संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः २८

उमासंहिता - अध्यायः २८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


देव्युवाच ॥
देवदेव महादेव कथितं कालवंचनम् ॥
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम् ॥१॥
कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम् ॥
विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥२॥
 ॥शंकर उवाच ॥
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ॥
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥३॥
सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ॥
शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः ॥४॥
संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम् ॥
नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत् ॥५॥
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ॥
स पश्यत्येकभावस्तु शिवं परमकारणम् ॥६॥
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ॥
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥७॥
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः ॥
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा ॥८॥
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् ॥
रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत् ॥९॥
विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ॥
विकटौ नश्यते भार्य्या विजंघे धनमेव हि ॥१०॥
पादाभावे विदेशस्स्यादित्येतत्कथितं मया ॥
तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥११॥
सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ॥
जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि ॥१२॥
वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ॥
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥१३॥
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ॥
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥१४॥
अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ॥
सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ॥१५॥
ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ॥
जननी सर्वविद्यानां गुप्तविद्येति गीयते ॥१६॥
खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ॥
दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ॥१७॥
अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ॥
तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ॥१८॥
सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम् ॥
सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा ॥१९॥
प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ॥
सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ॥२०॥
सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान् ॥
किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते ॥२१॥
तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः ॥
अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते ॥२२॥
संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते ॥
अभ्यासस्सततं कार्यो धीमता मोक्षकारणम् ॥२३॥
इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम् ॥
किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते ॥२४॥
सूत उवाच ॥
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम् ॥
प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः ॥२५॥
सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम् ॥
व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष२६
ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः ॥
सनत्कुमारं मुनयः सुरविज्ञानसागरम् ॥२७॥
व्यास उवाच ॥
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ॥
नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः ॥२८॥
सूत उवाच ॥
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ॥
तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः ॥२९॥
ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ॥
ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ॥३०॥
इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ॥
सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः ॥३१॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP