ब्रह्मखण्डः - अध्यायः २६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम्
प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम् ॥१॥
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने
दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव ॥२
सूत उवाच
शृणुष्व मुनिशार्दूल कथयामि समूलतः
वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः ॥३॥
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः
तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज ॥४॥
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम्
शतमन्वंतरं यावत्पच्यते नात्र संशयः ॥५॥
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने
अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा ॥६॥
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ
तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते ॥७॥
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम्
शतमन्वंतरं विप्र निरयं मिथ्यया किमु ॥८॥
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव
गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम् ॥९॥
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि
सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते ॥१०॥
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते
तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम् ॥११॥
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम्
तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम् ॥१२॥
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम्
उद्धारं कोटिपुरुषैर्मृतो याति न संशयः ॥१३॥
शौनक उवाच
कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात्
दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात् ॥१४॥
सूत उवाच
पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः
बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः ॥१५॥
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः
विप्राणामतिथीनां च पूजकः सर्वदैव तु ॥१६॥
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा
वाचां गुरुजनानां च पालको हरिसेवकः ॥१७॥
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना
प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः ॥१८॥
ब्राह्मण उवाच
शृणु मे वचनं धीर मम जाया मृता शुभा
किं करोमि क्व गच्छामि कथयाद्यानुकंपया ॥१९॥
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः
किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः ॥२०॥
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः
शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका ॥२१॥
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम्
नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि ॥२२॥
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम्
श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति ॥२३॥
ब्राह्मण उवाच
कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम्
विलंबे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम् ॥२४॥
वीरविक्रम उवाच
तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा
दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः ॥२५॥
सूत उवाच
ब्राह्मणं कृष्णशर्माणं चाहूयाकथयन्मुने
पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज ॥२६॥
कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि
अज्ञातायाकुलीनाय न ददस्व विशेषतः ॥२७॥
ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन
अस्माकं वचनं तात शृणुष्व वीरविक्रम ॥२८॥
न ज्ञायते कुलं यस्य देशगोत्रधनं तथा
शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते ॥२९॥
स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम्
कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा ॥३०॥
इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे
दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः ॥३१॥
सत्यं तद्वचनं श्रुत्वा शंखचक्रगदाधरः
आविर्बभूव सहसा चारुह्य गरुडं मुने ॥३२॥
श्रीभगवानुवाच
धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता
धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् ॥३३॥
धन्यं कर्म्म च ते जन्म त्रैलोक्ये नैव विद्यते
एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम् ॥३४॥
सूत उवाच
एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम्
आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् ॥३५॥
सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम्
रथे चारोपयामास शंखपद्मधरः स्वयं ॥३६॥
गृहीत्वा तान्हरिः सर्वान्गतो वैकुंठमंदिरम्
तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम् ॥३७॥
वचनं लंघयेद्यस्तु यस्तु वा दक्षिणं करम्
सकुलो निरयं याति सत्यं सत्यं वदाम्यहम् ॥३८॥
तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः
त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम ॥३९॥
दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः
स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत् ॥४०॥
वचनं लंघयेद्यस्तु धर्मस्तस्य विलंघति
नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम् ॥४१॥
स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत्
जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम् ॥४२॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे
षडिंवशतितमोऽध्यायः ॥२६॥
 

इति स्वर्गोत्तरापरनामकं ब्रह्मखण्डं संपूर्णम् ॥

इति श्रीपाद्मे महापुराणे चतुर्थं ब्रह्मखण्डं समाप्तम् ॥


N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP