ब्रह्मखण्डः - अध्यायः ६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच-
केन पुण्येन भो सूत वैकुंठं समवाप्यते
तद्वदस्व शृण्वतो मे पोतो हि भवसागरे ॥१॥
सूत उवाच-
साधुसाधु मुनिश्रेष्ठ सर्वमंगलकारक
कथयामि समासेन शृण्वतां पापनाशनम् ॥२॥
विष्णवे ब्राह्मणायैव मृदावेश्मविनिर्मितम्
यो वै दद्याद्द्विजश्रेष्ठ तस्य पुण्यं निशामय ॥३॥
विष्णुलोके च स विप्रः सर्वपापविवर्जितः
सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते ॥४॥
विष्णवे सौधगेहं यो दद्याद्वै ब्राह्मणाय च
हरेर्न्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम् ॥५॥
अंते विष्णुपुरं गत्वा युक्तः कोटिकुलैर्द्विज
स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम् ॥६॥
ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने
संख्यां कर्तुमशक्तस्तु तद्वेधाः सर्वकारकः ॥७॥
गण्यंते रेणवश्चैव गण्यंते वृष्टिबिंदवः
न गण्यंते विधात्रापि ब्रह्मसंस्थापने फलम् ॥८॥
नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः
वेधास्तं कथयामास तच्छृणुष्व महामुने ॥९॥
पुरासीद्द्वापरे ब्रह्मन्वारनारी सुशोभना
सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी ॥१०॥
नाम्ना सा चंचलापांगी ययौ देशांतरं कदा
सर्वपापसमायुक्ता नरके पातयंति च ॥११॥
संगेन सिंधुनाकांक्षी जनान्देवालयं गता
तत्र क्षणं सोपविष्टा तांबूलभक्षणं कृतम् ॥१२॥
शेषं चूर्णं सौधभित्तौ दत्वा निम्ने कुतूहलात्
ततो गता जारकांक्षी धनार्थं नगरं प्रति ॥१३॥
जारेण केनचित्सार्द्धं संकेतः सहसा कृतः
संकेतं तु गता वेश्या वनं रात्रौ विमोहिता ॥१४॥
संकेतं नागतो वैश्यो व्यशंकिष्टविलोकिता
कथं कांतो नागतो मे सर्पव्याघ्रैश्च भक्षितः ॥१५॥
संकेतनं कथं हित्वा गतः किं कामविह्वलः
अन्यया ज्ञातया सार्द्धमभिलाषी भवेत्किमु ॥१६॥
परामृष्यैतद्हृद्यंतः कोटपालभयाद्द्विज
नगरं नागता सा हि रुद्धे लोकपथे तमैः ॥१७॥
एतस्मिन्नंतरे व्याघ्रः कामरूपी बलात्क्षुधी
प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज ॥१८॥
ततस्तु यमुनाभ्रातुर्दूतास्ते भीमवर्षिणः
आगता गिरिकूटांगा नेतुं तां पापकर्मणा ॥१९॥
वक्रपादा वक्रमुखा उन्नासा बहुदंष्ट्रिणः
चर्मरज्जूर्मुद्गरांश्च गृहीत्वा पांशुलां द्विज ॥२०॥
बंधयामासुरुन्मत्ता गणिकां चर्म्मरज्जुभिः
शंखचक्रगदापद्मधारिणो वनमालिनः ॥२१॥
प्रेषिता देवदेवेन तद्भक्तवत्सलेन च
कृष्णजीमूतसंकाशाः स्फुरद्वदनपंकजाः ॥२२॥
श्रेणीधराश्चारुनासा दिव्यकुंडलभूषिताः
ददृशुः पथि गच्छंतो विष्णोर्दूतामहात्मनः ॥२३॥
विष्णुदूता ऊचुः-
के यूयं विकृताकारा लक्ष्यंते कर्बुरा इव
इमां विष्णोः प्रियतमां नीत्वा क्व व्रजथोत्तमाम्
इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः ॥२४॥
अथ ते क्रोधसंपन्ना विष्णोर्दूता महाबलाः
जघ्नुस्ते संदेशहरान्यमस्य जगतः प्रभोः ॥२५॥
चक्रादिशस्त्रसंघैश्च सूर्यकोटिसमप्रभैः
कृतांतस्य भटाः सर्वे रुदंतस्ते पलायिताः ॥२६
यमं प्रोचुः सभीताश्च वृत्तांतं सकलं द्विज
यमोऽपि तत्कथां श्रुत्वा चित्रगुप्तमुवाच ह ॥२७॥
धर्म उवाच-
केन पुण्येन भो मंत्रिन्वेश्या मुक्तिं समागता
एतन्मे पृच्छत सर्वं कथयस्व यथार्हतः ॥२८॥
चित्रगुप्त उवाच-
तया पापान्यर्जितानि जन्मतः सुबहून्यपि
किंत्वाकर्णय लोकेश यदि स्यात्पुण्यमस्ति तत् ॥२९॥
गणिकैकदा धर्म्मराज सर्वालंकारभूषिता
कांचित्पुरीं जगामाशु जारकांक्षी धनार्थिनी ॥३०॥
तत्र देवालये तस्मिन्स्थित्वा तांबूलभक्षणं
कृत्वा तच्छेषचूर्णं तु ददौ भित्तौ तु कौतुकात् ॥३१॥
तेन पुण्यप्रभावेण गणिका गतपातका
वैकुंठं प्रति सा याति निर्गता तव दंडतः ॥३२
सूत उवाच-
इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज
व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च ॥३३॥
आरूढा स्यंदने दिव्ये राजहंसयुते तथा
विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिंकरैः ॥३४॥
श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च
तस्थौ सौधगृहे विप्र नानाभोगं चकार ह ॥३५॥
भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः
पुण्यं किं वा भवेत्तस्य न जाने द्विजपुंगव ॥३६॥
भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च
सर्वपापविनिर्मुक्तो यात्यसौ हरिमंदिरम् ॥३७॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP