ब्रह्मखण्डः - अध्यायः ११

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच-
इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित ॥१॥
निरहंकार हे सूत लोकानुग्रहकारक
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा ॥२॥
पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ॥३॥
सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम्
शृणुष्व भोः समासेन कथयामि विधानतः ॥४॥
आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके
सौराष्ट्रदेशवासी च वेदवेदांगपारगः ॥५॥
भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ॥६॥
ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी
श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः ॥७॥
अथैकदा श्यामबाला सुवर्णसिकतासु च
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ॥८॥
जगाम नीपवृक्षस्य तलं परमदुर्लभम्
एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी ॥९॥
लोकानां नीतिदा साथ समायाता स्वयं पुरः
धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर ॥१०॥
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना
केषां क्षुद्रतराणां हि गृहे गच्छामि सांप्रतम् ॥११॥
इति संचिंत्य मनसा गता राजनिकेतनम्
सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम् ॥१२॥
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे ॥१३॥
यामि वेगेन पश्यामि राज्ञीं सुरतिचंद्रिकाम्
तच्छ्रुत्वा वचनं तस्या रत्नदंडकरा च सा
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ ॥१४॥
द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे ॥१५॥
वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दंडकरे यदा
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् ॥१६॥
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी ॥१७॥
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् ॥१८॥
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी ॥१९॥
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता ॥२०॥
बहिर्भूय द्रुतं गेहाद्रुदंती च पुनः पुनः
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः ॥२१॥
अपृच्छं सर्ववृत्तांतं कथितो वै यथार्थतः
तया ततो व्रतवरमुपदेशं ददाम्यहम् ॥२२॥
ममोपदेशतः सा वै चक्रे व्रतवरं मुदा
तस्य प्रसादाद्भो द्वाःस्थे संजाता सुखिता च सा ॥२३॥
कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता
समानेतुं ततस्तौ तु विहिताखिलघातकौ ॥२४॥
किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्प्रभुः
यमाज्ञया समायाता यमदूता भयंकराः ॥२५॥
बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः
उद्यमं चक्रिरे गंतुं यमस्य शरणं प्रति ॥२६॥
अत्रांतरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः
समानेतुं समायाताः शंखचक्रगदाधराः ॥२७॥
दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा ॥२८॥
पाशं छित्त्वा समारोप्य राजहंसयुते रथे
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना ॥२९॥
यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ॥३०॥
पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना
व्रतं च विस्मृतौ द्वाःस्थे राजसंपत्तिगर्वितौ
तस्माच्च तव तस्यापि चोपदेशार्थमागता ॥३१॥
द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम्
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ॥३२॥
एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि
कमलोवाच-
कार्त्तिके च व्यतिक्रांते मार्गशीर्षे समागते
तस्मिन्मासे च भो पोष्ये वासरे गुरुसंज्ञके ॥३३॥
ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता
नारायणेन सहितां लक्ष्मीं संपूजयेत्ततः ॥३४॥
मिष्टैः पायसयुक्तैश्च भुक्तैश्च खंडमिश्रितैः
लक्ष्मीं संतोषयेत्प्रेष्ये ततः संप्रार्थयेदिदम् ॥३५॥
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ॥३६॥
ईश्वरी कमले देवि शरणं च भवानघे
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ॥३७॥
शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम्
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ॥३८॥
आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान्
द्वितीये तु गुरोर्वारे विशेषं शृणु सुंदरि ॥३९॥
चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ॥४०॥
तृतीये खंडसंयुक्तं दध्योदननिवेदनम्
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ॥४१॥
लक्ष्मीदेवीं प्रयत्नेन रत्नदंडकरे ततः
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ॥४२॥
वस्त्रालंकारभोज्यैश्च फलैर्नानाविधैस्तथा
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचंद्रिकाम् ॥४३॥
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे
इत्युक्त्वा सा तु चार्वंगी गता राज्ञीसमीपतः ॥४४॥
शिरस्यंजलिमाधाय पोष्या ब्रह्मन्समूलतः
आरभ्य सांगपर्यंतं यदूचे कमलालया ॥४५॥
तत्सर्वं कथयामास राज्ञीं सुरतिचंद्रिकाम्
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचंद्रिका ॥४६॥
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुंदर
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ॥४७॥
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम्
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गंतुमिच्छामि चंचला ॥४८॥
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम्
इंदिरावासरे चाद्य चांडालेन करोषि यत् ॥४९॥
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ॥५०॥
जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा
ततः सा कमला वृद्धा क्रंदमाना पलायिता ॥५१॥
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम्
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ॥५२॥
श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ॥५३॥
कमला कथितं सर्वं वृत्तांतं द्विजसत्तम
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ॥५४॥
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ॥५५॥
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ॥५६॥
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ॥५७
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ॥५८॥
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता
उपविष्टा च केनापि गंतुं च दुहितुर्गृहम् ॥५९॥
प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ॥६०॥
कालेन कियता विप्र प्रविवेश च कष्टतः
तस्माज्जलं समानेतुं तस्या दास्यः समागताः
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः ॥६१॥
दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः
रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः ॥६२॥
दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ॥६३॥
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ॥६४॥
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ॥६५॥
पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम्
घोटकं च तथा दत्वा पितरं प्रति सुंदरी ॥६६॥
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम्
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ॥६७॥
श्यामाबाला ततश्चैव पितरं दुखिनां वरम्
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ॥६८॥
तुर्येषु समतीतेषु दिवसेषु तपोधन
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ॥६९॥
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम्
ददर्शांगारनिचयं रुरोद भृशदुःखितः ॥७०॥
दुहितुः सदनं यातुं निःससार गृहागतः
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ॥७१॥
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम्
तथैव पूजयामास मातृस्नेहात्पतिव्रता ॥७२॥
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम्
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ॥७३॥
तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ॥७४॥
इंदिरायास्तृतीयानि वासराणि गतान्यपि
चतुर्थवासरे तां तत्कारयामास सा दृढम् ॥७५॥
आगता नगरं सा वै राज्ञी सुरतिचंद्रिका
दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः ॥७६॥
श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ॥७७॥
श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ॥७८॥
गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा
आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम् ॥७९॥
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम्
किमानीतं त्वया कांते कथयस्व ममाग्रतः ॥८०॥
कांतोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ॥८१॥
अन्नादिकं ततो दत्वा मालाधराय भूभुजे
ततो मालाधरो राजा व्यंजनं लवणवर्जितम् ॥८२॥
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ॥८३॥
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन्
एतद्व्रतं च या नारी न करोति महादरात् ॥८४॥
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत्
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥८५॥
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम्
तस्या व्रतफलं चैव नश्यत्येव न संशयः ॥८६॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP