संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः १८

उमासंहिता - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ॥
उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ॥१॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ॥
स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ॥२॥
यतस्संप्राप्यते पुंभिस्स्वर्गो नरक एव च ॥
भारतस्यापि वर्षस्य नव भेदान्ब्रवीमि ते ॥३॥
इंद्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥४॥
अयं तु नवमस्तेषां द्वीपस्सागरसंभृतः ॥
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥५॥
पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ॥
पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ॥६॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः ॥
इज्या युद्धपणा सेवा वर्तयन्तो व्यवस्थिताः ॥७॥
महेंद्रो मलयस्सह्यः सुदामा चर्क्षपर्वतः ॥
विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः८
वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने ॥
सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि९
नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः ॥
विंध्योद्भवा महानद्यस्सर्वपापहराश्शुभाः१०
गोदावरी भीमरथी तापीप्रमुखनिम्नगाः ॥
गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ॥११॥
सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ॥
कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ॥१२॥
त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवा स्मृताः ॥
ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसंभवाः ॥१३॥
नानाजनपदास्तेषु मंडलेषु वसन्ति वै ॥
आसां पिबंति पानीयं सरत्सु विविधेषु च ॥१४॥
चत्वारि भारते वर्षे युगान्यासन्महामुने ॥
कृतादीनि न चान्येषु द्वीपेषु प्रभवंति हि ॥१५॥
दानानि चात्र दीयंते सुकृतैश्चात्र याज्ञिकैः ॥
तपस्तपंति यतयः परलोकार्थमादरात् ॥१६॥
यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ॥
अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ॥१७॥
कदाचिल्लभते मर्त्यस्सहस्रैर्मुनिसत्तम ॥
अत्र जन्मसहस्राणां मानुष्यं पुण्यसंचयैः ॥१८॥
स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे ॥
गायंति देवाः किल गीतकानि भवंति भूयः पुरुषास्सुरास्ते ॥१९॥
अवाप्य मानुष्यमयं कदाचिद्विहृत्य शंभोः परमात्मरूपे ॥
फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य ॥२०॥
आप्स्यंति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः ॥
जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः ॥२१॥
लक्षयोजनविस्तारस्समस्तपरिमण्डलः ॥
जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ॥२२॥
संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ॥
ततो हि द्विगुणो ब्रह्मन्प्लक्षद्वीपः प्रकीर्तितः ॥२३॥
गोमंतश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ॥
सोमकस्सुमनाश्शैलो वैभ्राजश्चैव सत्तमः ॥२४॥
वर्षाचलेषु रम्येषु सहितास्सततं प्रजाः ॥
वसंति देवगंधर्वा वर्षेष्वेतेषु नित्यशः ॥२५॥
नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ॥
दश वर्षसहस्राणि तत्र जीवंति मानवाः ॥२६॥
अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ॥
अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ॥२७॥
क्षुद्रनद्यस्तथा शैलास्तत्र संति सहस्रशः ॥
ताः पिबंति सुसंहृष्टा नदीर्जनपदास्तु ते ॥२८॥
न तत्रापि युगावस्था यथास्थानेषु सप्तसु ॥
त्रेतायुगसमः कालस्सर्वदैव महामुने ॥२९॥
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ॥
कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ॥३०॥
प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ॥
इज्यते तत्र भगवाञ्छंकरो लोकशंकरः ॥३१॥
हरिश्च भगवान्ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः ॥
संक्षेपेण तथा भूयश्शाल्मलिं त्वं निशामय ॥३२॥
सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ॥
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥३३॥
वैकलो मानसश्चैव सुप्रभस्सप्तमो मुने ॥
शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ॥३४॥
द्विगुणेन समुद्रेण सततं संवृतः स्थितः ॥
वर्षाभिव्यंजका नद्यस्तासां नामानि मे शृणु ॥३५॥
शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ॥
निवृत्तिः सप्तमी तासां पुण्यतोया सुशीतलाः ॥३६॥
सप्तैव तानि वर्षाणि चतुर्वर्णायुतानि च ॥
भगवन्तं सदा शंभुं यजंते विविधैर्मखैः ॥३७॥
देवानां तत्र सान्निध्यमतीव सुमनोरमे ॥
एष द्वीपस्समुद्रेण सुरोदेन समावृतः ॥३८॥
द्विगुणेन कुशद्वीपः समंताद्बाह्यतः स्थितः ॥
वसंति तत्र दैतेया मनुजैस्सह दानवाः ॥३९॥
तथैव देवगन्धर्वा यक्षाः किंपुरुषादयः ॥
वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ॥४०॥
तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्द्दनम् ॥
यजंति च तथेशानं सर्वकामफलप्रदम् ॥४१॥
कुशेशयो हरिश्चैव द्युतिमान्पुष्पवांस्तथा ॥
मणिद्रुमो हेमशैलस्सप्तमो मन्दराचलः ॥४२॥
नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ॥
धूतपापा शिवा चैव पवित्रा संमितिस्तथा ॥४३॥
विद्या दंभा मही चान्या सर्वपापहरास्त्विमाः ॥
अन्यास्सहस्रशस्संति शुभापो हेमवालुकाः ॥४४॥
कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ॥
क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ॥४५॥
द्विगुणेन समुद्रेण दधिमंडेन चावृतः ॥
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥४६॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चांधकारकः ॥
दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ॥४७॥
निवसंति निरातंका वर्षशैलेषु तेषु वै ॥
सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ॥४८॥
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्राश्चानुक्रमोदिताः ॥
संति तत्र महानद्यस्सप्तान्यास्तु सहस्रशः ॥४९॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥
शांतिश्च पुंडरीका च याः पिबन्ति पयश्शुभम् ॥५०॥
भगवान्पूज्यते तत्र योगरुद्रस्वरूपवान् ॥
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ॥५१॥
द्विगुणेनाद्रयस्सप्त तेषां नामानि मे शृणु ॥
पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ॥५२॥
पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ॥
शाकस्तत्र महावृक्षस्सिद्धगंधर्वसेवितः ॥५३॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ॥
नद्यश्चात्र महापुण्यास्सर्वपापभयापहाः ॥५४॥
सुकुमारी कुमारी च नलिनी वेणुका तथा ॥
इक्षुश्च रेणुका चैव गभस्तिस्सप्तमी तथा ॥५५॥
अन्यास्सहस्रशस्तत्र क्षुद्रनद्यो महामुने ॥
महीधरास्तथा संति शतशोऽथ सहस्रशः ॥५६॥
धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ॥
वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ॥५७॥
शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैस्सदा ॥
यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥५८॥
क्षीरोदेनावृतस्सोऽपि द्विगुणेन समंततः ॥
क्षीराब्धिस्सर्वतो व्यास पुष्कराख्येन संवृतः ॥५९॥
द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः ॥
योजनानां सहस्राणि पंचैवोर्ध्वसमुच्छ्रितः ॥६०॥
तानि चैव तु लक्षाणि सर्वतो वलयाकृति ॥
पुष्करद्वीपवलयो मध्येन विभजंति च ॥६१
तेनैव वलया कारा द्वीपवर्षसमाकृतिः ॥
दशवर्षसहस्राणि तत्र जीवंति मानवाः ॥६२॥
निरामया वीतशोका रागद्वेषविवर्जिताः ॥
अधर्मो न मतस्तेषां न बंधवधकौ मुने ॥६३॥
सत्यानृते न तस्यास्तां सदैव वसतिस्सदा ॥
तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ॥६४॥
वर्षश्चायं तु कालेय भौम स्वर्गोपमो मतः ॥
सर्वस्य सुखदः काले जरारोगविवर्जितः ॥६५॥
पुष्करे धातकीखण्डे महावीते महामुने ॥
न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥६६॥
तस्मिन्निवसते ब्रह्मा पूज्यमानस्सुरासुरैः ॥
स्वादूदकेनांबुधिना पुष्करः परिवेष्टितः ॥६७॥
एवं द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ॥
द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ॥६८॥
उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ॥
पयांसि सर्वदाऽल्पत्वं जायते न कदाचन६९॥
स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तमः ॥
तथेन्दुवृद्धौ सलिलमूर्द्ध्वगं भवति ध्रुवम् ॥७०॥
उदयास्तमनेत्विंदोर्वर्द्धंत्यापो ह्रसन्ति च ॥
अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ॥७१॥
अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम् ॥
समुद्राणां मुनिश्रेष्ठो सर्वेषां कथितं तव ॥७२॥
भोजनं पुष्करद्वीपे प्रजास्सर्वाः सदैव हि ॥
खंडस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ॥७३॥
स्वांगदो यस्य पुरतो नास्ति लोकस्य संस्थितिः ॥
द्विगुणा हिरण्मयी भूमिस्सर्वजंतुविवर्जिता ॥७४॥
लोकालोकस्ततश्शैलस्सहस्राण्यचलो हि सः ॥
उच्छ्रयेण हि तावंति योजनायुतविस्तृतः ॥७५॥
तमश्चांडकटाहेन सेयमुर्वी महामुने ॥
पंचाशत्कोटिविस्तारा सद्वीपा समहीधरा ॥७६॥
आधारभूता सर्वेषां सर्वभूतगुणाधिका ॥
सेयं धात्री च कालेय सर्वेषां जगतामिला ॥७७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तदीपवर्णनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP