संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः १२ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः १२ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १२ Translation - भाषांतर सनत्कुमार उवाच ॥एतस्मिन्नंतरे शंभुं प्रसन्नं वीक्ष्य दानवः ॥तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात् ॥१॥प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ॥कृतांजलिर्नतस्कंधः प्रणनाम पुन श्शिवम् ॥२॥अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः ॥तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः ॥३॥मय उवाच ॥देवदेव महादेव भक्तवत्सल शंकरः ॥कल्पवृक्षस्वरूपोसि सर्वपक्षविवर्जितः ॥४॥ज्योतीरूपो नमस्तेस्तु विश्वरूप नमोऽस्तु ते ॥नमः पूतात्मने तुभ्यं पावनाय नमोनमः ॥५॥चित्ररूपाय नित्याय रूपातीताय ते नमः ॥दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः ॥६॥नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ॥कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमोनमः ॥७॥भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपा लवे ॥तपस्सत्फलदात्रे ते शिवाकांत शिवेश्वर ॥८॥न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर ॥प्रसन्नो भव सर्वेश पाहि मां शरणाग तम् ॥९॥ ॥सनत्कुमार उवाच ॥इत्याकर्ण्य मयोक्ता हि संस्तुतिं परमेश्वरः ॥प्रसन्नोऽभूद्द्विजश्रेष्ठ मयं प्रोवाच चादरात् ॥१ ०॥ ॥शिव उवाच ॥वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ॥मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः ॥११॥ ॥सनत्कुमार उवाच ॥श्रुत्वा शिवं वचश्शंभोस्स मयो दानवर्षभः ॥प्रत्युवाच प्रभुं नत्वा नतस्कंधः कृतांजलिः ॥१२॥मय उवाच ॥देवदेव महादेव प्रसन्नो यदि मे भवान् ॥वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम् ॥१३॥स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा ॥उपेक्षामन्यजीवेषु खलेषु परमेश्वर ॥१४॥कदापि नासुरो भावो भवेन्मम महेश्वर ॥निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे ॥१५॥ ॥सनत्कुमार उवाच ॥इति संप्रार्थ्यमानस्तु शंकरः परमेश्वरः ॥प्रत्युवाच मये नाथ प्रसन्नो भक्तवत्सलः ॥१६॥महेश्वर उवाच ॥दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् ॥प्रदत्तास्ते वरास्सर्वेऽभीप्सिता ये तवाधुना ॥१७॥गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ॥समेतः परिवारेण निजेन मम शासनात् ॥१८॥निर्भयस्तत्र संतिष्ठ संहृष्टो भक्तिमान्सदा ॥कदापि नासुरो भावो भविष्यति मदाज्ञया ॥१९॥सनत्कुमार उवाच ॥इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ॥तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः ॥२०॥एतस्मिन्नंतरे ते वै मुण्डिनश्च समागताः ॥प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान् ॥२१॥कुत्र याम वयं देवाः कर्म किं करवामहे ॥आज्ञापयत नश्शीघ्रं भव दादेशकारकान् ॥२२॥कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ॥दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता ॥२३॥कोटिकल्पानि नरके नो वासस्तु भविष्यति ॥नोद्धारो भविता नूनं शिवभक्तविरोधिनाम् ॥२४॥परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ॥तच्छांतिं कृपया ब्रूत वयं वश्शरणागताः ॥२५॥सनत्कुमार उवाच ॥तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयस्सुराः ॥अब्रु वन्मुंडिनस्तांस्ते स्थितानग्रे कृतांजलीन् ॥२६॥विष्ण्वादय ऊचुः ॥न भेतव्यं भवद्भिस्तु मुंडिनो वै कदाचन ॥शिवाज्ञयेदं सकलं जातं चरितमुत्तमम् ॥२७॥युष्माकं भविता नैव कुगतिर्दुःखदायिनी ॥शिववासा यतो यूयं देवर्षिहितकारकाः ॥२८॥सुरर्षिहितकृच्छंभुस्सुरर्षिहितकृत्प्रियः ॥सुरर्षिहितकृन्नॄणां कदापि कुगतिर्नहि ॥२९॥अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ ॥कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः ॥३०॥भवद्भिर्मुंडिनो धीरा गुप्तभावान्ममाज्ञया ॥तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत् ॥३१॥आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ॥कलौ तु मोहिता मूढास्संग्रहीष्यंति वो मतम् ॥३२॥इत्याज्ञप्ताः सुरेशैश्च मुंडिनस्ते मुनीश्वर ॥नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम् ॥३३॥ततस्स भगवान्रुद्रो दग्ध्वा त्रिपुरवासिनः ॥कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः ॥३४॥स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ॥कृत्वामरमहत्कार्यं ससुतोंतरधादथ ॥३५॥ततश्चांतर्हिते देवे परिवारान्विते शिवे ॥धनुश्शरस्थाद्यश्च प्राकारोंतर्द्धिमागमत् ॥३६॥ततो ब्रह्मा हरिर्देवा मुनिगंधर्वकिन्नराः ॥नागास्सर्पाश्चाप्सरसस्संहृष्टाश्चाथ मानुषाः ॥३७॥स्वंस्वं स्थानं मुदा जग्मुश्शंसंतः शांकरं यशः ॥स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः ॥३८॥एतत्ते कथितं सर्वं चरितं शशिमौलिनः ॥त्रिपुरक्षयसंसूचि परलीलान्वितं महत् ॥३९॥धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ॥स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि ॥४०॥इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ॥इह भुक्त्वाखिलान्कामानंते मुक्तिमवाप्नुयात् ॥४१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानंतरदेवस्तुतिमयस्तुतिमुंडिनिवेशनदेवस्वस्था -नगमनवर्णनं नाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP