ब्रह्मखण्डः - अध्यायः १७
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच
विष्णुपादोदकस्यापि माहात्म्यं पापनाशनम्
कथयस्व महाप्राज्ञ समूलं मे कृपार्णव ॥१॥
सूत उवाच
समस्तपातकध्वंसि विष्णुपादोदकं शुभम्
कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत् ॥२॥
विष्णुपादोदकं ब्रह्मन्स्पर्शतः पापनाशनम्
अकालमरणं नास्ति गंगास्नानफलं लभेत् ॥३॥
विष्णुपादोदकं पापी यः पिबेत्तस्य किल्बिषम्
शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः ॥४॥
तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज
यो वहेच्छिरसा भक्त्या चांते याति हरेर्गृहम् ॥५॥
मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते
हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः ॥६॥
धेनुकोटिसहस्राणि यत्फलं लभते नरैः
दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम् ॥७॥
यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते
हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः ॥८॥
कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः
विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्द्विजाधिकम् ॥९॥
दंतिकोटिप्रदानेन सप्तिकोटिप्रदानतः
यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः ॥१०॥
दत्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत्
विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेत् ॥११॥
शृणु विप्र प्रवक्ष्यामि संक्षेपेणाधिकं किमु
विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेर्गृहम् ॥१२॥
शौनक उवाच
स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहम्
कथयस्व हरेः सूत मम त्वं चानुकंपया ॥१३॥
सूत उवाच
पुरा त्रेतायुगे पापी नाम्ना विप्रः सुदर्शनः
जनार्द्दनदिने नित्यमश्नीयात्स द्विजोत्तम ॥१४॥
शास्त्रनिंदाकरो नित्यं व्रतनिंदाकरः सदा
असावन्यं न जानाति केवलं स्वोदरं विना ॥१५॥
एकदा प्राप्तकालस्तु निधनं प्राप्तवान्द्विज
यमदूताः समायाता बद्ध्वा नीतो यमालयम् ॥१६॥
तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा
भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः ॥१७॥
असौ विप्रो महापापी क्रूरकर्म्मेव दृश्यते ॥१८॥
चित्रगुप्त उवाच
आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम्
वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो ॥१९॥
वासरे कमलाभर्तुश्चाश्नीयाद्यो नराधमः
पुरीषं सोऽश्नीयाद्राजन्निरयं याति दारुणम् ॥२०॥
मन्वंतरशतं देहि स्थानं तु निरयेऽप्यमुम्
ग्रामक्रोडस्य योनौ हि ततो जन्म भविष्यति ॥२१॥
सूत उवाच
यमाज्ञया ततो विप्र तस्य दूतैर्भयंकरैः
पातितस्तु पुरीषे वै मन्वंतरशताधिकम् ॥२२॥
ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः
चिरं नरकमश्नीयाद्धरिवासरभोजनात् ॥२३॥
ततो विप्र प्राप्तकालः पंचत्वं स जगाम ह
काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा ॥२४॥
एकस्मिन्दिवसे विप्र श्रीहरेश्चरणोदकम्
द्वारदेशेस्थितं पीत्वा सर्वपापविवर्जितः ॥२५॥
तस्मिन्नेव दिने काकः पतितः शबरस्य च
काले मृत्युदशां प्राप्तो व्याधेन वायसोपि च ॥२६॥
आगते स्यंदने दिव्ये राजहंसयुते शुभे
आरुह्य बलिभुग्विप्र ययौ स हरिमंदिरम् ॥२७॥
पादोदकस्य माहात्म्यं कथितं पापनाशनम्
यः शृणोति नरः पापी तस्य पापं विनश्यति ॥२८॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे चरणोदकमाहात्म्ये
सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP