संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|उमा संहिता| अध्यायः ३२ उमा संहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ उमासंहिता - अध्यायः ३२ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३२ Translation - भाषांतर सूत उवाच ॥अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ॥सुरभिर्विनता चेला ताम्रा क्रोधवशा तथा ॥१॥कदूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ॥पूर्वमन्वंतरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥२॥तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेंतरे ॥उपस्थिते सुयशसश्चाक्षुषस्यांतरे मनोः ॥३॥हिताय सर्वलोकानां समागम्य परस्परम् ॥आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै ॥४॥मन्वंतरे प्रसूयामस्सतां श्रेयो भविष्यति ॥एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥५॥मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया ॥तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥६॥अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥विवस्वान्सविता चैव मित्रावरुण एव च ॥७॥अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥पूर्वमासन्ये तुषितास्सुराः ॥८॥पुरैव तस्यांतरे तु आदित्या द्वादश स्मृताः ॥इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥९॥सप्तविंशति याः प्रोक्तास्सोमपत्न्योऽथ सुव्रताः ॥तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥१०॥अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥बहुपुत्रस्य विदुषश्चतस्रो यास्सुताः स्मृताः ॥११॥कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ॥भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥१२॥स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ॥स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती ॥१३॥एते युगसहस्रांते जायंते पुनरेव हि ॥सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥१४॥यथा सूर्य्यस्य नित्यं हि उदयास्तमयाविह ॥एवं देवानिकास्ते च संभवंति युगेयुगे ॥१५॥दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम् ॥हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥१६॥सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ॥हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥१७॥अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ॥प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः ॥१८॥अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा ॥ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ॥१९॥संह्रादस्य कृतिर्भार्यासूतः पंचजनं ततः ॥विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद्बलिः ॥२०॥बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर ॥बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥२१॥दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः ॥तत्पुत्रो बाणनामा यत्सोऽषि शैववरस्सुधीः ॥यस्संतोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥२२॥सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ॥कृष्णं यस्समरे वीरस्सुप्रसन्नं चकार ह ॥२३॥हिरण्याक्षसुताः पंच पंडितास्तु महाबलाः ॥कुकुरः शकुनिश्चैव भूतसंतापनस्तथा ॥२४महानादश्च विक्रांतः कालनाभस्तथैव च ॥इत्युक्ता दितिपुत्राश्च दनोः पुत्रान्मुने शृणु ॥२५॥अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥अयोमुखश्शंबरश्च कपोलो वामनस्तथा ॥२६॥वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ॥स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥२७॥एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ॥एषां पुत्राञ्च्छृणु मुने प्रसंगाद्वच्मि तेऽनघ ॥२८॥स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥२९॥पुलोमा पुलोमिका चैव वैश्वानरसुते उभे ॥बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः ॥३०॥तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥मरीचिर्जनयामास महता तपसान्वितः ॥३१॥पौलोमाः कालखंजाश्च दानवानां महाबला ॥अवध्या देवतानां च हिरण्यपुरवासिनः ॥३२॥पितामहप्रसादेन ये हताः सव्यसाचिना ॥सिंहिकायामथोत्पन्ना विप्रचित्तेस्सुतास्तथा ॥३३॥दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥३४॥राहुः शल्यो सुबलिनो बलश्चैव महाबलः ॥वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥३५॥अजिको नरकश्चैव कालनाभस्तथैव च ॥शरमाणश्शरकल्पश्च एते वंशविवर्द्धनाः ॥३६॥एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ॥बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः . ॥३७॥संह्रादस्य तु दैतेया निवातकवचाः कुले ॥उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥३८॥षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ॥काकी श्येनी च भासी च सुग्रीवी च शुकी तथा ॥३९॥गृद्ध्रिकाश्वी ह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः ॥काकी काकानजनयदुलूकी प्रत्युलूककान् ॥४०॥श्येनी श्येनांस्तथा भासी भासा न्गृद्धी तु गृध्रकान् ॥शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥४१॥अश्वानुष्ट्रान्गर्दभांश्च ताम्रा च कश्यपप्रिया ॥जनयामास चेत्येवं ताम्रावंशाः प्रकीर्तिताः ॥४२॥विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ॥सुपर्णः पततां श्रेष्ठो नारुणस्स्वेन कर्मणा ॥४३॥सुरसायास्सहस्रं तु सर्पाणाममितौजसाम् ॥अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥४४॥येषां प्रधाना राजानः शेषवासुकितक्षकाः ॥ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥४५॥ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ ॥महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥४६॥कुहरः पुष्पदन्तश्च दुर्मुखास्सुमुखस्तथा ॥बहुशः खररोमा च पाणिरित्येवमादयः ॥४७॥गणाः क्रोधवशायाश्च तस्यास्सर्वे च दंष्ट्रिणः ॥अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥४८॥अनायुषायाः पुत्राश्च पंचाशच्च महाबलाः ॥अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥४९॥शशांस्तु जनयामास सुररभिर्महिषांस्तथा ॥इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥५०॥खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान् ॥५१॥एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ॥येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥५२॥इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : October 12, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP