प्रथमस्थानम् - सप्तदशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आम्रं जम्बूश्च कोलश्च दाडिमामलकं तथा
खर्जूरश्च परूषश्च मातुलुङ्गपियालजम् ॥१॥
नागरं वालिम्का चैव द्राक्षा च करमर्दकम्
क्षीरिका मधुराश्चैव फलवर्गे प्रकीर्तिताः ॥२॥
अपक्वमाम्रं फलमेव शस्तं संग्राहि पित्तासृजि कोपनञ्च
तथा विपक्वं मधुरञ्च चाम्लं भेद्यं सपित्तामयनाशनञ्च ॥३॥
जम्बूर्ग्राही मधुरकफहा रोचनो वातहारी कोलञ्चाम्लं मधुरमथवा श्लेष्मलं
ग्राहि शस्तम् ।
श्रेष्ठं वातादिकरुजहरं दाडिमञ्चामयघ्नं तत्प्रोक्तञ्च मधुरमुदितं स्वादु राजादनञ्च ॥४
परूषककरहपीलुकानां पियालसिंहीकरमर्दकानाम्
फलानि मेहे विनिहन्ति पित्तं हन्याच्च सर्वातुरसन्धिवातम् ॥५॥
स्यान्मातुलुङ्गः कफवातहन्ता हन्ता क्रिमीणां जठरामयघ्नः
सन्दूषितरक्तविकारपित्तसन्दीपनः शूलविकारहारी ॥६॥
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोफनम्
दीपनं लघु रुच्यञ्च मातुलुङ्गमुदाहृतम् ॥७॥
त्वक् तिक्ता दुर्जरा तिष्या क्रिमिवात कफापहा
स्वादु शीतं गुरु स्निग्धं करहं वातपित्तजित् ॥८॥
मध्यं श्लेष्मातकं छर्दिकफारोचकनाशम्
दीपनं लघु संग्राहि गुल्मार्शोघ्नन्तु केशरम् ॥९॥
पित्तमारुतहृद्वातपित्तलं बद्धकेशरम्
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् ॥१०॥
शूलाजीर्णविरुद्धेषु मन्दाग्नौ कफमारुते
अरुचौ श्वासकासे च स्वरसोऽस्योपदिश्यते ॥११॥
रसोऽतिमधुरो हृद्यो वीर्यं पित्तानिलापहम्
कफकृद्दुर्जरः पाके मातुलुङ्गकटाहकः ॥१२॥
चेतोहारी तेन पृथगतिकटुत्वञ्चाभिधत्ते
हृद्रोगानाहगुल्मश्वसनकफकरो ग्रीष्म कालेऽपहन्ता ॥१३॥
वीर्यकृच्चार्शहृत्काले स्यात्तथा क्रिमिहृन्मतम्
तिक्तं पुष्पञ्च बीजञ्च गुल्मनुत्स्यात्तथापरम् ॥१४॥
निम्बूकं क्रिमिसमूहनाशनं तीक्ष्णमुष्णमुदरग्रहापहम्
वातपित्तकफशूलिनां हितं नष्टधान्यरुचिशोधनं परम् ॥१५॥
त्रिदोषसद्योज्वरपीडितानां दोषाश्रितानाञ्च स्रवज्जलानाम्
मलग्रहे बद्धगुदे हितञ्च विषूचिकायां मुनयो वदन्ति ॥१६॥
नारङ्गजं स्वादु गुणोपपन्नं सन्दीपनं रोचकमर्शसाञ्च
त्रिदोषहृच्छूलक्रिमीन्निहन्ति मन्दाग्निकासश्वसनापहारि ॥१७॥
अम्ली हि चाम्लफलमविपक्वां तदस्रपित्तामकरं विदाहि
वातामये शूलगदे प्रशस्तं पक्वं तथा शीतगुणोपपन्नम् ॥१८॥
द्राक्षाफलं मधुरमम्लकषाययुक्तं क्षारेण पित्तमरुतां कफहारिशीघ्रम्
श्रेष्ठं निहन्ति रुधिरामयदाहशोषमूर्च्छाज्वरश्वसनकासविनाशकारि ॥१९॥
कषायघ्ना विपाके च द्राक्षा चैव कफे हिता ॥२०॥
नालिकेरं सुमधुरं गुरु स्निग्धञ्च शीतलम्
हृद्यं सबृंहणं बस्तिशोधनं रक्तपित्तनुत् ॥२१॥
विष्टम्भि पक्वं मतिमन्नपक्वं कफातलम्
बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः ॥२२॥
हृद्यं मनोज्ञं कफवृद्धिकारि शान्तञ्च सन्तर्पणमेव बल्यम्
रक्तं सपित्तं श्वसनञ्च दाहं रम्भाफलं हन्ति सदा नराणाम् ॥२३॥
अपक्वं संग्राहि च शीतलञ्च कषायकं वातकफं करोति
विष्टम्भि बल्यं गुरु दुर्जरञ्च आरण्यरम्भाफलमेव तद्वत् ॥२४॥
कपित्थकाम्लं मधुरं कषायं विषदं गुरु
कासातिसारहृद्रोगच्छर्दिकफामयापहम् ॥२५॥
कपित्थं मधुरं शीतं कषायं ग्राहकं लघु ॥२६॥
अपक्वं खर्जूरफलं त्रिदोषशमनं मतम्
पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम् ॥२७॥
कषायमधुरं भेदि पूगं पित्तकफापहम् ॥२८॥
नागवल्लोदलं हृद्यं सुगन्धि कफवातजित् ॥२९॥
खदिरः कफपित्तघ्नः कण्ठ्यः कुष्ठनिबर्हणः ॥३०॥
चूर्णकं पित्तहृत्तीक्ष्णं ताम्बूलं कफवातजित् ॥३१॥
संयोगात्सुरसं स्वादु मुखवैरस्यनाशनम्
दन्तस्थैर्यकरं शोषपीनसारोगशान्तिकृत् ॥३२॥
रोगपाटवसंशुद्धिस्वरकान्तिकरं मतम्
कण्ठ्यं रुच्यमुरस्यञ्च फलकर्पूरसंयुतम् ॥३३॥

इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने फलवर्गो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP