प्रथमस्थानम् - दशमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
अथातः सम्प्रवक्ष्यामि इक्षुवर्गं गुणाधिकम्
रसायनोत्तमं बल्यं रोगवारणमुत्तमम् ॥१॥
स्निग्धञ्च तर्पणं वापि बृंहणञ्च सजीवनम् ॥२॥
तद्वातपित्तशमनश्च तथैव वृष्य अन्तर्विदाही कफकृत्सितेक्षुः ॥३॥
तद्वत् सुकृष्णो भवते गुणानां वृष्यो भवेत्तर्पणदाहहन्ता
क्षारः स किञ्चिन्मधुरो रसेन शोषापहर्त्ता व्रणशोफकारी ॥४॥
यन्त्रेण पीडितरसः कथितो गुरुश्च वृष्यः कफञ्च कुरुतेऽथ सुशीतलश्च
पाके विदाहबलकृच्च सुशोभनश्च संसेवितो रुधिरपित्तरुजं निहन्ति ॥५॥
दन्तैर्निष्पीडितरसो रुचिकृद्गुरुश्च सन्तर्पणो बलकरः कफकृच्छ्रमघ्नः
विष्टम्भकारी रुधिरस्य तथैव पित्तदोषं निहन्ति सकलं वमनञ्च शोषम् ॥६॥
रसपर्युषितोनेष्टस्तापहैकमते गुरुः
कफपित्तकरः शोषी भेदनो वाऽथ मूत्रलः ॥७॥
पक्वो गुरुतरः स्निग्धः सतीक्ष्णः कफवातहा
पित्तघ्नोऽपि विशेषेण गुल्मातीसारकासहा ॥८॥
फाणितं गुर्वभिष्यन्दि बृंहणं शुक्रलञ्च तत्
पित्तघ्नञ्च श्रमहरं रक्तदोषनिषूदनम् ॥९॥
बल्यो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः
स पुराणोऽधिकगुणो गुल्मार्शोऽरोचकापहः ॥१०॥
क्षये कासे क्षतक्षीणे पाण्डुरोगेऽसृजः क्षये
हितो योग्ये न संयुक्तो गुडः पथ्यतमो मतः ॥११॥
गुडखण्डश्च मधुरः सितश्च वातपित्तहा
किञ्चिच्छीतगुणोपेतो बल्यो वृष्यो रुचिप्रदः ॥१२॥
वातपित्तहरं शीतं स्निग्धं बल्यं मुखप्रियम्
चक्षुष्यं श्लेष्मकृच्चोक्तं खण्डं वृष्यतमं मतम् ॥१३॥
सिता सुमधुरा प्रोक्ता वृष्या शुक्रविवर्द्धनी
पित्तघ्नी मधुरा बल्या शर्करा पायिनी नृणाम् ॥१४॥
शर्करान्या सुशीता च कासशूलसमुद्भवा
हिता पित्तासृजि शोषे मूर्च्छांभ्रममदापहा ॥१५॥
गुदामये कामलशोषमेहे गुल्मामये पाण्डुहलीमके च
वाते सपित्तासृजि राजरोगे रुचिप्रदो गोरहरो गुरुः स्यात् ॥१६॥
कासे शोषे गुडो नेष्ट अन्यत्रापि हितो मतः
योगयुक्तोऽहि सर्वत्र हितो गुणगणालयः ॥१७॥
क्षामक्षामक्षतरुजाश्वासमूर्च्छानुरोगिणाम्
अध्वश्रान्तिश्रममदविषमूत्रकृच्छ्राश्मरीणाम् ॥१८॥
जीर्णक्षामज्वरविषमगे रक्तपित्तप्रकोपे
तृष्णादाहक्षयरुधिरगे सर्वरोगान् निहन्ति ॥१९॥
इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने इक्षुवर्गो नाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : February 22, 2021
TOP