संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ३

उमासंहिता - अध्यायः ३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सनत्कुमार उवाच ॥
एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम् ॥
विस्मयं परमं गत्वोपमन्युं शांतमानसम् ॥१॥
वासुदेव उवाच ॥
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ॥
यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥२॥
दर्शनं मुनिशार्दूल दद्यात्स भगवाञ्छिवः ॥
अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ  ३॥
उपमन्युरुवाच ॥
अचिरेणैव कालेन महादेवं न संशयः ॥
तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥४॥
षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ॥
सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥५॥
पूज्योसि दैवतैस्सर्वैः श्लाघनीयस्सदा गुणैः ॥
जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥६॥
तेन जपप्रभावेण सत्यं द्रक्ष्यसि शंकरम् ॥
आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥७॥
जपो नमश्शिवायेति मंत्रराजमिमं हरे ॥
सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥८॥
 ॥सनत्कुमार उवाच ॥
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ॥
दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥९॥
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ॥
मंत्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥१०॥
जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ॥
पादांगुष्ठोद्धृततनुस्तेपे चोर्द्ध्वभुजस्तथा ॥११॥
संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः ॥
पार्वत्या सहितश्शंभुर्ददौ कृष्णाय दर्शनम् ॥१२॥
पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ॥
ब्रह्माद्यैस्स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥१३॥
दिव्यमाल्याम्बरधरं भक्तिनम्रैस्सुरासुरैः ॥
प्रणतं च विशेषेण नानाभूषणभूषितम् ॥१४॥
सर्वाश्चर्यमयं कांतं महेशमजमव्ययम् ॥
नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥१५॥
श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
ईदृशं शंकरं प्रीतः प्रणनाम महोत्सवः ॥१६॥
नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ॥
सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः ॥१७॥
ततो देवास्सगंधर्वा विद्याधरमहोरगाः ॥
मुमुचुः पुष्पवृष्टिं च साधुवादान्मनोनुगान् ॥१८॥
पार्वत्याश्च मुखं दृष्ट्वा भगवान्भक्तवत्सलः ॥
उवाच केशवं तुष्टो रुद्रश्चाथ बिडौजसा ॥१९॥
श्रीमहादेव उवाच ॥
कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ॥
वृणीष्व त्वं वरान्मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥२०॥
 ॥सनत्कुमार उवाच ॥
तस्य तद्वचनं श्रुत्वा कृष्णः प्रांजलिरादरात् ॥
प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥२१॥
 ॥कृष्ण उवाच ॥
देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् ॥
त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर ॥२२॥
तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् ॥
त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥२३॥
पुत्राणि च दशाद्यानां पुत्राणां मम संतु वै ॥
वध्याश्च रिपवस्सर्वे संग्रामे बलदर्पिताः ॥२४॥
अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ॥
योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥२५॥
इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ॥
सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥२६॥
सनत्कुमार उवाच ॥
तस्य तद्वचनं श्रुत्वा तमाह भगवान्भवः ॥
सर्वं भविष्यतीत्येवं पुनस्स प्राह शूलधृक् ॥२७॥
साम्बो नाम महावीर्यः पुत्रस्ते भविता बली ॥
घोरसंवर्तकादित्यश्शप्तो मुनिभिरेव च ॥२८॥
मानुषो भवितासीति स ते पुत्रो भवि ष्यति ॥
यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै ॥२९॥
सनत्कुमार उवाच ॥
एवं लब्ध्वा वरान्सर्वाञ्छ्रीकृष्णः परमेश्वरात् ॥
नानाविधाभिर्बह्वीभिस्स्तुतिभिस्समतोषयत् ॥३०॥
तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला ॥
वासुदेवं महात्मानं शंभुभक्तं तपस्विनम् ॥३१॥
 ॥पार्वत्युवाच ॥
वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ ॥
गृहाण मत्तश्च वरान्मनोज्ञान्भुवि दुर्लभान् ॥३२॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तस्याः पार्वत्यास्स यदूद्वहः ॥
उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ॥३३॥
श्रीकृष्ण उवाच ॥
देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे ॥
तपसाऽनेन सत्येन ब्राह्मणान्प्रति मास्मभूत् ॥३४॥
द्वेषः कदाचिद्भद्रं पूजयेयं द्विजान्सदा ॥
तुष्टौ च मातापितरौ भवेतां मम सर्वदा ॥३५॥
सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः ॥
कुले प्रभृति रुचिता ममास्तु तव दर्शनात् ॥३६॥
तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु ॥
यतीनामतिथीनां च सहस्राण्यथ सर्वदा ॥३७ ॥
भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् ॥
बांधवैस्सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ॥३८॥
देवि भार्य्यासहस्राणां भवेयं प्राणवल्लभः ॥
अक्षीणा काम्यता तासु प्रसादात्तव शांकरि ॥३९॥
आसां च पितरो लोके भवेयुः सत्यावादिनः ॥
इत्याद्याः सुवरास्संतु प्रसादात्तव पार्वति ॥४०॥
 ॥सनत्कुमार उवाच ॥
तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता ॥
एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ॥४१॥
तस्मिंस्तांश्च वरान्दत्त्वा पार्वतीपरमेश्वरौ ॥
तत्रैवांतश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥४२॥
कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः ॥
उपमन्योर्मुनराशु प्रापाश्रममनुत्तमम् ॥४३॥
प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः ॥
तया वृत्तं च तस्मै तत्समाचष्टोपमन्यवे ॥४४॥
स च तं प्राह कोऽन्यस्स्याच्छर्वाद्देवाज्जनार्द्दन ॥
महादानपतिर्लोके क्रोधे वाऽतीव दुस्सहः  ४५॥
ज्ञाने तपसि वा शौर्य्ये स्थैर्य्ये वा पद एव च ॥
शृणु शंभोस्तु गोविन्द देवैश्वर्य्यं महायशाः ॥४६॥
तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् ॥
पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ॥४७॥
उपमन्युरुवाच ॥
भगवाञ्शंकरः पूर्वं ब्रह्मलोके महात्मना ॥
स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना ॥४८॥
सांख्याः पठंति तद्गीतं विस्तीर्णं च निघंटवत् ॥
दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ॥४९॥
स्मरन्नित्यं शंकरं त्वं गच्छ कृष्ण गृहं सुखी ॥
भविष्यसि सदा तात शिवभक्तगणाग्रणीः ॥५०॥
इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् ॥
मनसा संस्मरञ्शंभुं केशवो द्वारकां ययौ ॥५१॥
सनत्कुमार उवाच ॥
एवं कृष्णस्समाराध्य शंकरं लोकशंकरम् ॥
कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ॥५२॥
तथा दाशरथी रामश्शिवमाराध्य भक्तितः ॥
कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ॥५३॥
तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने ॥
शिवाद्धनुश्शरं चापं ज्ञानं वै परमुत्तमम् ॥५४॥
रावणं सगणं हत्वा सेतुं बद्ध्वांभसांनिधौ ॥
सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम् ॥५५॥
तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् ॥
निरीक्ष्य दुःखितश्शर्वात्पितरं क्षत्रियैर्हतम् ॥५६॥
तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् ॥
त्रिस्सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ॥५७॥
अजेयश्चामरश्चैव सोऽद्यापि तपसांनिधिः ॥
लिंगार्चनरतो नित्यं दृश्यते सिद्धचारणैः ॥५८॥
महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति ॥
कल्पांते पुनरेवासावृषिस्थानमवाप्स्यति ॥५९॥
असितस्यानुजः पूर्वं पीडया कृतवांस्तपः ॥
मूलग्राहेण विश्वस्य देवलो नाम तापसः ॥६०॥
पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् ॥
अधर्म्यं धर्ममल मल्लिंगमारध्य कामदम् ॥६१॥
चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले ॥
वसिष्ठशापाद्गृत्समदो दण्डकारण्य एकलः ॥६२॥
हृदये संस्मन्भक्त्या प्रवणेन युतं शिवम् ॥
तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ॥६३॥
अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः ॥
शंकरेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ॥६४॥
गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् ॥
कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत् ॥६५॥
चतुष्पादं सरस्वत्याः पारंगत्वं च शाश्वतम् ॥
न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ॥६६॥
वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् ॥
पराशराय च ददौ जरामृत्युविवर्जितम् ॥६७॥
मांडव्यश्शंकरणैव जीवं दत्त्वा विसर्जितः ॥
वर्षाणां दश लक्षाणि शूलाग्रा दवरोपितः ॥६८॥
दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि ॥
पुत्रं तु गालवं यश्च पूर्वमासीद्गृहाश्रमी ॥६९॥
गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् ॥
भार्य्यामुवाच यः कश्चिदवश्यं निर्धनो यतः ॥७०॥
स तु वाच्यो भवत्या च न दृश्यंत इति प्रियः ॥
अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ॥७१॥
कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः ॥
तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ॥७२॥
प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते ॥
स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ॥७३॥
गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः ॥
विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा ॥७४॥
गृहमागत्य मातुस्स श्रुत्वा शापं सुदारुणम् ॥
आराध्य शंकरं देवं पूजां कृत्वा तु शांभवीम् ॥७५॥
गृहादसौ विनिष्क्रांतस्संस्मरञ्शंकरं हृदा ॥
अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ॥७६॥
महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः ॥
धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ॥७७॥
इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् ॥
वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः ॥७८॥
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP