संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः १२

उमासंहिता - अध्यायः १२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सनत्कुमार उवाच ॥
पानीयदानं परमं दानानामुत्तमं सदा ॥
सर्वेषां जीवपुंजानां तर्पणं जीवनं स्मृतम् ॥१॥
प्रपादानमतः कुर्यात्सुस्नेहादनिवारितम् ॥
जलाश्रयविनिर्माणं महानन्दकरं भवेत् ॥२॥
इह लोके परे वापि सत्यं सत्यं न संशयः ॥
तस्माद्वापीश्च कूपांश्च तडागान्कारयेन्नरः ॥३॥
अर्द्धं पापस्य हरति पुरुषस्य विकर्मणः ॥
कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ॥४॥
सर्वं तारयते वंशं यस्य खाते जलाशये ॥
गावः पिबंति विप्राश्च साधवश्च नरास्सदा ॥५॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ॥
सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ॥६॥
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ॥
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥७॥
अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ॥
कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥८॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ॥
तडागं सुकृते येन तस्य पुण्यमनन्तकम् ॥९॥
चतुर्विधानां भूतानां तडागः परमाश्रयः ॥
तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥१०॥
देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ॥
स्थावराणि च भूतानि संश्रयंति जलाशयम् ॥११॥
प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ॥
अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ॥१२॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ॥
गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ॥१३॥
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ॥
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥१४॥
वसंते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ॥
अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ॥१५॥
मुने व्यासाथ वृक्षाणां रोपणे च गुणाञ्छृणु ॥
प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ॥१६॥
अतीतानागतान्सर्वान्पितृवंशांस्तु तारयेत् ॥
कांतारे वृक्षरोपी यस्तस्माद्वृक्षांस्तु रोपयेत् ॥१७॥
तत्र पुत्रा भवंत्येते पादपा नात्र संशयः ॥
परं लोकं गतस्सोऽपि लोकानाप्नोति चाक्षयान् ॥१८॥
पुष्पैस्सुरगणान्सर्वान्फलैश्चापि तथा पितॄन् ॥
छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ॥१९॥
किन्नरोरगरक्षांसि देवगंधर्वमानवाः ॥
तथैवर्षिगणाश्चैव संश्रयंति महीरुहान् ॥२०॥
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ॥
इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ॥२१॥
तडागकृद्वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ॥
एते स्वर्गान्न हीयंते ये चान्ये सत्यवादिनः ॥२२॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥
सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ॥२३॥
सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ॥
सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥२४॥
ततो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ॥
आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ॥२५॥
सत्यं यज्ञस्तपो दानं मंत्रा देवी सरस्वती ॥
ब्रह्मचर्य्यं तथा सत्यमोंकारस्सत्यमेव च ॥२६॥
सत्येन वायुरभ्येति सत्येन तपते रविः ॥
सत्येनाग्निर्निर्दहति स्वर्गस्सत्येन तिष्ठति ॥२७॥
पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ॥
सत्येन वहते लोके सर्वमाप्नोत्यसंशयम् ॥२८॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ॥
लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ॥२९॥
सत्येन देवाः पितरो मानवोरगराक्षसाः ॥
प्रीयंते सत्यतस्सर्वे लोकाश्च सचराचराः ॥३०॥
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ॥३१॥
मुनयस्सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ॥
सत्यधर्मरतास्सिद्धास्ततस्स्वर्गं च ते गताः ॥३२॥
अप्सरोगणसंविष्टैर्विमानैःपरिमातृभिः ॥
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥३३॥
अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ॥
स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ॥३४॥
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ॥
अनृतं ये न भाषंते ते नरास्स्वर्गगामिनः ॥३५॥
वेदा यज्ञास्तथा मंत्रास्संति विप्रेषु नित्यशः ॥
नोभांत्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ॥३६॥
 ॥व्यास उवाच ॥
तपसो मे फलं ब्रूहि पुनरेव विशेषतः ॥
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ॥३७॥
सनत्कुमार उवाच ॥
प्रवक्ष्यामि तपोऽध्यायं सर्व कामार्थसाधकम् ॥
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥३८॥
तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ॥
तपोरता हि ये नित्यं मोदंते सह दैवतैः ॥३९॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥
तपसा प्राप्यते कामस्तपस्सर्वार्थसाधनम् ॥४०॥
तपसा मोक्षमाप्नोति तपसा विंदते महत् ॥
ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ॥४१॥
नानाविधानि वस्तूनि तपसा लभते नरः ॥
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥४२॥
नातप्ततपसो यांति ब्रह्मलोकं कदाचन ॥
नातप्ततपसां प्राप्यश्शंकरः परमेश्वरः ॥४३॥
यत्कार्यं किंचिदास्थाय पुरुषस्तपते तपः ॥
तत्सर्वं समवाप्नोति परत्रेह च मानवः ॥४४॥
सुरापः पारदारी च ब्रह्महा गुरुतल्पगः ॥
तपसा तरते सर्वं सर्वतश्च विमुंचति ॥४५॥
अपि सर्वेश्वरः स्थाणुर्विष्णु श्चैव सनातनः ॥
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥४६॥
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ॥
तपसा दिवि मोदंते समेता दैवतैस्सह ॥४७॥
तपसा लभ्यते राज्यं स च शक्रस्सुरेश्वरः ॥
तपसाऽपालयत्सर्वमहन्यहनि वृत्रहा ॥४८॥
सूर्य्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ॥
तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ॥४९॥
न चास्ति तत्सुखं लोके यद्विना तपसा किल ॥
तपसैव सुखं सर्वमिति वेदविदो विदुः ॥५०॥
ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ॥
सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ॥५१॥
तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ॥
पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥५२॥
विश्वामित्रो गाधिसुतस्तपसैव महामुने ॥
क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवेत्विदम् ॥५३॥
इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ॥
शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ॥५४॥
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP