ब्रह्मखण्डः - अध्यायः १३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच-
कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम्
कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवात् ॥१॥
सूत उवाच-
कृष्णजन्माष्टमीं ब्रह्मन्भक्त्या करोति यो नरः
अंते विष्णुपुरं याति कुलकोटियुतो द्विज ॥२॥
अष्टमी बुधवारे च सोमे चैव द्विजोत्तम
रोहिणीऋक्षसंयुक्ता कुलकोटिविमुक्तिदा ॥३॥
महापातकसंयुक्तः करोति व्रतमुत्तमम्
सर्वपापविनिर्मुक्तश्चांते याति हरेर्गृहम् ॥४॥
कृष्णजन्माष्टमीं ब्रह्मन्न करोति नराधमः
इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत् ॥५॥
न करोति च या नारी कृष्णजन्माष्टमीव्रतम्
वर्षे वर्षे तु सा मूढा नरकं याति दारुणम् ॥६॥
जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः
महानरकमश्नाति सत्यं सत्यं वदाम्यहम् ॥७॥
दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः
तच्छृणुष्व महाप्राज्ञ सर्वपातकनाशनम् ॥८॥
दिलीप उवाच-
भाद्रे मास्यसिताष्टम्यां यस्यां जातो जनार्द्दनः
तदहं श्रोतुमिच्छामि कथयस्व महामुने ॥९॥
कथं वा भगवान्जातः शंखचक्रगदाधरः
देवकीजठरे विष्णुः किं कर्तुं केन हेतुना ॥१०॥
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि कस्माज्जातो जनार्द्दनः
पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम् ॥११॥
पुरा वसुंधरा ह्यासीत्कंसादिनृपपीडिता
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥१२॥
क्रंदती क्रंदती सा तु ययौ घूर्णितलोचना
यत्र तिष्ठति देवेश उमाकांतो वृषध्वजः ॥१३॥
कंसेन ताडिता नाथ इति तस्मै निवेदितुम्
बाष्पवारीणि वर्षंति विवर्णा साविमानिता ॥१४॥
क्रंदंतीं तां समालोक्य कोपेन स्फुरिताधरः
उमयासहितः सर्वैर्देववृंदैरनुव्रतः ॥१५॥
आजगाम महादेवो विधातृभवनं रुषा
गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे ॥१६॥
उपायः सृज्यतां ब्रह्मन्भवता विष्णुना सह
ऐश्वरं तद्वचः श्रुत्वा गंतुं प्राह कृतात्मभूः ॥१७॥
क्षीरोदे यत्र वैकुंठः सुप्तोऽस्ति भुजगोपरि
हंसपृष्ठं समारुह्य हरेरंतिकमाययौ ॥१८॥
तत्र गत्वा च तं धाता देववृंदैर्हरादिभिः
संयुक्तः स्तूयते वाग्भिः कोमलं वाग्विदांवरः ॥१९॥
नमः कमलनेत्राय हरये परमात्मने
जगतः पालयित्रे च लक्ष्मीकांत नमोऽस्तु ते ॥२०॥
इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः
देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम् ॥२१॥
ब्रह्मोवाच-
शृणु देव जगन्नाथ यस्मादस्माकमागतम्
कथयामि सुरश्रेष्ठ तदहं लोकभावन ॥२२॥
शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः
वसुधा ताडिता तेन करघातेन पीडिता ॥२३॥
वरं दत्वा पुराप्यग्रे मायया तु प्रवंचितः
भागिनेयं विना शंभो मरणं भविता न मे ॥२४॥
तस्माद्गच्छ स्वयं देव कंसं हंतुं दुरासदम्
देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम् ॥२५॥
ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम्
पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति ॥२६॥
उमया रक्षया सार्द्धं शंखचक्रगदाधरः
उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः ॥२७॥
देवकीजठरे जन्म लेभे तत्र गदाधरः
यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना ॥२८॥
नवमासांश्च विश्रम्य कुक्षौ नवदिनांतकान्
भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः ॥२९॥
रोहिणीतारकायुक्ता रजनीघनघोषिता
तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः ॥३०॥
वैराटी नंदपत्नी च यशोदाऽजीजनत्सुताम्
पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ॥३१॥
तदा हर्षितुमारेभे दृष्ट्वा ह्यानकदुंदुभिः
कंसासुरभयत्रस्ता प्रोवाच देवकी तदा ॥३२॥
वैराटीं गच्छ भो नाथ सुतं प्रत्यर्पितं किल
पुत्रं दत्वा यशोदायै सुतां तस्याः समानय ॥३३॥
तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः
अंके कुमारमादाय वैराट्यभिमुखंययौ ॥३४॥
यमुनाजलसंपूर्णा तत्पथे मध्यवर्त्मनि
आसीद्घोरा महादीर्घा गम्भीरोदकपूरभाक् ॥३५॥
एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन्
वसुदेवोऽपि दुःखार्तो विललापातिचिंतया ॥३६॥
किं करोमि क्व गच्छामि विधिनापि हि वंचितः
कथमत्र गमिष्यामि वैराटीं नंदमंदिरम् ॥३७॥
हरिणा तत्र सानंदं मायया वंचितः पिता
क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन् ॥३८॥
तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत्
तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा ॥३९॥
मायां कृत्वा जगन्नाथः पितुरंकाज्जलेऽपतत्
तं पुत्रं पतितं दृष्ट्वा हाहाकृत्वा सुदुःखितः ॥४०॥
महोपायं पुनः कर्तुं विधिना तेन वंचितः
त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम ॥४१॥
जनकक्रंदितं दृष्ट्वा कंसारिः कृपया मुहुः
जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः ॥४२॥
यथा तेन यदुश्रेष्ठो जगाम नंदमंदिरम्
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥४३॥
निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता
देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा ॥४४॥
आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा
आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः ॥४५॥
बलादेनां समाकृष्य देवकी वसुदेवयोः
कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये ॥४६॥
स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः
शुद्धकांचनवर्णाभां पूर्णेंदुसदृशाननाम् ॥४७॥
कंसो हसंतीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम्
आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि ॥४८॥
आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः
विद्युच्छीघ्रतया गौरी जगाम शंकरांतिकम् ॥४९॥
गौर्युवाच-
शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः
नंदस्य निलये गुप्तस्तव हंताऽसुरोत्तम ॥५०॥
वसिष्ठ उवाच-
एवमुक्त्वा तु सा देवी जगाम निजमंदिरम्
श्रुत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःखितः ॥५१॥
भगिनीं पूतनामाह गच्छ त्वं नंदमंदिरम्
छद्मना तं सुतं हत्वा गच्छ ते वांच्छितं बहु ॥५२॥
दास्यामि शत्रुं हंतुं मे व्रज शीघ्रतरं शुभे
आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता ॥५३॥
मायया सुंदरी रूपा प्रविष्टा तत्र गोकुले
पयोधरे गरं सा तु धृत्वा हंतुमुपागता ॥५४॥
पशुपानां गृहद्वारि प्रविष्टालक्षितेति च
गत्वांतरुत्थाप्य शिशुं स्तनं दत्वापसद्गतिम् ॥५५॥
ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम्
कालीयदमनं कृत्वा गतो मधुपुरीं ततः ॥५६॥
गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत्
एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम् ॥५७॥
श्रुत्वा पापानि नश्यंति कुर्यात्किं वा भविष्यति
य इदं कुरुते मर्त्यो या च नारी हरेर्व्रतम् ॥५८॥
ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम्
पूर्वविद्धा न कर्त्तव्या तृतीयाषष्ठिरेव च ॥५९॥
अष्टम्येकादशीभूता धर्मकामार्थवांच्छुभिः
वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमी ॥६०॥
विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी
उदये चाष्टमी किंचित्सकला नवमी यदि ॥६१॥
मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत्
अष्टमी बुधवारेण रोहिणीसहिता यदि ॥६२॥
सोमेनैव भवेद्राजन्किंकृतैर्व्रतकोटिभिः
नवम्यामुदयात्किंचित्सोमे सापि बुधेऽपि च ॥६३॥
अपि वर्षशतेनापि लभ्यते वा न लभ्यते
विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी ॥६४॥
कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी
कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः ॥६५॥
नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि
किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥६६॥
किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा
पलवेधेन राजेंद्र सप्तम्या अष्टमीं त्यजेत् ॥६७॥
सुरायाबिंदुनास्पृष्टं गंगांभः कलशं यथा
दिलीप उवाच-
केन चादौ कृतं चेदं केन वा तत्प्रकाशितम्
किं पुण्यं किं फलं देव कथयस्व महामुने ॥६८॥
वसिष्ठ उवाच-
चित्रसेनो महाराजा महापापपरो महान्
अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च ॥६९॥
सुरायां च सदा तृप्तो वृथामांसे सदा रतः
एवं पापसमायुक्तो नित्यं प्राणिवधे रतः ॥७०॥
चांडालैः पतितैः सार्द्धमालापं सर्वदाकरोत्
एतदेवं विधो राजा मृगयायां मनो दधे ॥७१॥
अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः
सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह ॥७२॥
अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति
स वध्यो नात्र संदेहो व्याघ्रो राज्ञः पथा ययौ ॥७३॥
सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह
अनेकक्लेशदुःखेन व्याघ्रं हंतुं समाहितः ॥७४॥
क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे
अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम् ॥७५॥
श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप
नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः ॥७६॥
गंधपुष्पं तथा द्रव्यं कुंकुमादिमनोहरम्
अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसंकुलम् ॥७७॥
राजोवाच-
अन्नाभावान्ममाद्याशु प्राणा यास्यंति निश्चितम्
स्त्रिय ऊचुः-
जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ ॥७८॥
गृध्रमांसं खरं काकं गोमांसमन्नमेव च
भुक्तवान्नात्र संदेहो यो भुंक्ते कृष्णजन्मनि ॥७९॥
किं किं छिद्रं न संजातं संसारे वसतां नृणाम्
येन देहेस्थिते प्राणे जयंती न कृता नृप ॥८०॥
तत्राकृतोपवासस्य शासनं यममंदिरम्
यद्दत्तं पितरो नित्यं न गृह्णंति यथाविधि ॥८१॥
पितरः पातिताः सर्वे जयंत्यां भोजने कृते
इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप ॥८२॥
किंचित्पुष्पं कियद्गंधं वस्त्रं चानीय हर्षितः
एतद्व्रतं समायुक्तं तिथिभांते च पारणम्
व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम् ॥८३॥
दिव्यं विमानमारुह्य गतवान्पितृभिः सह
यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखांबुजम् ॥८४॥
तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात्
यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ
तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् ॥८५
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे हरिजन्माष्टमीव्रतमाहात्म्यं
नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP