संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः २३

पार्वतीखण्डः - अध्यायः २३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच॥
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर॥
चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥१॥
हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥
सभार्यस्ससुतामात्य उवाच परमेश्वरीम् ॥२॥
हिमालय उवाच॥
मा खिद्यतां महाभागे तपसानेन पार्वती॥
रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥३॥
त्वं तन्वी सुकुमारांगी तपसा च विमोहिता॥
भविष्यसि न संदेहस्सत्यं सत्यं वदामि ते ॥४॥
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि॥
किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥५॥
अतो हि निर्विकार त्वात्त्वामादातुं वरां हराः॥
नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥६॥
गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते॥
तथैव दुर्गमं शंभुं जानीहि त्वमिहानघे ॥७॥
 ॥ब्रह्मोवाच॥
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती॥
मेरुणा मंदरेणैव मैनाकेन तथैव सा ॥८॥
एवमन्यैः क्षितिभैश्च क्रौंचादिभिरनातुरा॥
तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥९॥
 ॥ब्रह्मोवाच॥
एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता॥
उवाच प्रहसंत्येव हिमवंतं शुचिस्मिता ॥१०॥
पार्वत्युवाच॥
पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया॥
अधुनापि प्रतिज्ञां च शृणुध्वं मम बांधवाः ॥११॥
विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः॥
तं तोषयामि तपसा शंकरं भक्तवत्सलम् ॥१२॥
सर्वे भवंतो गच्छंतु स्वं स्वं धाम प्रहर्षिताः॥
भविष्यत्येव तुष्टोऽसौ नात्र कार्य्या विचारणा ॥१३॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम्॥
तमानयिष्ये चात्रैव तपसा केव लेन हि ॥१४॥
तपोबलेन महता सुसेव्यो हि सदाशिवः॥
जानीध्वं हि महाभागास्सत्यं सत्यं वदामि वः ॥१५॥
आभाष्य चैवं गिरिजा च मेनकां मैनाकबंधुं पितरं हिमालयम्॥
तूष्णीं बभूवाशु सुभाषिणी शिवा समंदरं पर्वतराजबालिका ॥१६॥
जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते॥
प्रशंसमाना गिरिजा मुहुर्मुहुस्सुविस्मिता हेमनगेश्वराद्याः ॥१७॥
गतेषु तेषु सूर्येषु सखीभिः परिवारिता॥
तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥१८॥
तपसा महता तेन तप्तमासीच्चराचरम्॥
त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥१९॥
तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः॥
सिद्धास्साध्याश्च मुनयो विद्याधरमहोरगाः ॥२०॥
सप्रजापतयश्चैव गुह्यकाश्च तथापरे॥
कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥२१॥
सर्वे मिलित्वा शक्राद्या गुरुमामंत्र्य विह्वलाः॥
सुमेरौ तप्तसर्वांगा विधिं मां शरणं ययुः ॥२२॥
तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः॥
ऊचुस्सर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥२३॥
देवा ऊचुः॥
त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम्॥
संतप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥२४॥
तद्ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो॥
दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक ॥२५॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा॥
विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥२६॥
दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात्॥
हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥२७॥
तत्र गत्वा हरिं दृष्ट्वा विलसंतं सुखासने॥
सुप्रणम्य सुसंस्तूय प्रावोचं सांजलिः सुरैः ॥२८॥
त्राहि त्राहि महाविष्णो तप्तान्नश्शरणागतान्॥
तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ॥२९॥
इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम्॥
शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥३०॥
 ॥विष्णुरुवाच॥
ज्ञातं सर्वं निदानं मे पार्वती तपसोद्य वै॥
युष्माभिस्सहितस्त्वद्य व्रजामि परमेश्वरम् ॥३१॥
महादेवं प्रार्थयामो गिरिजाप्रापणाय तम्॥
पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥३२॥
वरं दातुं शिवायै हि देवदेव पिनाकधृक्॥
यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥२३॥
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः॥
तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः ॥३४॥
 ॥ब्रह्मोवाच॥
विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुस्सुरादयः॥
महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयंकरात् ॥३५॥
देवा ऊचुः॥
महाभयंकरं क्रुद्धं कालानलसमप्रभम्॥
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम् ॥३६॥
यथा दग्धः पुरा तेन मदनो दुरतिक्रमः॥
तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥३७॥
ब्रह्मोवाच ॥तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः॥
सांत्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥३८॥
 ॥हरिरुवाच॥
हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः॥
न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥३९॥
तस्माद्भवद्भिर्गंतव्यं मया सार्द्धं विचक्षणैः॥
शंभुं शुभकरं मत्वा शरणं तस्य सुप्रभो ॥४०॥
शिवं पुराणं पुरुषमधीशं वरेण्यरूपं हि परं पुराणम्॥
तपोजुषाणां परमात्मरूपं परात्परं तं शरणं व्रजामः ॥४१॥
ब्रह्मोवाच॥
एवमुक्तास्तदा देवा विष्णुना प्रभवि ष्णुना॥
जग्मुस्सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥४२॥
प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम्॥
जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यस्सकुतूहलाः ॥४३॥
पार्वत्यास्तु तपो दृष्ट्वा तेजसा व्यापृतास्तदा॥
प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपः स्थिताम् ॥४४॥
प्रशंसंतस्तपस्तस्यास्साक्षात्सिद्धितनोस्सुराः॥
जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥४५॥
तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा॥
पश्यतो दूरतस्तस्थुः कामभस्मकृतोहरात् ॥४६॥
नारद त्वं शिवस्थानं तदा गत्वाऽभयस्सदा॥
शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥४७॥
पुनरागत्य यत्नेन देवानाहूय तांस्ततः॥
निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने ॥४८॥
अथ विष्ण्वादयस्सर्वे तत्र गत्वा शिवं प्रभुम्॥
ददृशुस्सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥४९॥
योगपट्टस्थितं शंभुं गणैश्च परिवारितम्॥
तपोरूपं दधानं च परमेश्वररूपिणम् ॥५०॥
ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः॥
प्रणम्य तुष्टुवुस्सूक्तैर्वेदोपनिषदन्वितैः ॥५१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तुतीये पार्वतीखंडे पार्वतीसांत्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP