संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः १७ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः १७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १७ Translation - भाषांतर सनत्कुमार उवाच ॥अथ दैत्या महावीर्याश्शूलैः परशुपट्टिशैः ॥निजघ्नुस्सर्वदेवांश्च भयव्याकुलमानसान् ॥१॥दैत्यायुधैः समाविद्धदेहा देवास्सवासवाः ॥रणाद्विदुद्रुवुस्सर्वे भयव्याकुलमानसाः ॥२॥पलायनपरान्दृष्ट्वा हृषीकेशस्सुरानथ ॥विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥३सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन्रुचा ॥सुशोभितकराब्जश्च रेजे भक्ताभयंकरः ॥८॥शंखखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः ॥कठोरास्त्रो महावीरस्सर्वयुद्धविशारदः ॥५॥धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह ॥तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥६॥शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै ॥चकर्त्त भगवान् विष्णुः कोटिशो रुट् समाकुलः ॥७॥अथारुणानुजजवपक्षवातप्रपीडिताः ॥वात्याधिवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥८॥ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥चुक्रोधाति महादैत्यो देववृन्दभयंकरः ॥९॥मर्द्दयंतं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः ॥योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥१०॥स चकार महानादं देवासुरभयंकरम् ॥दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥११॥भयंङ्करेण दैत्यस्य नादेन पूरितं तदा ॥जलंधरस्य महता चकम्पे सकलं जगत् ॥१२॥ततस्समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ॥आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥१३॥तयोश्च तेन युद्धेन परस्परमभून्मुने ॥देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥१४॥विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुश्शरान् ॥चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥१५॥ततो दैत्यस्समुत्पत्य गदापाणिस्त्वरान्वितः ॥आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥१६॥विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा ॥हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥१७॥विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ॥तं विव्याध शरैस्तीक्ष्णैश्शार्ङ्गं विस्फूर्य दैत्यहा ॥१८॥विष्णुर्जलंधरं दैत्यं भयदेन शरेण ह ॥क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥१९॥आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः ॥छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥२०॥केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् ॥शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥२१॥पुनर्बाण समाधत्त धनुषि क्रोधवेपितः ॥महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥२२॥वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः ॥क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥२३॥जलंधरोऽथ दैत्येन्द्रः कोपच्छिन्नाधरो बली ॥शरेण श्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम् ॥२४॥पुनर्बाणैस्सुतीक्ष्णैश्च जघान मधुसूदनम् ॥उग्रवीर्यो महावीरो देवानां भयकारकः ॥२५॥स च्छिन्नधन्वा भगवान्केशवो लोकरक्ष कः ॥जलंधरस्य नाशाय चिक्षेप स्वगदां पराम् ॥२६॥सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा ॥अमोघगतिका शीघ्रं तस्य देहे ललाग ह ॥२७॥तया हतो महादैत्यो न चचालापि किंचन ॥जलंधरो मदोन्मत्तः पुष्पमालाहतो यथा ॥२८॥ततो जलंधरः क्रोधी देवत्रासकरोऽक्षिपत् ॥त्रिशूलमनलाकारं हरये रणदुर्म्मदः ॥२९॥अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम् ॥नंदकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम् ॥३०॥छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् ॥आगत्य हृदये विष्णुं जघान दृढमुष्टिना ॥३१॥सोपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम ॥जलंधरं च हृदये जघान दृढमुष्टिना ॥३२॥ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ॥बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥३३॥एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै ॥विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह ॥३४॥अथ प्रसन्नो भगवान्मायी मायाविदां वरः ॥उवाच दैत्यराजानं मेघगंभीरया गिरा ॥३५॥विष्णुरुवाच ॥भोभो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः ॥महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः ॥३६॥एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः ॥महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः ॥३७॥युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् ॥न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे ॥३८॥वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ॥अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥३९॥ ॥सनत्कुमार उवाच ॥इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः ॥प्रत्युवाच महाबुद्धिर्दैत्यराजो जलंधरः ॥४०॥जलंधर उवाच ॥यदि भावुक तुष्टोऽसि वरमे तन्ददस्व मे ॥मद्भगिन्या मया सार्धं मद्गेहे सगणो वस ॥४१॥सनत्कुमार उवाच ॥तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः ॥तथास्त्विति च देवेशो जगाद भगवान् हरिः ॥४२॥उवास स ततो विष्णुस्सर्वदेवगणैस्सह ॥जलंधरं नाम पुरमागत्य रमया सह ॥४३॥अथो जलंधरो दैत्यस्स्वभगिन्या च विष्णुना ॥उवास स्वालयं प्राप्तो हर्षाकुलितमानसः ॥४४॥जलंधरोऽथ देवानामधिकारेषु दानवान् ॥स्थापयित्वा सहर्षस्सन्पुनरागान्महीतलम् ॥४५॥देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंचि तम् ॥तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ॥४६॥पातालभवने दैत्यं निशुंभं सुमहाबलम् ॥स्थापयित्वा स शेषादीनानय द्भूतलं बली ॥४७॥देवगंधर्वसिद्धौघान् सर्पराक्षसमानुषान् ॥स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥४८॥एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ॥धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥४९॥न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा ॥न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥५०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरोपाख्याने विष्णुजलंधरयुद्धवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP