकशो न सेवेत युक्तायाश्च पृथक्पृथक्
सर्वासां परिसंख्या च शतानां चैकविंशतिः ॥६५॥
क्रोशे क्रोशे भवेत् कुल्या योजने योजने नदी
द्वियोजना च विज्ञेया महानीरा बुधैर्नदी ॥६६॥
भूमिः पञ्चविधा ज्ञेया कृष्णा रक्ता तथा सिता
पीता नीला भवेच्चान्या गुणास्तासां प्रकीर्तिताः ॥६७॥
कृष्णा च मधुरा रूक्षा कषाया पीतवर्णिनी
रक्ता सा च भवेत्तिक्ता मधुराम्ला सिता स्मृता ॥६८॥
नीला सकटुका ज्ञेया भूमिभागजलं विदुः
सघनं मधुरं नीरं कृष्णं भूमिपरिश्रितम् ॥६९॥
पीताश्रितं कषायञ्च रक्तायाः क्षारमाधुरम्
सितायामम्लमधुरं भूमिभागेन लक्षयेत् ॥७०॥
तथा चतुर्विधं तोयं वक्ष्यामि शृणु कोविद
पापोदकं रोगोदकमंशूदकारोग्योदकौ ॥७१॥
पापं पापोदकं चैव करोत्येवमरोचकम्
विष्ठायुक्तं ग्राहि नीरं कृमिकीटसमाकुलम् ॥७२॥
समलं नीलशैवालं पापन्तु नर्दितञ्च यत्
स्नाने पाने न तत् शस्तं नराणां वा हयेषु च ॥७३॥
स्नानेन त्वग्भवान्रोगान् कण्डूकुष्ठविसर्पकृत्
पानेन कफगुल्मानां कृमीणां वरसम्भवान्
करोति विविधान् रोगांस्तस्मात्तत् परिवर्जयेत् ॥७४॥
बहुवृक्षलताकुञ्जे छायाकूपोऽथ वा सरः
अव्ययञ्चेदधोऽप्येवं कृमिशैवालसंयुतम् ॥७५॥
क्लिन्नं सपिच्छलं कृष्णं वृक्षमूलाश्रितं भवेत्
बहुवृक्षपर्णयुक्तं दुर्गन्धं मूत्रगन्धवत् ॥७६॥
रोगोदकं विजानीयात् करोति विषमान् गदान्
शूलं कुष्ठं च कण्डूञ्च सेवितेन करोति हि ॥७७॥
विण्मूत्रतृणनीलिकाविषयुतं तप्तं घन फेनिलं
दन्तग्राह्यमनार्त्तवं हि सजलं दुर्गन्धि शैवालजम् ।
नानाजीवविमिश्रितं गुरुतरं पर्णौघपङ्काविलं
चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सदा दोषलम् ॥७८॥
गुल्मप्लीहार्शः पाण्डुञ्च जलं वापि जलोदरात् ॥७९॥
दिवा सूर्यांशुसन्तप्तं रात्रौ चन्द्रांशुशीतलम्
अंशूदकमिति ख्यातं सर्वरोगनिवारकम् ॥८०॥
कफमेदोनिलघ्नं च दीपनं बस्तिशोधनम्
श्वासकासहरं नीरं चक्षुष्यं नेत्ररोगहृत् ॥८१॥
पादशेषन्तु क्वथितं तच्चारोग्यजलं विदुः
कासश्वासहरं पथ्यं मारुतं चापकर्षति ॥८२॥
सद्यो ज्वरं हरत्याशु समेदः कफनाशनम्
प्रतिश्यायं पाचयति शूलगुल्मार्शनाशनम् ॥८३॥
दीपनञ्च हुताशस्य पाण्डुशोफोदरापहम्
अजीर्णञ्च जरत्याशु पीतमुष्णोदकं निशि ॥८४॥
मद्यपानसमुद्भूते रोगे पित्तान्विते पुनः
सन्निपातसमुत्थे च तत्र शीतोदकं हितम् ॥८५॥
शारदे च तथा ग्रीष्मे क्वाथेत् पादावशेषितम्
शिशिरे च वसन्ते च कुर्यादर्द्धावशेषितम् ॥८६॥
विपरीतमृतौ घृष्ट्वा प्रावृषि वार्द्धभागिकम् ॥८७॥
क्वाथ्यमानं च निर्वेगं निष्फेनं निर्मलञ्च यत्
अर्द्धावशिष्टं भवति तदुष्णोदकमुच्यते ॥८८॥
तत्पादहीनं वातघ्नं चार्द्धं पित्तविकारजित्
कफघ्नं पादशेषन्तु पानीयं लघु पाचनम् ॥८९॥
धारापाते हि विष्टम्भि दुर्जरं पवनापहम्
शृतशीतं त्रिदोषघ्नं कफान्तभ्रामि शीतलम् ॥९०॥
दिवसे क्वथितं तोयं रात्रौ तद्गुरु वर्जयेत्
रात्रौ शृतं तु दिवसे गुरुत्वमधिगच्छति ॥९१॥
मदात्यये सदाहे च रक्तपित्ते तथोर्ध्वगे
रक्तमेहे विशेषेण नोष्णं तोयं प्रशस्यते ॥९२॥
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धौ नवज्वरे ॥९३॥
अजीर्णे च तथा कासे न शीतमुदकं हितम्
प्रतिश्याये प्रसेके च ज्वरे कुष्ठे व्रणेषु च ॥९४॥
शोफे नेत्रामये चैव मन्दाग्नौ च तथा क्षये
सूतिजातासुतानारीरक्तस्रावेऽप्यरोचके ॥९५॥
एतेषां सिद्धिमिच्छद्भिः पानीयं मन्दमाचरेत्
जीर्णे च क्षुत्प्रपन्ने च पीतं हन्त्युदरानलम् ॥९६॥
करोति गुल्मं शूलं वा तथा श्रान्ते बहूदकम्
तस्माज्जीर्णेऽनलं हन्ति अजीर्णे वारि भेषजम् ॥९७॥
भुक्तान्तः परतः शस्तं पीतं वारि गुणात्मकम्
अध्वश्रान्ते क्षुधाक्रान्ते शोषक्रोधातुरेषु च ॥९८
विषमासनोपविष्टे च पीतं वारि रुजाकरम्
तस्मात् प्रसन्ने मनसि पानीयं मन्दमाचरेत् ॥९९॥
आदौ पीत्वा दहत्यग्निर्मध्ये पीत्वा रसायनम्
तदन्ते च जलं पीत्वा तज्जलं दुर्जरं भवेत् ॥१००॥
भोजनादौ जलं पीत्वा चाग्निसादः कृशाङ्गता
अन्ते करोति स्थूलत्वमूर्ध्वमामाशयात् कफम् ॥१०१॥
इति तोयपानविधिः
इति जलवर्गो नाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : February 22, 2021
TOP