ब्रह्मखण्डः - अध्यायः २५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच
श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम्
सर्वपापक्षयकरं दुष्टग्रहनिवारणम् ॥१॥
विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम्
यः शृणोति नरो भक्त्या चांते याति हरेर्गृहम् ॥२॥
नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम्
यदुच्चारणमात्रेण नरो यायात्परं पदम् ॥३॥
तद्वदस्वाधुना सूत विधानं नामकीर्तने
सूत उवाच
शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम् ॥४॥
नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते
एकदा यमुनातीरे निविष्टं शांतमानसम् ॥५॥
सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि
श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा ॥६॥
श्रीनारद उवाच
योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम्
कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय ॥७॥
श्रीसनत्कुमार उवाच
शृणु नारद गोविंद प्रिय गोविंदधर्मवित्
यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम् ॥८॥
सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः
दंभाहंकृतिपानपैशुनपराः पापाश्च ये निष्ठुराः ॥९॥
ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि
श्रीगोविंदपदारविंदशरणाः शुद्धा भवंति द्विज ॥१०॥
तमपि देवकरं करुणाकरस्थविरजंगममुक्तिकरं परम्
अतिचरंत्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि ॥११॥
सर्वापराधकृदपि मुच्यते हरिसंश्रयः
हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः ॥१२॥
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥१३॥
श्रीनारद उवाच
के तेऽपराधा विप्रेंद्र नाम्नो भगवतः कृताः
विनिघ्नंति नृणां कृत्यं प्राकृतं ह्यानयंति च ॥१४॥
श्रीसनत्कुमार उवाच
सतां निंदा नाम्नः परममपराधं वितनुते
यतः ख्यातिं यांतं कथमु सहते तद्विगर्हाम्
शुभस्य श्रीविष्णोर्य इह गुणनामादिसकलं
धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः ॥१५॥
गुरोरवज्ञा श्रुतिशास्त्रनिंदनं तथार्थवादो हरिनाम्नि कल्पनम्
नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः ॥१६॥
धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः
अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः ॥१७॥
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः
अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् ॥१८॥
एवं नारद शंकरेण कृपया मह्यं मुनीनां परं
प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः
ये ज्ञात्वापि न वर्जयंति सहसा नाम्नोऽपराधान्दश
क्रुद्धा मातरमप्यभोजनपराः खिद्यंति ते बालवत् ॥१९॥
अपराधविमुक्तो हि नाम्नि जप्तं सदा चर
नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः ॥२०॥
श्रीनारद उवाच
सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम्
देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवंति नः कथम् ॥२१॥
श्रीसनत्कुमार उवाच
जाते नामापराधे तु प्रमादे तु कथंचन
सदा संकीर्तयन्नाम तदेकशरणो भवेत् ॥२२॥
नामापराधयुक्तानां नामान्येव हरंत्यघम्
अविश्रांति प्रयुक्तानि तान्येवार्थ कराणि यत् ॥२३॥
नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा
शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम्
तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ॥२४॥
इदं रहस्यं परमं पुरा नारद शंकरात्
श्रुतं सर्वाशुभहरमपराधनिवारकम् ॥२५॥
विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः
तेषामपि भवेन्मुक्तिः पठनादेव नारद ॥२६॥
नाम्नो माहात्म्यमखिलं पुराणे परिगीयते
ततः पुराणमखिलं श्रोतुमर्हसि मानद ॥२७॥
पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम्
तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः ॥२८॥
यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिंधुसंगमे
तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः ॥२९॥
ये पठंति पुराणानि शृण्वंति च समाहिताः
प्रत्यक्षरं लभंत्येते कपिलादानजं फलम् ॥३०॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम्
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥३१॥
ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु
पापजालं तु ते हत्वा गच्छंति हरिमंदिरम् ॥३२॥
पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः
गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने ॥३३॥
कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः
कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम् ॥३४॥
आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन
वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः ॥३५॥
पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम् ॥३६॥
दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम्
कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये
तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज ॥३७॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे
पंचविंशतितमोऽध्यायः ॥२५॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP