संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः १९

पार्वतीखण्डः - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नारद उवाच॥
ब्रह्मन्विधे महाभाग किं जातं तदनंतरम्॥
कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥१॥
 ॥ब्रह्मोवाच॥
श्रूयतां सा कथा तात यज्जातं तदनंतरम्॥
तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥२॥
धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः॥
विचिंतितं मनस्येवं विस्मितोऽतिततः परम् ॥३॥
 ॥शिव उवाच॥
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम्॥
केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥४॥
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम्॥
जातो धर्मविरोधोऽत्र श्रुतिसीमा विलंघिता ॥५॥
 ॥ब्रह्मोवाच॥
विचिंत्येत्थं महायोगी परमेशस्सतां गतिः॥
दिशो विलोकयामास परितश्शंकितस्तदा ॥६॥
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम्॥
स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥७॥
तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः॥
संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद ॥८॥
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः॥
चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने ॥९॥
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि॥
समशाम्यत्ततस्तस्मिन्संकुद्धे परमेश्वरे ॥१०॥
मोघीभूते शिवे स्वेस्त्रे भयमापाशु मन्मथः॥
चकंपे च पुरः स्थित्वा दृष्ट्वा मृत्युंजयं प्रभुम् ॥११॥
सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः॥
स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥१२॥
कामेन सुस्मृता देवाश्शक्राद्यास्ते मुनीश्वर॥
आययुः सकलास्ते हि शंभुं नत्वा च तुष्टुवुः ॥१३॥
स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि॥
तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान् ॥१४॥
ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः॥
जज्वालोर्द्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥१५॥
उत्पत्य गगने तूर्णं निष्पत्य धरणी तले॥
भ्रामंभ्रामं स्वपरितः पपात मेदनीं परि ॥१६॥
भस्मसात्कृतवान्साधो मदनं तावदेव हि॥
यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥१७॥
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः॥
रुरुदुर्विह्वलाश्चातिक्रोशतः किमभूदिति ॥१८॥
श्वेतांगा विकृतात्मा च गिरिराजसुता तदा॥
जगाम मंदिरं स्वं च समादाय सखीजनम् ॥१९॥
क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा॥
भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥२०॥
जातायां चैव संज्ञायां रतिरत्यंतविह्वला॥
विललाप तदा तत्रोच्चरंती विविधं वचः ॥२१॥
 ॥रतिरुवाच॥
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह॥
मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥२२॥
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद॥
इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥२३॥
 ॥ब्रह्मोवाच॥
इत्थं विलपती सा तु वदंती बहुधा वचः॥
हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥२४॥
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः॥
अभवन्दुःखितास्सर्वे स्थावरा अपि नारद ॥२५॥
एतस्मिन्नंतरे तत्र देवाश्शक्रादयोऽखिलाः॥
रतिमूचुस्समाश्वास्य संस्मरंतो महेश्वरम् ॥२६॥
 ॥देवा ऊचुः॥
किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज॥
जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥२७॥
सुखदाता न कोप्यस्ति दुःखदाता न कश्चन॥
सर्वोऽपि स्वकृतं भुंक्ते देवाञ्शोचसि वै वृथा ॥२८॥
 ॥ब्रह्मोवाच॥
इत्याश्वास्य रतिं देवास्सर्वे शिवमुपागताः॥
सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥२९॥
 ॥देवा ऊचुः॥
भगवञ्छ्रूयतोमेतद्वचनं नश्शुभं प्रभो॥
कृपां कृत्वा महेशान शरणागतवत्सल ॥३०॥
सुविचारय सुप्रीत्या कृति कामस्य शंकर॥
कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥३१॥
दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो॥
कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर ॥३२॥
रतिरेकाकिनी देव विलापं दुःखिता सती॥
करोति गिरिश त्वं च तामाश्वासय सर्वदा ॥३३॥
संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर॥
दैवतैस्सह सर्वेषां हतवांस्तं यदि स्मरम् ॥३४॥
दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः॥
तस्मात्त्वया च कर्त्तव्यं रत्याशोकापनोदनम् ॥३५॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः॥
देवानां सकलानां च वचनं चेदमब्रवीत् ॥३६॥
 ॥शिव उवाच ॥
देवाश्च ऋषयस्सर्वे मद्वचश्शृणुतादरात्॥
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत् ॥३७॥
अनंगस्तावदेव स्यात्कामो रतिपतिः प्रभुः॥
यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥३८॥
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति॥
तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥३९॥
प्रद्युम्ननाम तस्यैव भविष्यति न संशयः॥
जातमात्रं तु तं पुत्रं शंबरस्संहरिष्यति ॥४०॥
हृत्वा प्रास्य समुद्रं तं शंबरो दानवोत्तमः॥
मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥४१॥
तावच्च नगरं तस्य रते स्थेयं यथासुखम्॥
तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥४२॥
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे॥
भविष्यति सुखी देवाः प्रद्युम्नाख्यस्स्वकामिनीम् ॥४३॥
तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः॥
गमिष्यति तया सार्द्धं देवास्सत्यं वचो मम ॥४४॥
ब्रह्मोवाच॥
इति श्रुत्वा वचश्शंभोर्देवा ऊचुः प्रणम्य तम्॥
किंचिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नतांगकाः ॥४५॥
देवा ऊचुः॥
देवदेव महादेव करुणासागर प्रभो॥
शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥४६॥
ब्रह्मोवाच॥
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः॥
पुनर्बभाषे करुणासागरस्सकलेश्वरः ॥४७॥
शिव उवाच॥
हे देवास्सुप्रसन्नोऽस्मि जीवयिष्यामि चांतरे॥
कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः ॥४८॥
नाख्येयमिदमाख्यानं कस्यचित्पुरतस्सुराः॥
गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः ॥४९॥
ब्रह्मोवाच॥
इत्युक्त्वांतर्दधे रुद्रो देवानां स्तुवतां तदा॥
सर्वे देवास्सुप्रस्सन्ना बभूवुर्गतविस्मयाः ॥५०॥
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः॥
उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥५१॥
कामपत्नी समादिष्टं नगरं सा गता तदा॥
प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥५२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP