संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः| अध्यायः ४८ पार्वतीखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ पार्वतीखण्डः - अध्यायः ४८ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४८ Translation - भाषांतर ॥ब्रह्मोवाच ॥एतस्मिन्नंतरे तत्र गर्गाचार्य्यप्रणोदितः ॥हिमवान्मेनया सार्द्धं कन्या दातुं प्रचक्रमे ॥१॥हैमं कलशमादाय मेना चार्द्धांगमाश्रिता ॥हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥२॥पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ॥तं वंरं वरयामास वस्त्रचंदनभूषणैः ॥३॥ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने ॥प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥४॥तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः ॥तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥५॥ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ॥सूती कृतः परेशेन विहसञ्शम्भुमब्रवीत् ॥६॥स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा ॥नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम् ॥७॥ब्रह्मोवाच ॥इत्याकर्ण्य वचस्तस्य हिमाद्रेश्शङ्करस्तदा ॥सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः ॥८॥एवंविधस्सुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव ॥दृष्टो निरुत्तरमुखो भगवान्महेशोऽकार्षीस्तु हास्यमथ तत्र स नारदत्वम् ॥९॥वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद ॥शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः ॥१०॥तदा निवारितो धीमान्पर्वतेन्द्रेण वै हठात् ॥विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा ॥११॥न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया ॥इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥१२॥सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ॥प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥१३॥नारद उवाच ॥त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ॥वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥१४॥त्वया पृष्ठो हरस्साक्षात्स्वगोत्रकथनं प्रति ॥समयेऽस्मिँस्तदत्यन्तमुपहासकरं वचः ॥१५॥अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ॥विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥१६॥यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ॥स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात ॥१७॥अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ॥निराकारो निर्विकारो मायाधीशः परात्परः ॥१८॥अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ॥तदिच्छया हि सगुणस्सुतनुर्बहुनामभृत् ॥१९॥सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ॥पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥२०॥लीलाविहारिणा तेन मोहितं च चराचरम् ॥नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥२१॥लिंगाकृतेर्महेशस्य केन दृष्टं न मस्तकम् ॥विष्णुर्गत्वा हि पातालं तदेनं नापविस्मितः ॥२२॥किंबहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया ॥तदधीनास्त्रयो लोका हरिब्रह्मादयोपि च ॥२३॥तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः ॥न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥२४॥ब्रह्मोवाच ॥इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ॥प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन्गिरा ॥२५॥नारद उवाच ॥शृणु तात महाशैल शिवाजनक मद्वचः ॥तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि ॥२६॥सगुणस्य महेशस्य लीलया रूप धारिणः ॥गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥२७॥शिवो नादमयः सत्त्यं नादश्शिवमयस्तथा ॥उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥२८॥सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ॥शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततस्स हि ॥२९॥अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ॥सर्वेश्वरेण मनसा शङ्करेण हिमालय ॥३०॥ब्रह्मोवाच ॥एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ॥हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥३१॥अथ विष्णुप्रभृतयस्सुराश्च मुनयस्तथा ॥साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥३२॥महेश्वरस्य गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ॥सविस्मया महामोदान्विताः प्रोचुः परस्परम् ॥३३॥यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः ॥शर्वः स्वतन्त्रगतिकृत्परभावगम्यस्सोऽसौ त्रिलोकपतिरद्य च नस्सुदृष्टः ॥३४॥अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः ॥ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥३५॥पर्वता ऊचुः ॥कन्यादाने स्थीयतां चाद्य शैलनाथोक्त्या किं कार्यनाशस्तवेव ॥सत्यं ब्रूमो नात्र कार्यो विमर्शस्तस्मात्कन्या दीयतामीश्वराय ॥३६॥ब्रह्मो वाच ॥तच्छुत्वा वचनं तेषां सुहृदां स हिमालयः ॥स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥३७॥इमां कन्यां तुभ्यमहं ददामि परमेश्वर ॥भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर ॥३८॥तस्मै रुद्राय महते मंत्रेणानेन दत्तवान् ॥हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥३९॥इत्थं शिवाकरं शैलं शिवहस्तेनिधाय च ॥मुमोदातीव मनसि तीर्णकाममहार्णवः ॥४०॥वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् ॥जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥४१॥क्षितिं संस्पृश्य कामस्य कोदादिति मनुं मुने ॥पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥४२॥महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ॥बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥४३॥साधुशब्दं नमः शब्दं चक्रुस्सर्वेऽति हर्षिताः ॥गंधर्वास्सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥४४॥हिमाचलस्य पौरा हि मुमुदु श्चाति चेतसि ॥मंगलं महदासीद्वै महोत्सवपुरस्सरम् ॥४५॥अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ॥हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥४६॥अथ शैलवरस्सोदात्सुप्रसन्नो हिमाचलः ॥शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ॥४७॥ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ॥ददुश्शिवाय सद्द्रव्यं नानाविधिविधानतः ॥४८॥हिमालयस्तुष्टमनाः पार्वतीशि वप्रीतये ॥नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥४९॥कौतुकानि ददौ तस्मै रत्नानि विविधानि च ॥चारुरत्नविकाराणि पात्राणि विविधानि च ॥५०॥गवां लक्षं हयानां च सज्जितानां शतं तथा ॥दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥५१॥नागानां शतलक्षं हि रथानां च तथा मुने ॥सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥५२॥इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ॥शिवाय परमेशाय विधिनाऽऽप कृतार्थताम् ॥५३॥अथ शैलवरो माध्यंदिनोक्तस्तोत्रतो मुदा ॥तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ॥५४॥ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ॥शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥५५॥देवाभिधानमुच्चार्य्य पर्य्यक्षणविधिं व्यधुः ॥महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥५६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : October 07, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP