संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ३०

युद्धखण्डः - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सनत्कुमार उवाच ॥
गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः ॥
शिवलोकं महादिव्यं निराधारमभौतिकम् ॥१॥
साह्लादोभ्यन्तरं विष्णुर्जगाम मुदिताननः ॥
नानारत्नपरिक्षिप्तं विलसंतं महोज्ज्वलम् ॥२॥
संप्राप्य प्रथमद्वारं विचित्रं गणसेवितम् ॥
शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ॥३॥
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥
शोभिताञ्श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ॥४॥
पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् ॥
त्रिशूलादिधरान्वीरान्भस्मरुद्राक्षशोभितान् ॥५॥
सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः ॥
कथयामास वृत्तान्तं प्रभुसंदर्शनार्थकम् ॥६॥
तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥
परं द्वारं महारम्यं विचित्रं परम प्रभम् ॥७॥
प्रभूपकंठगत्यर्थं वृत्तांतं संन्यवेदयत् ॥
तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ॥८॥
एवं पंचदशद्वारान्प्रविश्य कमलोद्भवः ॥
महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ॥९॥
सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना ॥
आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यंतरं मुदा ॥१०॥
ददर्श गत्वा तत्रोच्चैस्सभां शंभोस्समुत्प्रभाम् ॥
तां पार्षदैः परिवृतां लसद्देहैस्सुभूषिताम् ॥११॥
महेश्वरस्य रूपैश्च दिग्भुजैश्शुभकांतिभिः ॥
पञ्चवक्त्रैस्त्रिनयनैश्शितिकंठमहोज्ज्वलैः ॥१२॥
सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः ॥
नवेन्दुमंडलाकारां चतुरस्रां मनोहराम् ॥१३॥
मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् ॥
अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ॥१४॥
माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् ॥
पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया ॥१५॥
सोपानशतकैर्युक्तां स्यमंतकविनिर्मितैः ॥
स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ॥१६॥
इन्द्रनीलमणिस्तंभैर्वेष्टितां सुमनोहराम् ॥
सुसंस्कृतां च सर्वत्र वासितां गंधवायुना ॥१७॥
सहस्रयोजनायामां सुपूर्णां बहुकिंकरैः ॥
ददर्श शंकरं सांबं तत्र विष्णुस्सुरेश्वरः ॥१८॥
वसंतं मध्यदेशे च यथेन्दुतारकावृतम् ॥
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥१९॥
किरीटिनं कुंडलिनं रत्नमालाविभूषितम् ॥
भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपंकजम् ॥२०॥
पुरतो गीतनृत्यश्च पश्यंतं सस्मितं मुदा ॥२१॥
शांतं प्रसन्नमनसमुमाकांतं महोल्लसम् ॥
देव्या प्रदत्त ताम्बूलं भुक्तवंतं सुवासितम् ॥२२॥
गणैश्च परया भक्त्या सेवितं श्वेतचामरैः ॥
स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकंधरैः ॥२३॥
गुणातीतं परेशानं त्रिदेवजनकं विभुम् ॥
निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ॥२४॥
अमायमजमाद्यञ्च मायाधीशं परात्परम् ॥
प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ॥२५॥
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् ॥
विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृतांजली ॥२६॥
विष्णुविधी ऊचतुः ॥
देवदेव महादेव परब्रह्माखिलेश्वर ॥
त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो ॥२७॥
वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो ॥
शंखचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ॥२८॥
अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः ॥
अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ॥२९॥
पार्षदप्रवरस्तस्य सुदामा दैवयंत्रितः ॥
राधाशप्तो बभूवाथ शंखचूडश्च दानवः ॥३०॥
तेन निस्सारिताः शंभो पीड्यमानाः समंततः ॥
हृताधिकारस्त्रिदशा विचरंति महीतले ॥३१॥
त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् ॥
तं घातय महेशान लोकानां सुखमावह ॥३२॥
त्वमेव निर्गुणस्सत्योऽनंतोऽनंतपराक्रमः ॥
सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः ॥३३॥
रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो ॥
सत्त्वेन पालने विष्णुस्त्रिभुवावन कारकः ॥३४॥
तमसा प्रलये रुद्रो जगत्संहारकारकः ॥
निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिः स्वरूपकः ॥३५॥
त्वं दीक्षया च गोलोके त्वं गवां परिपालकः ॥
त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ॥३६॥
त्वं सर्वकारणं स्वामी विधि विष्ण्वीश्वरः परम् ॥
निर्विकारी सदा साक्षी परमात्मा परेश्वरः ॥३७॥
दीनानाथसहायी च दीनानां प्रतिपालकः ॥
दीनबंधुस्त्रिलोकेशश्शरणागतवत्सलः ॥३८॥
अस्मानुद्धर गौरीश प्रसीद परमेश्वरः ॥
त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ॥३९॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा ॥
विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ ॥४०॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ॥३० ॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP