संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः| अध्यायः ४३ युद्धखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ युद्धखण्डः - अध्यायः ४३ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४३ Translation - भाषांतर व्यास उवाच ॥सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि ॥किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः ॥१॥कुतूहलमिति श्रोतुं ममाऽतीह मुनीश्वर ॥तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोस्तु ते ॥२॥ब्रह्मोवाच ॥इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ॥सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥३॥ ॥सनत्कुमार उवाच ॥भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ॥हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा ॥४॥ततः प्रजानां कदनं विधातुं कदनप्रियान् ॥निर्दिदेशाऽसुरान्वीरान्हरि वैरप्रियो हि सः ॥५॥अथ ते भर्तृसंदेशमादाय शिरसाऽसुराः ॥देवप्रजानां कदनं विदधुः कदनप्रियाः ॥६॥ततो विप्रकृते लोकेऽसुरैस्तेर्दुष्टमानसैः ॥दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥७॥हिरण्यकशिपुर्भ्रातुस्संपरेतस्य दुःखितः ॥कृत्वा करोदकादीनि तत्कलत्राद्यसांत्वयत् ॥८॥ततस्स दैत्यराजेन्द्रो ह्यजेयमजरामरम् ॥आत्मानमप्र तिद्वंद्वमेकराज्यं व्यधित्सत ॥९॥स तेपे मंदरद्रोण्यां तपः परमदारुणम् ॥ऊर्द्ध्वबाहुर्नभोदृष्टिः षादांगुष्ठाश्रितावनिः ॥१०॥तस्मिंस्तपस्तप्यमाने देवास्सर्वे बलान्विताः ॥दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे ॥११॥तस्य मूर्द्ध्नस्समुद्भूतः सधूमोग्निस्तपोमयः ॥तिर्यगूर्द्ध्वमधोलोकानतपद्विष्वगीरितः ॥१२॥तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुस्सुराः ॥धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः ॥१३॥अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः ॥परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १॥प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श ॥वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोपि ॥निशम्य वाचं मधुरां विधातुर्वचोऽब्रवीदेव ममूढबुद्धिः ॥१५॥हिरण्यकशिपुरुवाच ॥मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव ॥शास्त्रास्त्रपाशाशनिशुष्कवृक्षगिरीन्द्रतोयाग्निरिपुप्रहारैः ॥१६॥देवैश्च दैत्यैर्मुनिभिश्च सिद्धैस्त्वत्सृष्टजीवैर्बहुवाक्यतः किम् ॥स्वर्गे धरण्यां दिवसे निशायां नैवोर्द्ध्वतो नाप्यधतः प्रजेश ॥१७॥सनत्कुमार उवाच ॥तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् ॥प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः ॥१८॥अलं तपस्ते परिपूर्ण कामस्समाः सहस्राणि च षण्णवत्य ॥उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव ॥१९॥राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार ॥उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोपि सुरान्समस्तान् ॥२०॥ततो भयादिंद्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे ॥उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते ॥२१॥आराधयामासुरतीव विष्णुं स्तुत्वा वचोभित्सुखदं हि मत्वा ॥निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि तेते ॥२२॥श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु ॥उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः ॥२३॥आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः ॥दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः ॥२४॥श्रुत्वा रमेशस्य वचस्सुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः ॥ययुः स्वधामानि हिरण्यनेत्रानुजं च मत्वा निहतं मुनीश ॥२५॥आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् ॥सैंहं च नारं सुविदारितास्यं मार्तंडकोटिप्रतिमं सुघोरम् ॥२६॥युगांतकालाग्निसमप्रभावं जगन्मयं किं बहुभिर्वचोभिः ॥अस्तं रवौसोऽपि हि गच्छतीशो गतोऽसुराणां नगरीं महात्मा ॥२७॥कृत्वा च युद्धं प्रबलैस्स दैत्यैर्हत्वाथ तान्दैत्यगणान्गृहीत्वा ॥बभ्राम तत्राद्रुतविक्रमश्च बभंज तांस्तानसुरान्नृसिंहः ॥२८ दृष्टस्स दैत्यैरतुलप्रभावस्ते रेभिरे ते हि तथैव सर्वे ॥सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः ॥उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥२९॥प्रह्लाद उवाच ॥एष प्रविष्टो भगवाननंतो नृसिंहमात्रो नगरं त्वदंतः ॥निवृत्य युद्धाच्छ रणं प्रयाहि पश्यामि सिंहस्य करालमूर्त्तिम् ॥३०॥यस्मान्न योद्धा भुवनत्रयेऽपि कुरुष्व राज्यं विनमन्मृगेन्द्रम् ॥श्रुत्वा स्वपुत्रस्य वचो दुरात्मा तमाह भीतोऽसि किमत्र पुत्र ॥३१॥उक्त्वेति पुत्रं दितिजाधिनाथो दैत्यर्षभान्वीरवरान्स राजा ॥गृह्णंतु वै सिंहममुं भवंतो वीरा विरूपभ्रुकुटीक्षणं तु ॥३२॥तस्याज्ञया दैत्यवरास्ततस्ते ग्रहीतुकामा विविशुर्मृगेन्द्रम् ॥क्षणेन दग्धाश्शलभा इवाग्निं रूपाभिलाषात्प्रविविक्षवो वै ॥३३॥दैत्येषु दग्धेष्वपि दैत्यराजश्चकार युद्धं स मृगाधिपेन ॥शस्त्रैस्समग्रैरखिलैस्तथास्त्रैश्श क्त्यर्ष्टिपाशांकुशपावकाद्यैः ॥३४॥संयुध्यतोरेव तयोर्जगाम ब्राह्मं दिनं व्यास हि शस्त्रपाण्योः ॥प्रवीरयोर्वीररवेण गर्जतोः परस्परं क्रोधसुयुक्तचेतसोः ॥३५॥ततः स दैत्यस्सहसा बहूंश्च कृत्वा भुजाञ्छस्त्रयुतान्निरीक्ष्य ॥नृसिंहरूपं प्रययौ मृगेन्द्र संयुध्यमानं सहसा समंतात् ॥३६॥ततस्सुयुद्धं त्वतिदुस्सहं तु शस्त्रैस्समस्तैश्च तथाखिलास्त्रैः ॥कृत्वा महादैत्यवरो नृसिंहं क्षयं गतैश्शूल धरोऽभ्युपायात् ॥३७॥ततो गृहीतस्स मृगाधिपेन भुजैरनेकैर्गिरिसारवद्भि ॥निधाय जानौ स भुजांतरेषु नखांकुरैर्दानवमर्मभिद्भिः ॥३. ॥नखास्त्रहृत्पद्ममसृग्विमिश्रमुत्पाद्य जीवाद्विगतः क्षणेन ॥त्यक्तस्तदानीं स तु काष्ठभूतः पुनः पुनश्चूर्णितसर्वगात्रः ॥३९॥तस्मिन्हते देवरिपौ प्रसन्नः प्रह्लादमामंत्र्य कृतप्रणामम् ॥राज्येऽभिषिच्याद्भुतवीर्यविष्णुस्ततः प्रयातो गतिमप्रतर्क्याम् ॥४०॥ततोऽतिहृष्टास्सकलास्सुरेशाः प्रणम्य विष्णुं दिशि विप्र तस्याम् ॥ययुः स्वधामानि पितामहाद्याः कृतस्वकार्यं भगवंतमीड्यम् ॥४१॥प्रवर्णितं त्वंधकजन्म रुद्राद्धिरण्यनेत्रस्य मृतिर्वराहात् ॥नृसिंहतस्तत्सहजस्य नाशः प्रह्लादराज्याप्तिरिति प्रसंगात् ॥४२॥शृणु त्विदानीं द्विजवर्य मत्तोंधकप्रभावं भवकृत्यलब्धम् ॥हरेण युद्धं खलु तस्य पश्चाद्गणाधिपत्यं गिरिशस्य तस्य ॥४३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गणाधिपत्यप्राप्त्यंधकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP