संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|उमा संहिता| अध्यायः १० उमा संहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ उमासंहिता - अध्यायः १० शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १० Translation - भाषांतर सनत्कुमार उवाच ॥मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्ये च गच्छति ॥जिह्वार्द्धकोशविस्तीर्णहलैस्तीक्ष्णः प्रपीड्यते ॥१॥निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ॥विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य्य हन्यते ॥२॥ये शिवायतनारामवापीकूपतडागकान् ॥विद्रवंति द्विजस्थानं नरास्तत्र रमंति च ॥३॥कामायोद्वर्तनाभ्यंग स्नानपानाम्बुभोजनम् ॥क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धता ॥४॥पेचिरे विविधैर्घेरैरिक्षुयंत्रादिपीडनैः ॥निरयाग्निषु पच्यंते यावदाभूतसंप्लवम् ॥५॥तेन तेनैव रूपेण ताड्यते पारदारिकाः ॥गाढमालिंग्य ते नारीं सुतप्तां लोहनिर्मिताम् ॥६॥पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समंततः ॥दुश्चारिणीं स्त्रियं गाढमालिंगंति रुदंति च ॥७॥ये शृण्वंति सतां निंदां तेषां कर्णप्रपूरणम् ॥अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ॥६॥त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः ॥सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ॥९॥क्रमादापूर्य्यकर्णांस्तु नरकेषु च यातनाः ॥अनुक्रमेण सर्वेषु भवंत्येताः समंततः ॥१०॥सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ॥भवंति घोराः प्रत्येकं शरीरेण कृतेन च ॥११॥स्पर्शदोषेण ये मूढास्स्पृशंति च परस्त्रियम् ॥तेषां करोऽग्निवर्णाभिः पांशुभिः पूर्य्यते भृशम् ॥१२॥तेषां क्षारादिभिस्सर्वैश्शरीरमनुलिप्यते ॥यातनाश्च महाकष्टास्सर्वेषु नरकेषु च ॥१३॥कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नरा ॥वक्त्राणि तेषां सांतानि कीर्य्यंते शंकुभिर्दृढम् ॥१४॥यैरिन्द्रियैर्नरा ये च कुर्वन्ति परस्त्रियम् ॥इन्द्रियाणि च तेषां वै विकुर्वंति तथैव च ॥१५॥परदारांश्च पश्यन्ति लुब्धास्स्तब्धेन चक्षुषा ॥सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ॥१६॥क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ॥भवंति मुनिशार्दूल सत्यंसत्यं न संशयः ॥१७॥देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुंजते ॥लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्य्यते ॥१८॥ये देवारामपुष्पाणि लोभात्संगृह्य पाणिना ॥जिघ्रंति च नरा भूयः शिरसा धारयंति च ॥१९॥आपूर्य्यते शिरस्तेषां तप्तैर्लोहस्य शंकुभिः ॥नासिका वातिबहुलैस्ततः क्षारादिभिर्भृशम् ॥२०॥ये निंदन्ति महात्मानं वाचकं धर्म्मदेशिकम् ॥देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ॥२१॥तेषामुरसि कण्ठे च जिह्वायां दंतसन्धिषु ॥तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ॥२२॥अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशंकवः ॥आखिद्यंते च बहुशः स्थानेष्वेतेषु मुद्गरैः ॥२३॥ततः क्षारेण दीप्तेन पूर्यते हि समं ततः ॥यातनाश्च महत्यो वै शरीरस्याति सर्वतः ॥२४॥अशेषनरकेष्वेव क्रमंति क्रमशः पुनः ॥ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशंति च ॥२५॥शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ॥हस्तपादादिभिस्तेषामापूर्य्यंते समंततः ॥२६॥नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः ॥२७॥शिवायतनपर्य्यंते देवारामेषु कुत्रचित् ॥समुत्सृजंति ये पापाः पुरीषं मूत्रमेव च ॥२८॥तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः ॥सूचीभिरग्निवर्णाभिस्कथा त्वापूर्य्यते पुनः ॥२९॥ततः क्षारेण महता तीव्रेण च पुनः पुनः ॥द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः ॥३०॥मनस्सर्वेन्द्रियाणां च यस्मा द्दुःखं प्रजायते ॥धने सत्यपि ये दानं न प्रयच्छंति तृष्णया ॥३१॥अतिथिं चावमन्यते काले प्राप्ते गृहाश्रमे ॥तस्मात्ते दुष्कृतं प्राप्य गच्छंति निरयेऽशुचौ ॥३२॥येऽन्नं दत्त्वा हि भुंजंति न श्वभ्यस्सह वायसैः ॥तेषां च विवृतं वक्त्रं कीलकद्वयताडितम् ॥३३॥कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥उपद्रवैर्बहुविधैरुग्रैरंतः प्रपीड्यते ॥३४॥श्यामश्च शबलश्चैव यममार्गानुरोधकौ ॥यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम् ॥३५॥ये वा वरुणवायव्या याम्या नैर्ऋत्यवायसाः ॥वायसा पुण्यकर्माणस्ते प्रगृह्णंतु मे बलिम् ॥३६॥शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् ॥शैवैर्मन्त्रैर्बलिं ये च ददंते न च ते यमम् ॥३७॥पश्यंति त्रिदिवं यांति तस्माद्दद्याद्दिनेदिने ॥मण्डलं चतुरस्रं तु कृत्वा गंधादिवासितम् ॥३८॥धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् ॥याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे ॥३९॥पितृभ्यस्तु विनिक्षिप्य प्राच्यामर्यमणे ततः ॥धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत् ॥४०॥श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्धुवि ॥देवैः पितृमनुष्यैश्च प्रेतैर्भूतैस्सगुह्यकै ॥४१॥वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते ॥स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः ॥४२॥हंतकारस्तथैवान्यो धेन्वा स्तनचतुष्टयम् ॥स्वाहाकारं स्तनं देवास्स्वधां च पितरस्तथा ॥४३॥वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा ॥हंतकारं मनुष्याश्च पिबंति सततं स्त नम् ॥४४॥यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् ॥करोति सततं काले साग्नित्वायोपकल्प्यते ॥४५॥यस्तां जहाति वा स्वस्थस्तामिस्रे स तु मज्जति ॥तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिंतयेत्क्षणम् ॥४६॥क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् ॥भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात् ॥४७॥अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥स तस्मै दुष्कृतं दत्त्वा पुण्यमा दाय गच्छति ॥४८॥ततोऽन्नं प्रियमेवाश्नन्नरः शृंखलवान्पुनः ॥जिह्वावेगेन विद्धोत्र चिरं कालं स तिष्ठति ॥४९॥यतस्तं मांसमुद्धत्य तिलमात्रप्रमाणतः ॥खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम् ॥५०॥निश्शेषतः कशाभिस्तु पीड्यते क्रमशः पुनः ॥बुभुक्षयातिकष्टं हि तथायाति पिपासया ॥५१॥एवमाद्या महाघोरा यातनाः पापकर्मणाम् ॥अंते यत्प्रतिपन्नं हि तत्संक्षेपेण संशृणु ॥५२॥यः करोति महापापं धर्म्मं चरति वै लघु ॥धर्म्मं गुरुतरं वापि तथावस्थे तयोः शृणु ॥५३॥सुकृतस्य फलं नोक्तं गुरुपा पप्रभावतः ॥न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः ॥५४॥तथोद्विग्नोतिसंतप्तो न भक्ष्यैर्मन्यते सुखम् ॥अभावादग्रतोऽन्यस्य प्रतिकल्पं दिनेदिने ॥५५॥पुमान्यो गुरुधर्म्माऽपि सोपवासो यथा गृही ॥वित्तवान्न विजानाति पीडां नियमसंस्थितः ॥५६॥तानि पापानि घोराणि संति यैश्च नरो भुवि ॥शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥५७॥इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : October 12, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP