प्रथमस्थानम् - प्रथमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


नत्वा शिवं परमतत्त्वकलाविरूढं ज्ञानामृतैकचटुलं परमात्मरूपम्
रागादिरोगशमनं दमनं स्मरस्य शश्वत्क्षपाधिपधरं त्रिगुणात्मरूपम् ॥१॥
आत्रेयहारीतसंवादः
हिमवदुत्तरे कूले सिद्धगन्धर्वसेविते
शान्ते मृगगणाकीर्णं नाना पादपशोभिते ॥२॥
तत्रस्थं तपसा युक्तं तरुणादित्यतेजसम्
शुद्धस्फटिकवच्छुभ्रं भूतिभूषितविग्रहम् ॥३॥
जटाजूटाटवीमूले उषितं शुभ्रकुण्डलम्
आत्रेयं बहुशिष्यैस्तु राजितं तपसान्वितम् ॥४॥
पप्रच्छ शिष्यो हारीतः सर्वज्ञानमिदं महत् ॥५॥
हारीत उवाच
भवन् गुणगणाधार आयुर्वेदविदां वर
विनयादविनीतोऽहं पृच्छामि मुनिपुङ्गव ॥६॥
कथं रोगसमुत्पत्तिरुत्पन्नो ज्ञायते कथम्
उपचारः प्रचारश्च कथं वा सिद्धिमिच्छति ॥७॥
एतत्सम्यक् परिज्ञानं कथयस्व महामुने
एवं पृष्टो महाचार्यो हारीतेन महात्मना
प्रत्युवाच ऋषिः पुत्रं प्रहस्योत्फुल्ललोचनः ॥८॥
आत्रेय उवाच
शृणु पुत्र महाप्राज्ञ सर्वशास्त्रविशारद
चिकित्साशास्त्रकुशल वैद्यविद्याविचक्षण ॥९॥
आयुर्वेदमपारन्तु श्लोकानां लक्षसंख्यया
कथं तस्य परिज्ञानं कालेनाल्पेन पुत्रक ॥१०॥
अल्पायुषोऽल्पवक्तारः स्वल्पशास्त्रविशारदाः
अल्पावत्रारणे शक्ताः कलौ जाता इमे नराः ॥११॥
अल्पः कलियुगश्चायं नरोपद्रवकारणम्
कथं पुत्र प्रवक्ष्यामि विस्तरेण तवागमम् ॥१२॥
यस्य श्रवणकालो यो याति चान्तञ्च पुत्रक
तस्माच्चाल्पतरेणाऽपिवक्ष्यामि शृणु साम्प्रतम् ॥१३॥
चतुर्विंशसहस्रैस्तु मयोक्ता चाद्यसंहिता
तथा द्वादशसाहस्री द्वितीया संहिता मता ॥१४॥
तृतीया षट्सहस्रैस्तु चतुर्थी त्रिभिरेव च ॥१५॥
पञ्चमी दिक्पञ्चशतैः प्रोक्ताः पञ्चात्र संहिताः
तस्माच्चाल्पतरेणापि वक्ष्यामि शृणु पुत्रक ॥१६॥
येन विज्ञानमात्रेण गदवेदविदो भवेत्
किमत्र बहुनोक्तेन चाल्पसारे विशारद ॥१७॥
येन धर्मार्थसौख्यं च तद्धि कर्म समाचरेत्
येन संजायते श्रेयो येन कीर्तिर्महत्सुखम् ॥१८॥
तत्कर्म नितरां साध्यं जनानन्दविधायकम् ॥१९॥
एकं शास्त्रं वैद्यमध्यात्मकं वा सौख्यं चैकं यत्सुखं वा तपो वा
वन्द्यश्चैको भूपतिर्वा यतिर्वा एकं कर्म श्रेयसं वा यशो वा ॥२०॥
बहुतरमुपचारात् सारमाधारलोके जननमतिसुखानां वर्द्धनं श्रेयसां वा
विगतकलुषभावा चोज्ज्वला कीर्त्तिमूर्त्तिर्न खलु कुटिलतास्याः श्रूयते लोकवृन्दैः ॥२१॥
आयुर्वेदमिदं सम्यक् न देयं यस्य कस्यचित् ॥२२॥
नाभक्तायाप्यशान्ताय न मूर्खाय न चाधमे
शान्ते देयं न देयं स्यात् सर्वथा नाऽधमेऽधने ॥२३॥
धर्मिष्ठो कुहनी विवर्जितमनाः शान्तः शुचिः शुद्धधीर्धीरोऽभीरुविवेकसारहृदयो विद्याविलासोज्ज्वलः ।
प्राज्ञो रोगगणप्रचारनिपुणोऽलुब्धः सदा तोषधृगित्थं सर्वगुणाकरौ नृपजनैः पूज्यः सदा रोगवित् ॥२४॥
दृष्ट्वा यथा मृगपतिं गजयूथनाथः संशुष्कमानमदबिन्दुकपोलधारः
त्यक्त्वा वनं व्रजति चाकुलमानसेन दृष्ट्वा तथा गदगजो भिषजं प्रयाति ॥२५॥
यद्वत्तमोवृतमिदं भुवनं मयूखैः प्राकाश्यमाशु कुरुते सकलं रविस्तु
तद्वत्सुवैद्य उपलभ्य रुजोतिनाशं शीघ्रं करोति गदिनं गदमुक्तभारम् ॥२६॥
लुब्धः क्रूरः शठजठरको मद्यपश्चालसश्चाधीरो भीरुर्विकलहृदयो हीनकर्मार्थमन्दः ।
शास्त्रज्ञातोप्यविदितगदज्ञानपाखण्डखण्डोवर्ज्यो वैद्यः प्रबलमतिभिर्भूमिपैर्वा सुदूरात् ॥२७॥
वैद्यशास्त्रपठनविधिः

अद्भुतं चाप्यशङ्कञ्च नात्युच्चं नीचमेव च
यः पठेच्छास्त्रमित्थञ्च शास्त्राप्तिस्तस्य दृश्यते ॥२८॥
चर्वणं गिलनं चापि कम्पितं श्वसितं तथा
नोचोच्चं चैव गम्भीरं वर्जयेत्पाठकेन तु ॥२९॥
अनध्यायेन शास्त्रस्य नोत्सवे यज्ञकर्मसु
जातके सूतके चाथ पठनं न विधीयते ॥३०॥
चतुर्दश्यष्टमीदर्शप्रतिपत्पूर्णिमास्तथा
वर्ज्याः पञ्च इमाः पाठे मुनिभिः परिकीर्तिताः ॥३१॥
अकाले दुर्दिने गर्जे दिग्दाहे भूमिकम्पने
शास्त्रपाठस्तथा वर्ज्यो ग्रहणे चन्द्रसूर्य्ययोः ॥३२॥
द्वादशैते अनध्यायाः प्रोक्ताः शृणुष्व पुत्रक
गुरुपीडासमुत्पन्ने नृपे संपीडितेऽथवा ॥३३॥
आहवे जीवसम्पाते प्रदोषे वाऽथवा पुनः
राष्ट्रपीडासमुत्पन्ने न कुर्याच्छास्त्रपाठनम् ॥३४॥
एतैस्तु पठितं शास्त्रं न स्वार्थे सिद्धिसाधकम्
न श्रेयसे न माङ्गल्ये नोपकारे सुखावहम ॥३५॥
एवं ज्ञात्वा पठति निपुणो वैद्यविद्यानिधानं
श्रेयस्तस्य प्रतिदिनमसौ वाञ्छितार्थं प्रपद्येत् ।
कीर्तिः सौख्यं भवति नितरां तस्य लोकप्रशंसा
पूज्यो राज्ञां सततमपि वै जायते स्वार्थसिद्धिः ॥३६॥

इति आत्रेयभाषिते हारीतोत्तरे वैद्यगुणदोषशास्त्रपठनविधिर्नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP