संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः १८ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः १८ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १८ Translation - भाषांतर सनत्कुमार उवाच ॥एवं शासति धर्मेण महीं तस्मिन्महासुरे ॥बभूवुर्दुःखिनो देवा भ्रातृभावान्मुनीश्वर ॥१॥दुःखितास्ते सुरास्सर्वे शिवं शरणमाययुः ॥मनसा शंकरं देवदेवं सर्वप्रभुंप्रभुम् ॥२॥तुष्टुवुर्वाग्भिरिष्टाभिर्भगवंतं महेश्वरम् ॥निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम् ॥३॥आहूय स महादेवो भक्तानां सर्वकामदः ॥नारदं प्रेरयामास देवकार्यचिकीर्षया ॥४॥अथ देवमुनिर्ज्ञानी शंभुभक्तस्सतां गतिः ॥शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः ॥५॥व्याकुलास्ते सुरास्सर्वे वासवाद्या द्रुतं मुनिम् ॥आगच्छंतं समालोक्य समुत्तस्थुर्हि नारदम् ॥६॥ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ॥नारदाय सुराश्शक्रमुखा उत्कंठिताननाः ॥७॥सुखासीनं मुनिवरमासने सुप्रणम्य तम् ॥पुनः प्रोचुस्सुरा दीना वासवाद्या मुनीश्वरम् ॥८॥देवा ऊचुः ॥भोभो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ॥श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः ॥९॥जलंधरेण दैत्येन सुरा विद्राविता भृशम् ॥स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः ॥१०॥स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा ॥वह्निश्च धर्मराजश्च लोकपालास्तथेतरे ॥११॥सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ॥दुःखं प्राप्ता वयं चातिशरणं त्वां समागताः ॥१२॥संग्रामे स हृषीकेशं स्ववशं कृतवान् बली ॥जलंधरो महादैत्यः सर्वामरविमर्दकः ॥१३॥तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ॥सलक्ष्म्या सहितो विष्णुर्यो नस्सर्वार्थसाधकः ॥१४॥जलंधरविनाशाय यत्नं कुरु महामते ॥त्वं नो दैववशात्प्राप्तस्सदा सर्वार्थसाधकः ॥१५॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तेषाममराणां स नारदः ॥आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः ॥१६॥नारद उवाच ॥जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः ॥दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलुः ॥१७॥स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः ॥अनुकूलोऽहमिव वो दुःखं प्राप्ता यतो ऽमराः ॥१८॥सनत्कुमार उवाच ॥एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ॥आश्वास्य सकलान्देवाञ्जलंधरसभां ययौ ॥१९॥अथागतं मुनिश्रेष्ठं दृष्ट्वा देवो जलंधरः ॥उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम् ॥२०॥स तं संपूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ॥सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम् ॥२१॥जलंधर उवाच ॥कुत आगम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित् ॥यदर्थमिह आयातस्तदाज्ञापय मां मुने ॥२२॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ॥प्रत्युवाच प्रसन्नात्मा नारदो हि जलंधरम् ॥२३॥नारद उवाच ॥सर्वदानवदैत्येन्द्र जलंधर महामते ॥धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि ॥२४॥मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ॥यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत् ॥२५॥गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ॥योजनायुतविस्तीर्णं कल्पद्रुममहावनम् ॥२६॥कामधेनुशताकीर्णं चिंतामणिसुदीपितम् ॥सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम् ॥२७॥तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ॥सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम् ॥२८॥तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा ॥क्वापीदृशी भवेद्वृद्धिस्त्रैलोक्ये वा न वेति च ॥२९॥तावत्तवापि दैत्येन्द्र समृद्धिस्संस्मृता मया ॥तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः ॥३०॥सनत्कुमार उवाच ॥इति नारदतः श्रुत्वा स दैत्येन्द्रो जलंधरः ॥स्वसमृद्धिं समग्रां वै दर्शयामास सादरम् ॥३१॥दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः ॥प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलंधरम् ॥३२॥नारद् उवाच ॥तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ॥त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र संभवम् ॥३३॥मणयो रत्नपुंजाश्च गजाद्याश्च समृद्धयः ॥ते गृहेऽद्य विभांतीह यानि रत्नानि तान्यपि ॥३४॥गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ॥अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः ॥३५॥कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ॥हंसयुक्तविमानं च त्वयानीतं हि वेधसः ॥३६॥इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ॥यानि दैत्येन्द्र ते भांति गृहे तानि समस्ततः ॥३७॥त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ॥प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम् ॥३८॥जायारत्नं महाश्रेष्ठं जलंधर न ते गृहे ॥तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि ॥३९॥यस्य गेहे सुरत्नानि सर्वाणि हि जलंधर ॥जायारत्नं न चेत्तानि न शोभंते वृथा ध्रुवम् ॥४०॥सनत्कुमार उवाच ॥इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ॥उवाच दैत्यराजो हि मदनाकुलमानसः ॥४१॥जलंधर उवाच ॥भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ॥जायारत्नवरं कुत्र वर्तते तद्वदाधुना ॥४२॥ब्रह्मांडे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते ॥तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः ॥४३॥नारद उवाच ॥कैलासे ह्यतिरम्ये च वर्वद्धिं सुसमाकुले ॥योगिरूपधरश्शंभुरस्ति तत्र दिगम्बरः ॥४४॥तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता ॥सर्वांगसुन्दरी नाम्ना पार्वतीति मनोहरा ॥४५॥तदीदृशं रूपमनन्यसंगतं दृष्टं न कुत्रापि कुतूहलाढ्यम् ॥अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि ॥४६॥स्वचित्ते कल्पयाम्यद्य शिवादन्यस्समृद्धिवान् ॥जायारत्नान्विताद्वीर त्रिलोक्या न जलंधर ॥४७॥यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते ॥४८॥गतरागोऽपि हि यया मदनारिस्स्वलीलया ॥निजतंत्रोऽपि यतस्स स्वात्म वशगः कृतः ॥४९॥यथा स्त्रीरत्नसंभोक्तुस्समृद्धिस्तस्य साभवत् ॥तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥५०॥सनत्कुमार उवाच ॥इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः ॥ययौ विहायसा देवोपकारकरणोद्यतः ॥५१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवर्षिजलंधरसंवादो नामाष्टदशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP