संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ५७ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ५७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ५७ Translation - भाषांतर सनत्कुमार उवाच ॥शृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः ॥यथाऽवधीत्त्रिशूलेन दानवेन्द्रं गजासुरम् ॥१॥दानवे निहते देव्या समरे महिषासुरे ॥देवानां च हितार्थाय पुरा देवाः सुखं ययुः ॥२॥तस्य पुत्रो महावीरो मुनीश्वर गजासुरः ॥पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात् ॥३॥स तद्वैरमनुस्मृत्य तपोर्थं गतवान्वने ॥समुद्दिश्य विधिं प्रीत्या तताप परमं तपः ॥४॥अवध्योहं भविष्यामि स्त्रीपुंसैः कामनिर्जितः ॥संविचार्येति मनसाऽभूत्तपोरतमानसः ॥५॥स तेपे हिमवद्द्रोण्यां तपः परमदारु णम् ॥ऊर्द्ध्वबाहुर्नभोदृष्टिः पादांगुष्ठाश्रितावनिः ॥६॥जटाभारैस्स वै रेजे प्रलयार्क इवांशुभिः ॥महिषासुरपुत्रोऽसौ गजासुर उदारधीः ॥७॥तस्य मूर्ध्नः समुद्भूतस्सधूमोग्निस्तपोमयः ॥तिर्यगूर्ध्वमधोलोकास्तापयन्विष्वगीरितः ॥८॥चुक्षुभुर्नद्युदन्वंतश्चाग्नेर्मूर्द्धसमुद्भवात् ॥निपेतुस्सग्रहास्तारा जज्वलुश्च दिशो दश ॥९॥तेन तप्तास्तुरास्सर्वे दिवं त्यक्त्वा सवासवाः ॥ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः ॥१०॥देवा ऊचुः ॥विधे गजासुरतपस्तप्ता वयमथाकुलाः ॥न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः ॥११॥विधेह्युपशमं तस्य चान्याञ्जीवयितुं कृपा ॥लोका नंक्ष्यत्यन्यथा हि सत्यंसत्यं ब्रुवामहे ॥१२॥इति विज्ञापितो देवैर्वासवाद्यैस्स आत्मभूः ॥भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम् ॥१३॥तपंतं तपसा लोका न्यथाऽभ्रापिहितं दिवि ॥विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः ॥१४॥ब्रह्मोवाच ॥उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपस्सिद्धोसि माहिषे ॥प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम् ॥१५॥सनत्कुमार उवाच ॥उत्थायोत्थाय दैत्येन्द्र ईक्षमाणो दृशा विभुम् ॥गिरा गद्गदया प्रीतोऽगृणाद्देवं स माहिषिः ॥३५गजासुर उवाच ॥नमस्ते देवदेवेश यदि दास्यसि मे वरम् ॥अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः ॥१७॥महाबलो महावीर्योऽजेयो देवादिभिस्सदा ॥सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो ॥१८॥सनत्कुमार उवाच ॥एवं वृतश्शतधृतिर्दानवेन स तेन वै ॥प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम् ॥१९॥एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः ॥सुप्रसन्नमनास्सोऽथ स्वधाम प्रत्यपद्यत ॥२०॥स विजित्य दिशस्सर्वा लोकांश्च त्रीन्महासुरः ॥देवासुरमनुष्येन्द्रान्गंधर्वगरुडोरगान् ॥२१॥इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् ॥जहार लोकपालानां स्थानानि सह तेजसा ॥२२॥देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ॥महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥२३॥तस्मिन्महेन्द्रस्य गृहे महाबलो महामना निर्जितलोक एकराट् ॥रेमेऽभिवंद्यांघ्रियुगः सुरादिभिः प्रतापितैरूर्जितचंडशासनः ॥२४॥स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् ॥यथोपजोषं भुंजानो नातृप्यदजितेन्द्रियः ॥२५॥एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ॥काले व्यतीते महति पापबुद्धिरभूत्ततः ॥२६॥महिषासुरपुत्रोऽसौ संचिक्लेश द्विजान्वरान् ॥तापसान्नितरां पृथ्व्यां दानवस्सुखमर्दनः ॥२७॥सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेश दुर्मतिः ॥धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन् ॥२८॥एकस्मिन्समये तात दानवोऽसौ महाबलः ॥अगच्छद्राजधानीं व शंकरस्य गजासुरः ॥२९॥समागतेऽसुरेन्द्रे हि महान्कलकलो मुने ॥त्रातत्रातेति तत्रासीदानंदनवासिनाम् ॥३०॥महिषाऽसुरपुत्रोऽसौ यदा पुर्यां समागतः ॥प्रमथन्प्रमथान्सर्वान्निजवीर्यमदोद्धतः ॥३१॥तस्मिन्नवसरे देवाश्शक्राद्यास्तत्पराजिताः ॥शिवस्य शरणं जग्मुर्नत्वा तुष्टुवुरादरात् ॥३२॥न्यवेदयन्दानवस्य तस्य काश्यां समागमम् ॥क्लेशाधिक्यं तत्रत्यानां तन्नाथानां विशेषतः ॥३३॥देवा ऊचुः ॥देवदेव महादेव तव पुर्यां गतोसुरः ॥कष्टं दत्ते त्वज्जनानां तं जहि त्वं कृपानिधे ॥३४॥यत्रयत्र धरायां च चरणं प्रमिणोति हि ॥अचलां सचलां तत्र करोति निज भारतः ॥३५॥ऊरुवेगेन तरवः पतंति शिखरैस्सह ॥यस्य दोर्दंडघातेन चूर्णा स्युश्च शिलोच्चयाः ॥३६॥यस्य मौलिजसंघर्षाद्घना व्योम त्यजंत्यपि ॥नीलिमानं न चाद्यापि जह्युस्तत्केशसंगजम् ॥३७॥यस्य विश्वाससंभारैरुत्तरंगा महाब्धयः ॥नद्योप्यमन्दकल्लोला भवंति तिमिभिस्सह ॥३८॥योजनानां सहस्राणि नव यस्य समुच्छ्रयः ॥तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि ॥३९॥यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ॥विद्युताः नोह्यतेऽद्यापि सोऽयं स्माऽऽयाति सत्वरम् ॥४०॥यां यां दिशं समभ्येति सोयं दुस्सह दानवः ॥अवध्योऽहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥४१॥इत्येवं चेष्टितं तस्य दानवस्य निवेदितम् ॥रक्षस्व भक्तान्देवेश काशीरक्षणतत्पर ॥४२॥सनत्कुमार उवाच ॥इति संप्रार्थितो देवैर्भक्तरक्षणतत्परः ॥तत्राऽऽजगाम सोरं तद्वधकामनया हरः ॥४३॥आगतं तं समालोक्य शंकरं भक्तवत्सलम् ॥त्रिशूलहस्तं गर्जंतं जगर्ज स गजासुरः ॥४४॥ततस्तयोर्महानासीत्समरो दारुणोऽद्भुतः ॥नानास्त्रशस्त्रसंपातैर्वीरारावं प्रकुर्वतोः ॥४५॥गजासुरोतितेजस्वी महाबलपराक्रमः ॥विव्याध गिरिशं बाणैस्तीक्ष्णैर्दानवघातिनम् ॥४६॥अथ रुद्रो रौद्रतनुः स्वशरैरतिदारुणैः ॥तच्छरांश्चिच्छिदे तूर्णमप्राप्तांस्तिलशो मुने ॥४७॥ततो गजासुरः कुद्धोऽभ्यधावत्तं महेश्वरम् ॥खड्गहस्तः प्रगर्ज्योच्चैर्हतोसीत्यद्य वै मया ॥४८॥ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ॥विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥४९॥प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥छत्रीकृतमिवात्मानं मन्यमाना जगौ हरम् ॥५०॥गजासुर उवाच ॥देवदेव महादेव तव भक्तोऽस्मि सर्वथा ॥जाने त्वां त्रिदिवेशानं त्रिशूलिन्स्मरहारिणम् ॥५१॥तव हस्ते मम वधो महाश्रेयस्करो मतः ॥अंधकारे महेशान त्रिपुरांतक सर्वग ॥५२॥किंचिद्विज्ञप्तुमिच्छामि तच्छृणुष्व कृपाकर ॥सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय५३॥त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ॥कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥५४॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तस्य शंकरः करुणानिधिः ॥प्रहस्य प्रत्युवाचेशो माहिषेयं गजासुरम् ॥५५॥ईश्वर उवाच ॥महापराक्रमनिधे दानवोत्तम सन्मते ॥गजासुर प्रसन्नोस्मि स्वानकूलं वरं वृणु ॥५६॥सनत्कुमार उवाच ॥इत्याकर्ण्य महेशस्य वचनं वरदस्य हि ॥प्रत्युवाच प्रसन्नात्मा दानवेन्द्रो गजासुरः ॥५७॥गजासुर उवाच ॥यदि प्रसन्नो दिग्वासस्तदा दित्यं वसान मे ॥इमां कृत्तिं महेशान त्वत्त्रिशूलाग्निपाविताम् ॥५८॥स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ॥दर्शनीयां महादिव्यां सर्वदैव सुखावहाम् ॥५९॥इष्टगंधिस्सदैवास्तु सदैवास्त्वतिकोमला ॥सदैव निर्मला चास्तु सदैवास्त्वतिमंडनाम् ॥६०॥महातपोनलज्वालां प्राप्यापि सुचिरं विभो ॥न दग्धा कृत्तिरेषा मे पुण्यगंधनिधेस्ततः ॥६१॥यदि पुण्यवती नैषा मम कृत्ति दिगंबर ॥तदा त्वदंगसंगोस्याः कथं जातो रणांगणे ॥६२॥अन्यं च मे वरं देहि यदि तुष्टोऽसि शंकर ॥नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥६३॥सनत्कुमार उवाच ॥श्रुत्वेति स वचस्तस्य शंकरो भक्तवत्सलः ॥तथेत्युवाच सुप्रीतो महिषासुरजं च तम् ॥६४॥पुनः प्रोवाच प्रीतात्मा दानवं तं गजासुरम् ॥भक्तप्रियो महेशानो भक्तिनिर्मलमानसम् ॥६५॥ईश्वर उवाच ॥इदं पुण्यं शरीरं ते क्षेत्रेऽस्मिन्मुक्तिसाधने ॥मम लिंगं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥६६॥कृत्तिवासेश्वरं नाम महापातकनाशनम् ॥सर्वेषामेव लिंगानां शिरोभूतं विमुक्तिदम् ॥६७॥कथयित्वेति देवेशस्तत्कृतिं परिगृह्य च ॥गजासुरस्य महतीं प्रावृणोद्धि दिगंबरः ॥६८॥महामहोत्सवो जातस्तस्मिन्नह्नि मुनीश्वर ॥हर्षमापुर्जनास्सर्वे काशीस्थाः प्रमथास्तथा ॥६९॥हरि ब्रह्मादयो देवा हर्षनिर्भरमानसाः ॥तुष्टुवुस्तं महेशानं नत्वा सांजलयस्ततः ॥७०॥हते तस्मिन्दानवेशे माहिषे हि गजासुरे ॥स्वस्थानं भेजिरे देवा जगत्स्वास्थ्यमवाप च ॥७१॥इत्युक्तं चरितं शंभोर्भक्तवात्सल्यसूचकम् ॥स्वर्ग्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धनम् ॥७२॥य इदं शृणुयात्प्रीत्या श्रावयेद्वा शुचिव्रतः ॥स भुक्त्वा च महासौख्यं लभेतांते परं सुखम् ॥७३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गजासुरवधो नाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP