ब्रह्मखण्डः - अध्यायः ३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच-
कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः
तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः ॥१॥
सूत उवाच-
पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम्
जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः ॥२॥
व्यास उवाच-
तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत्
बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम् ॥३॥
मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत्
प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम् ॥४॥
कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम्
पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥५॥
कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम्
देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः ॥६॥
कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः
संवत्सरकृतं पापं शाकेनैकेन नश्यति ॥७॥
फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये
प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम् ॥८
सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च
सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमंदिरम् ॥९॥
कार्तिके यो नरो दद्यादेकपद्मं हरावपि
अंते विष्णुपदं गच्छेत्सर्वपापविवर्जितः ॥१०॥
प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये
करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत् ॥११॥
कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः
विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम् ॥१२॥
मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः
दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः ॥१३॥
यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः
कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने ॥१४॥
प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया
निशामय द्विजश्रेष्ठ सेतिहासं समाहितः ॥१५॥
पूर्वं त्रेतायुगे विप्रो वैकुंठो नामतः शुचिः
यस्य संगप्रभावेण मुक्तो भवति पातकी ॥१६
एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः
दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः ॥१७॥
सर्पिस्तत्स्वादितु चाखुरागतोऽपि प्रदीपतः
यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः ॥१८॥
मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः
आखोश्च सकलं पापं विनष्टं कृपया हरेः ॥१९॥
सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः ॥२०॥
आगतास्तं समानेतुं बबंधुश्चर्मरज्जुभिः
यावन्नेतुं मनश्चक्रुः शंखचक्रगदाधराः ॥२१॥
आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः
विमानं गगने चैव राजहंसयुतं शुभम् ॥२२॥
निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः
पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिंकरान् ॥२३॥
विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बंधनं कृतम्
गच्छध्वं शमनप्रेष्या यदि वांछास्ति जीवितुम् ॥२४॥
श्रुत्वा प्रकंपितास्ते वै पृच्छंति विनयान्विताः
केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् ॥२५॥
असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ
विष्णुदूता ऊचुः-
पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् ॥२६॥
तेनैव कर्मणा दूता नयामो विष्णुमंदिरम्
अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् ॥२७॥
कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम्
भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः ॥२८॥
तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना
घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे ॥२९॥
अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम्
अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने ॥३०॥
कार्तिके दीपदाता च स गच्छेद्धरिमंदिरम्
व्यास उवाच-
इति श्रुत्वा ततो दूता गतास्ते वै यथागताः ॥३१॥
विष्णुदूता रथे कृत्वा गतास्तं विष्णुमंदिरम्
विष्णुसान्निध्य एवास्य मन्वंतरशतं गतम् ॥३२॥
ततो मर्त्ये राजकन्या बभूव कृपया हरेः
पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा ॥३३॥
इतः पुनर्गता सा तु गोलोकं हरिसेवया
सूत उवाच-
भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम् ॥३४॥
सर्वपापविनिर्मुक्तः स याति विष्णुमंदिरम् ॥३५
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे दीपदानमाहात्म्यं
नाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP