प्रथमस्थानम् - द्वितीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अथातः संप्रवक्ष्यामि शास्त्रस्यास्य समुच्चयम्
आयुर्वेदसमुत्पत्तिं सर्वशास्त्रार्थसंग्रहम् ॥१॥
अष्टौ चात्र चिकित्साश्च तिष्ठन्ति भिषजां वर
ता वक्ष्यामि समासेन चिकित्साश्च पृथक्पृथक् ॥२॥
संग्रहस्य प्रवक्ष्यामि प्रथमं चान्नपानकम्
अरिष्टं च द्वितीयं स्यात्तृतीयं च चिकित्सितम् ॥३॥
कल्पं चतुर्थकं प्रोक्तं सूत्रस्थानन्तु पञ्चमम्
षष्ठं चात्र शरीरं स्यादित्यायुर्वेदकारकाः ॥४॥
शल्यशालाक्यकायाश्च तथा बालचिकित्सितम्
अगदं विषतन्त्रञ्च भूतविद्या रसायनम्
वाजीकरणमेवेति चिकित्सा चाष्टधा स्मृता ॥५॥
वैद्यागमेषु सर्वेषु प्रोक्तं श्रेष्ठमिदं महत्
तथा चाष्टौ चिकित्सायां वदन्ति वेदविज्जनाः ॥६॥
यन्त्रशस्त्राग्निक्षाराणामौषधं पथ्यमेव च
स्वेदनं मर्दनं चैव कथितान्युपकारिणाम् ॥७॥
एतैर्वैद्यकशास्त्रस्य सारो भवति सर्वतः ॥८॥

शल्यतन्त्रम्
यन्त्रशास्त्रार्थबन्धैस्तु येन चोध्रियते भिषक्
तच्च शल्योद्धरणकं प्रोच्यते वैद्यकागमे
नाराचवालवल्लीभिर्भल्लैः कुन्तैश्च तोमरैः ॥९॥
शिलाग्निभिन्नगात्रस्य तत्र सार्य्यादिशल्यकम् ॥१०॥
तत्प्रतीकारकरणं तच्च शल्यचिकित्सितम्
तथा बाणसमुद्दिष्टतृणपांशुकृमीकचम्
रक्तवस्तु तथा पेशी पूयं शेषान्तरेऽपि यत् ॥११॥
तच्छल्यमिति जानीयाल्लोष्टकाष्ठविभिन्नकम् ॥१२॥

शालाक्यम्
शिरोरोगा नेत्ररोगाः कर्णरोगा विशेषतः
भ्रूकण्ठशंखमन्यासु ये रोगाः सम्भवन्ति हि ॥१३॥
तेषां प्रतीकारकर्म नासावर्त्यञ्जनानि च
अभ्यङ्गं मुखगण्डूषक्रिया शालाक्यनामिका ॥१४॥
इति शालाक्यं नाम

कायचिकित्सा
कषायचूर्णगुटिका पञ्चानां शोधनानि च
कोष्ठामयानां शमनीक्रिया कायचिकित्सितम् ॥१५॥
गुदामयं बस्तिरुजं शमनं बस्तिरूहकम्
आस्थापनानुवासन्तु अगदं नाम एव च ॥१६॥

बालचिकित्सा
गर्भोपक्रमविज्ञानं सूतिकोपक्रमस्तथा
बालानां रोगशमनं क्रिया बालचिकित्सितम् ॥१७॥

विषतन्त्रं नाम
सर्पवृश्चिकलूतानां विषोपशमनी तु या
सा क्रिया विषतन्त्रञ्च नाम प्रोक्ता मनीषिभिः ॥१८॥

भूतविद्यानाम
ग्रहभूतपिशाचाश्च शाकिनीडाकिनीग्रहाः
एतेषां निग्रहः सम्यग्भूतविद्या निगद्यते ॥१९॥

वाजीकरणम्
क्षीणानां चाल्पवीर्याणां बृंहणं बलवर्द्धनम्
तर्पणं समधातूनां वाजीकरणमुच्यते ॥२०॥

रसायनतन्त्रम्
देहस्येन्द्रियदन्तानां दृढीकरणमेव च
वलीपलितखालित्यवर्जनेऽपि च या क्रिया ॥२१॥
पूर्वं वैद्यप्रणीतं हि तद्रसायनमुच्यते ॥२२॥

उपाङ्गचिकित्सा
छिन्नं भिन्नं तथा भग्नं क्षतं पिच्चितमेव च
तेषां दग्धप्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः ॥२३॥
इति वैद्यकसर्वस्वं चिकित्सागमभूषणम्
पठित्वा तु सुधीः सम्यक् प्राप्स्यते सिद्धिसङ्गमम् ॥२४॥
इति वैद्यकसर्वस्वे चिकित्सासंग्रहो नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP