प्रथमस्थानम् - चतुर्थोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


इदानीं सम्प्रवक्ष्यामि देशकालबलाबलम्
सात्म्यं प्रकृतिदेहञ्च तथाग्नीनां विशेषणम् ॥१॥
देशस्तु त्रिविधो ज्ञेयो ह्यनूपो जाङ्गलस्तथा
साधारणो विशेषेण ज्ञातव्यास्ते मनीषिभिः ॥२॥
बहुतरशुभनद्यश्चारुपानीयपुष्टाः सरससरौपेता शाद्वलासार भूमिः
हरितकुशजलानां शालिकेदाररम्यादिनकरकरदीप्तिं वाञ्छते यत्र लोकः ॥३॥
गुरुमधुररसाढ्या भाति चेक्षुः सदार्द्रा विविधजनितवर्णाः शालिगोधूमयूषाः
मधुररसविभुक्त्या मानवानां प्रकोपी भवति कफसमीरः स्यात्तदानूपदेशः ॥४॥
खरपरुषविशालाः पर्वताः कण्टकीर्णा
दिशि दिशि मृगतृष्णा भूरुहाः शीर्णपर्णाः ।
अतिखररविरश्मीपांशुसम्पूर्णभूमिः
सरसि रसविहीना कूपकाम्भःप्रकर्षः ॥५॥
तदनु विरससस्याहारिणो गोमहिष्यः प्रभवति रसमांसे रूक्षभावश्च सम्यक्
पुनरपि हिमवाहं शालिशस्यं न चेक्षुर्भवति रुधिरपित्तं कोपमाशु ह्युपैति ॥६॥
उभयगुणशतं वा नातिरूक्षं न स्निग्धं न च खरबहुलं चेच्चाभितः कण्टकाढ्यम्
भवति च जलकीर्णं नातिशीतं न चोष्णं समप्रकृतिसमेतं विद्धि साधारणं च ॥७॥
कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च
वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ॥८॥
कालः कालयते लोकं कालः कालयते जगत्
कालः कालयते विश्वं तेन कालो विधीयते ॥९॥
कालस्य वशगाः सर्वं देवर्षिसिद्धकिन्नराः
कालो हि भगवान् देवः स साक्षात्परमेश्वरः ॥१०॥
सर्पपालनसंहर्त्ता स कालः सर्वतः समः
कालेन काल्यते विश्वं तेन कालो विधीयते ॥११॥
येनोत्पत्तिश्च जायेत येन वै कल्पते कला
सत्त्ववांस्तु भवेत्कालो जगदुत्पत्तिकारकः ॥१२॥
यः कर्माणि प्रपश्येत प्रकर्षं वर्त्तमानके
सोऽपि प्रवर्त्तको ज्ञेयः कालःस्यात्प्रतिकालकः ॥१३॥
येन मृत्युवशं याति कृतं येन लयं व्रजेत्
संहर्त्ता सोऽपि विज्ञेयः कालः स्यात्कलनापरः ॥१४॥
कालः सृजति भूतानि कालः संहरते प्रजाः
कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः ॥१५॥
काले देवा विनश्यन्ति काले चासुरपन्नगाः
नरेन्द्राः सर्वजीवाश्च काले सर्वं विनश्यति ॥१६॥
त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः
सूक्ष्मोऽपि सर्वगः सर्वैर्व्यक्ताव्यक्ततरः शुभः ॥१७॥
तथा वर्षाहिमोष्णाख्यास्त्रयः काला इमे मताः
तथा त्रयोऽन्येऽपि ज्ञेया उदयमध्यास्तमेव च ॥१८॥
वर्षा शरच्च हेमन्तः शिशिरश्च वसन्तकः
ग्रीष्मोऽतिक्रमतो ज्ञेय एवं षड् ऋतवः स्मृताः ॥१९॥
पृथक्पृथक् प्रवक्ष्यामि रवेर्गतिविशेषणैः
प्रकोपं शमनं ज्ञात्वा अयने द्वे स्मृते बुधैः ॥२०॥
दक्षिणायनमेकं स्यात् द्वितीयं चोत्तरायणम्
वर्षा शरच्च हेमन्तो दक्षिणायनमध्यगाः ॥२१॥
शिशिरश्च वसन्तश्च ग्रीष्मः स्यादुत्तरायणे
याम्ये गतिर्यदा भानोस्तदा चान्द्रगुणा मही ॥२२॥
वारि शीतलसम्भूतं शीतं तत्र प्रजायते
बलिनो मधुरास्तिक्ताः कषायास्तु विशेषतः ॥२३॥
जीवानां सात्म्यमतुलमोषधीनां च वीर्यता
आर्द्रत्वं भूधराणाञ्च दिशश्चाप्यतिशीतलाः ॥२४॥
सक्लेदा पृथिवी सर्वा तस्मादार्द्रा सफेनिला
कथं चिकित्सयेत् पित्तं कोपं याति विलीयते ॥२५॥
तस्मादनुविपर्यासादुपचारेण शाम्यति
यदोदीच्यां गतिर्भानोस्तदा सूर्य्यो जलाधिपः ॥२६॥
तस्मादुष्णगुणास्तीव्राः सम्भवन्ति विदाहिनः
खरसूर्यांशुजालैस्तु शुष्यते वनकाननम् ॥२७॥
संशुष्का मेदिनी सर्वादिशः पानादिनोरसाः
बलिनोऽम्लकटुक्षाराः सम्भवन्ति विदाहिनः ॥२८॥
तस्मात् संकुप्यते पित्तं रक्तेन सह मूर्च्छितम्
ओषधिरसः संशुष्को गोजातीनां पयांसि च ॥२९॥
अल्पं बलं च जन्तूनां कथञ्चित्कफसम्भवः
दृश्यते च वसन्ते च स्वयमेव शमं व्रजेत् ॥३०॥
एवं ज्ञात्वा सुधीः सम्यक्कुर्यात्सर्वं प्रतिक्रियाम् ॥३१॥
सघनवारिदवारिसमाकुला अखिलवत्प्रवरोदकपूरिताः
समदवातकरा विदिशो दिशः प्रमुदितक्रिमिकीटभृता मही ॥३२॥
नीलसस्यहरितोज्ज्वला मही कुल्यका सलिलसंप्लुता नता
इन्द्रगोपकविराजिता वरा पङ्कभूषणबिभूषिता धरा ॥३३॥
उद्भिन्नचूतांकुरो भूधरः स्याद्रेजे वनं वा मधुरं व्यकूजन्
भृङ्गा मयूरा जलदस्य घोषं सर्वेऽपि जीवा बलमाप्नुवन्ति ॥३४॥
केकी कूजति कानने च सरसो म्लानाम्बुपूर्णा तथा
हंसा मानसमाव्रजन्ति कमलान्युन्म्लानतां यान्ति च ।
गर्जन्मेघमहेन्द्रकन्दरदरी सस्यावृता श्यामला
भात्येवं पवनस्य कोपनकरी वर्षाऋतुः श्रेयसी ॥३५॥
किञ्चिद्गर्भोद्भवानि स्युः सस्यानां दृढतागमः
बहुसस्या भवेद्धात्री वारिपूर्णा शरन्मुहुः ॥३६॥
नद्यः पूर्णाम्भसोत्खातशीर्णपातास्तटद्रुमाः
कुल्याप्रस्रवणानान्तु स्रवत्यम्भो दिशो दिशः ॥३७॥
बहूदकधरा मेघा बहुवृक्षा घनस्वनाः
एवं गुणसमायुक्ता वर्षा स्यादृतुकोविदैः ॥३८॥
तस्माद्वातकफः कोपी जायते च नृणां भृशम्
इति ज्ञात्वा भिषक्छ्रेष्ठः कुर्यात्तस्यां प्रतिक्रियाम् ॥३९॥
स्वेदनं मर्दनं पथ्यं निर्वातसेवनं तथा
गौरारामारतं शस्तं व्यायामक्रमविक्रमः ॥४०॥
कटुवम्लक्षारसुरसाः सेव्या वातकफापहाः
निरूहबस्तिकर्मात्र कफवातरुजापहम् ॥४१॥
मेघाः सूर्यशिलासमानरुचयो ह्यल्पस्रवाल्पस्वना
हंसालीजलजालिमण्डितजलं पद्माकरं शोभनम् ।
तीव्रस्निग्धमयूख चन्द्रविमला सानन्दिनी कौमुदी
चित्रा घर्मविपक्वतोयसुरसा स्यान्निर्मलं पुष्करम् ॥४२॥
तत्र शीतलगतं वयोगतं जातपित्तरुधिरस्य योग्यताम्
पथ्यमत्र च नरस्य शीतलं दृश्यते कथमपि त्रयोद्भवम् ॥४३॥
शृतं क्षीरं सिता पथ्यं चन्द्रिकासेवनं निशि
श्यामारामारतं शस्तं प्रभाते निर्मलं दधि ॥४४॥
कामिन्यालिङ्गनानन्दश्रान्तः शीतसिरोरुहैः
चन्दनादीनि सेवेत दृष्टं शरदि कोपनम्
एवं प्रशमनं दृष्टं शरत्पित्तप्रकोपने ॥४५॥
बहुशीतः समीरोऽल्पश्चाल्पवासरता ऋतौ
अल्पतेजा दिवानाथो धूमाक्रान्ता च दिग्भवेत् ॥४६॥
विस्तीर्णशालिकेदारा नीलधान्योज्ज्वला मही
एवं गुणसमायुक्ता हैमन्ती स्म भवेदृतुः ॥४७॥
तत्र वातकफा दोषा दृश्यन्ते कुपिता भृशम्
अग्निसंसेवनं पथ्यं कटुक्षाराम्लसेवनम् ॥४८॥
गौरारामारतं शस्तं व्यायामश्च प्रशस्यते
एवं संशाम्यन्ति दोषाः कफवातसमुद्भवाः ॥४९॥
बलिनः शीतसंरोधा हेमन्ते प्रबलोऽनिलः
भवत्यल्पेन्धनो धातून् सपचेद्वायुनेरितः ॥५०॥
अतो हिमेऽस्मिन् सेवेत स्वाद्वम्ललवणान्रसान्
दीर्घा निशाभवेत्तर्हि प्रातरेव बुभुक्षितः ॥५१॥
भवत्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु ॥५२॥
अर्कन्यग्रोधखदिरकरञ्जककुभादिकम्
प्रातर्भुक्त्वा च मधुरकषायकटुतिक्तकम् ॥५३॥
बहुलशिशिरवातः किञ्चिदुद्भूतसस्या
भवति वसुमतीयं पक्वसस्यैस्तु पीता ।
कथमपि तु हिमं स्याल्लिङ्गवैशेषिकं वा
पवनकफविकारो जायते शैशिरे च ॥५४॥
गौरारामारतमतिशयेनारुणान्यम्बराणि सेव्यं
तिक्तं कटुकलवणं प्रायशो ह्यम्लमेव ।
स्वेदोन्मर्दं प्रतिदिनमिदं कारयेद्यत्र सम्यग्
नाशं यातोऽनिलकफगदौ क्वास्ति तेषां प्रकोपः ॥५५॥
मुदितकोकिलकूजितकाननं मदनसूचितकिंशुकशोभितम्
कुसुमसौरभरञ्जितभूधरं क्वणितमत्तमधुव्रतलालसम् ॥५६॥
मकरकेतनबाणसमाकुलं मुदितमेव समस्तमिदं जगत्
मलयमारुत उष्णगुणान्वितः कफकरो हि वसन्तऋतुर्भवेत् ॥५७॥
कफजकोपविनाशनलालनं वमननावनरूक्षनिषेवणम् ॥५८॥
विविधः सुरतानन्दः सम्भ्रमः कफवारणः
व्यायाम श्रमसंरोधखिन्नविश्रान्तमानसः ॥५९॥
कटुक्षाराम्लाः सेव्याश्च शोषणं कफसम्भवम्
एवं क्रियासमापन्नो नरः शीघ्रं सुखी भवेत् ॥६०॥
दीर्घवासरसंतीक्ष्णं ज्वालामालाकुलं जगत्
दिशि दिशि मृगतृष्णा चोष्णं भृशं भवेद्रजः ॥६१॥
नैऋर्तो मारुतो रूक्षः शीर्णपर्णा महीरुहः
दग्धतृणाकुलारण्यं दावाग्निसंकुला दिशः ॥६२॥
एवं तु लक्ष्म ग्रीष्मस्य पित्तरक्तमुदीर्यते
तस्मात् क्रियाप्रतीकारं कुर्यात् संशमनं भिषक् ॥६३॥
जलक्रीडादिवानिद्रासेवनं सुखसाधनम्
श्यामारामारतं शस्तं किञ्जल्कं कुञ्जशीतलम् ॥६४॥
नीलनालदलोपेतः श्रमघ्नो व्यजनानिलः
केतक्यामोदकुसुमं चन्दनोशीरशीतलैः ॥६५॥
लेपनं शीतलं सम्यग्धारागाराशयः पुनः
एवं क्रियासमापन्नो ग्रीष्मे च सुखमङ्गमः ॥६६॥

इति आत्रेयभाषिते ऋतुचर्यानाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP