ब्रह्मखण्डः - अध्यायः १९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच
अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः
यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज ॥१॥
प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने
वृषैकादशगोदानं सशिखं वपनं ततः ॥२॥
गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः ॥३॥
ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः
चांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ॥४॥
यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत्
सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत् ॥५॥
एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात्
वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै ॥६॥
शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषु
प्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा ॥७॥
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विज
हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम् ॥८॥
आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज
तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः ॥९॥
पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम्
भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत् ॥१०॥
मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैः
तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः ॥११॥
द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः
दान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः ॥१२॥
अज्ञानाद्भुंजते विप्र सूतके मृतके यदि
गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत् ॥१३॥
सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैः
पंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन ॥१४॥
आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत्
अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् ॥१५॥
दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि
शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति ॥१६॥
सशिखं वपनं कुर्यादहोरात्रोपवासतः
नीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज ॥१७॥
प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वा
सशिखं वपनं चैव पंचगव्यं पिबेत्ततः ॥१८॥
गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम्
मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया ॥१९॥
यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः
गोबीजहंता यो विप्रच्छेदकश्च दलस्य च ॥२०॥
स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत्
सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत् ॥२१॥
यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा
तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन ॥२२॥
प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम्
त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम् ॥२३॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः
सर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम् ॥२४॥
ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम्
अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम् ॥२५॥
प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज
सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने ॥२६॥
अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः
पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन ॥२७॥
एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत्
इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम् ॥२८॥
अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितः
चतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम् ॥२९॥
कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम्
कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम्
तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन ॥३०॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP