संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ५८ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ५८ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ५८ Translation - भाषांतर सनत्कुमार उवाच ॥शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ॥यथा दुंदुभिनिर्ह्रादमवधीद्दितिजं हरः ॥१॥हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ॥विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः? ॥२॥दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥सांत्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥३॥अथ दैत्यस्स मायावी दितिमाश्वास्य दैत्यराट् ॥देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत् ॥४॥देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ॥विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः ॥५॥किंबलाश्च किमाहारा किमाधारा हि निर्जराः ॥मया कथं सुजेयास्स्युरित्युपायमचिंतयत् ॥६॥विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ॥अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥७॥ब्राह्मणान्हंतुमसकृदन्वधावत वै ततः ॥दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥८॥यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ॥ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः ॥९॥निश्चितं ब्राह्मणाधारास्सर्वे वेदास्सवासवाः ॥गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥१०॥ब्राह्मणा यदि नष्टास्स्युर्वेदा नष्टास्ततस्त्वयम् ॥अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः ॥११॥यज्ञेषु नाशं गच्छत्सु हताहारास्ततस्सुराः ॥निर्बलास्सुखजय्याः स्युर्निर्जितेषु सुरेष्वथ१२॥अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥अहरिष्यामि देवा नामक्षयास्सर्वसंपदः ॥१३॥निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ॥इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्खलः ॥१४॥द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिता ॥श्रुत्यध्यनसंपन्नास्तपोबलसमन्विताः ॥१५॥भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ॥तामादावुपसंहृत्य यायां तीर्थांतरं ततः ॥१६॥यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ॥संति सर्वेऽग्रजन्मानस्ते मयाद्यास्समंततः ॥१७॥इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ॥१८॥समित्कुशान्समादातुं यत्र यांति द्विजोत्तमाः ॥अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥१९॥यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ॥वने वनेचरो भूत्वा यादोरूपो जलाशये ॥२०॥अदृश्यरूपी मायावी देवानामप्यगोचरः ॥दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥२१॥प्रवेशमुटजानां च निर्गमं हि विलोकयन् ॥यामिन्यां व्याघ्ररूपेणाभक्षयद्ब्राह्मणान्बहून् ॥२२॥निश्शंकम्भक्षयत्येवं न त्यजत्यपि कीकशम् ॥इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥२३॥एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥२४॥स च दुंदुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ॥व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥२५॥तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ॥कृतास्त्रमन्त्रविन्यासं तं क्रांतुमशकन्न सः ॥२६॥अथ सर्वं गतश्शम्भुर्ज्ञात्वा तस्याशयं हरः ॥दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥२७॥यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥२८॥रुद्रमायांतमालोक्य तद्भक्तार्चितलिंगतः ॥दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥२९॥सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ॥तावदायातमादाय कक्षायंत्रे न्यपीडयत् ॥३०॥पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्द्धन्यताडयत ॥भक्तवत्सलनामासौ वज्रादपि कठोरया ॥३१॥स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ॥अत्यार्तमारटद्व्याघ्रो रोदसीं पूरयन्मृतः ॥३२॥तेन नादेन महता संप्रवेपितमानसाः ॥तपोधनास्समाजग्मुर्निशि शब्दानुसारतः ॥३३॥अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ॥तुष्टुवुः प्रणतास्सर्वे शर्वं जयजयाक्षरैः ॥३४॥ब्राह्मणा ऊचुः ॥परित्राताः परित्राताः प्रत्यूहाद्दारुणादितः ॥अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्गुरो ॥३५॥अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ॥कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥३६॥अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ॥दुष्टानष्टास्य? गौरीश भक्तेभ्यो देहि चाभयम् ॥३७॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ॥तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥३८ महेश्वर उवाच ॥यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥तस्योपसर्गसंधानं पातयिष्याम्यसंशयम् ॥३९॥मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ॥संग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥४०॥एतस्मिन्नंतरे देवास्समाजग्मुस्सवासवाः जयेति शब्दं कुर्वंतो महोत्सवपुरस्सरम् ॥४१॥प्रणम्य शंकरं प्रेम्णा सर्वे सांजलयस्सुराः ॥नतस्कंधाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥४२॥देवा ऊचुः ॥जय शंकर देवेश प्रणतार्तिहर प्रभो ॥एतद्दुंदुभिनिर्ह्रादवधात्त्राता वयं सुराः ॥४३॥सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ॥वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥४४॥इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ॥तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिंगे लयं ययौ ॥४५॥सविस्मयास्ततो देवास्स्वंस्वं धाम ययुर्मुदा ॥तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥४६॥इदं चरित्रं परम व्याघ्रेश्वरसमुद्भवम् ॥शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥४७॥सर्वान्कामानवाप्नोति नरस्स्वमनसेसितान् ॥परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥४८॥इदमाख्यानमतुलं शिवलीला मृताक्षरम् ॥स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥४९॥परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् ॥परमज्ञानदं रम्यं विकारहरणं परम् ॥५०॥इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्च० युद्धखण्डे दुंदुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP