संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ३९ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ३९ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३९ Translation - भाषांतर व्यास उवाच ॥श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ॥तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम ॥१॥सनत्कुमार उवाच ॥काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ॥महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम् ॥२॥व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः ॥ययौ स्वयं च समरे स्वगणैस्सह शंकरः ॥३॥महावृषभमारूढो वीरभद्रादिसंयुतः ॥भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः ॥४॥रणं प्राप्तो महेशश्च वीररूपं विधाय च ॥विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः ॥५॥शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ॥ननाम परया भक्त्या शिरसा दंडवद्भुवि ॥६॥तं प्रणम्य तु योगेन विमानमारुरोह सः ॥तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ॥७॥शिवदानवयोर्युद्धं शतमब्दं बभूव ह ॥बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा ॥८॥शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान् ॥चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः ॥९॥तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः ॥महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति ॥१०॥दानवो निशितं खड्गं चर्म चादाय वेगवान् ॥वृषं जघान शिरसि शिवस्य वरवाहनम् ॥११॥ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ॥खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम् ॥१२॥छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः ॥द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम् ॥१३॥कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ॥मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ॥१४॥गदामाविध्य तरसा संचिक्षेप हरं प्रति ॥शंभुना सापि सहसा भिन्ना भस्मत्वमागता ॥१५॥ततः परशुमादाय हस्तेन दानवेश्वरः ॥धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः ॥१६॥समाहृत्य स्वबाणौघैरपातयत शंकरः ॥द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ॥१७॥ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ॥धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ॥१८॥आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ॥चकार ज्यारवं चापि धनुषो दुस्सहं हर ॥१९॥पूरयामास ककुभः शृंगनादेन च प्रभुः ॥स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ॥२०॥त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ॥पूरयामास सहसा खं गां वसुदिशस्तथा ॥२१॥महाकालस्समुत्पत्या ताडयद्गां तथा नभः ॥कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः ॥२२॥अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ॥भैरवोऽपि महानादं स चकार महाहवे ॥२३॥महाकोलाहलो जातो रणमध्ये भयंकरः ॥वीरशब्दो बभूवाथ गणमध्ये समंततः ॥२४॥संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः ॥चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ॥२५॥तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ॥देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च ॥२६॥अथागत्य स दंभस्य तनयस्सुप्रतापवान् ॥शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ॥२७॥वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ॥निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया ॥२८॥पुनः प्रववृते युद्धं शिवदानवयोर्महत् ॥चकंपे धरणी द्यौश्च सनगाब्धिजलाशया ॥२९॥दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च ॥सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा ॥३०॥ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ॥तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ॥३१॥ततः क्षणेन संप्राप संज्ञां स च तदासुरः ॥आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ॥३२॥बाहूनागयुतं कृत्वा छादयामास शंकरम् ॥चक्रायुतेन सहसा शंखचूडः प्रतापवान् ॥३३॥ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ॥तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम् ॥३४॥ततो वेगेन सहसा गदामादाय दानवः ॥अभ्यधावत वै हंतुं बहुसेनावृतो हरम् ॥३५॥गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ॥शितधारेण संक्रुद्धो दुष्टगर्वापहारकः ॥३६॥छिन्नायां स्वगदायां च चुकोपातीव दानवः ॥शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत् ॥३७॥सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ॥स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ॥३८॥त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ॥तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान् ॥३९॥निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ॥चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि ॥४०॥ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ॥असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा ॥४१॥क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ॥केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ॥४२॥वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ॥नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान् ॥४३॥एवं बहुगणा वीरास्तदा संनह्य कोपतः ॥व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान् ॥४४॥इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ॥विद्रुताश्चापरे वीरा बहवो भयकातराः ॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP