उमासंहिता - अध्यायः २४
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
व्यास उवाच ॥
कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया ॥
तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने ॥१॥
सनत्कुमार उवाच ॥
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ॥
यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ॥२॥
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने ॥
तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ॥३॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥
नारदस्य च संवादं पुंश्चल्या पंचचूडया ॥४॥
लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा ॥
ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम् ॥५॥
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः ॥
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥६॥
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा ॥
विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ॥७॥
नारद उवाच ॥
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ॥
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ॥८॥
सनत्कुमार उवाच ॥
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ॥
प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ॥९॥
पंचचूडोवाच ॥
मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया ॥
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ॥१०॥
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ॥
इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा ॥११॥
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ॥
प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ॥१२॥
नारद उवाच ॥
मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते ॥
इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ॥१३॥
सनत्कुमार उवाच ॥
इत्युक्ता सा कृतमती रभसा चारुहासिनी ॥
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ॥१४॥
पञ्चचूडोवाच ॥
कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः ॥
मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद ॥१५॥
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि ॥
स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ॥१६॥
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ॥
यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम् ॥१७॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ॥
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥१८॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ॥
ईषच्च कुरुते सेवां तमेवेच्छति योषितः ॥१९॥
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ॥
मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु ॥२०॥
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ॥
सुरूपं वा कुरूपं वा पुमांसमुपभुंजते ॥२१॥
न भयादथ वाक्रोशान्नार्थहेतोः कथंचन ॥
न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु ॥२२॥
यौवने वर्तमानानामिष्टाभरणवाससाम् ॥
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥२३॥
या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ॥
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ॥२४॥
पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ॥
स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ॥२५॥
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ॥
अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥२६॥
अलाभात्पुरुषाणां च भयात्परिजनस्य च ॥
वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ॥२७॥
चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा ॥
प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ॥२८॥
नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ॥
नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥२९॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ॥
दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ॥३०॥
सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ॥
योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम् ॥३१॥
कायानामपि दातारं कर्त्तारं मानसांत्वयोः ॥
रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः ॥३२॥
न कामभोगात्परमान्नालंकारार्थसंचयात् ॥
तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ॥३३॥
अन्तकश्शमनो मृत्युः पातालं वडवामुखम् ॥
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥३४॥
यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा ॥
यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद ॥३५॥
सनत्कुमार उवाच ॥
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः ॥
तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च ॥३६॥
इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् ॥
वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ॥३७॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP