संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः १६

पार्वतीखण्डः - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच॥
अथ ते निर्जरास्सर्वे सुप्रणम्य प्रजेश्वरम्॥
तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः ॥१॥
अहं श्रुत्वामरनुतिं यथार्थां हृदयंगमा॥
सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥२॥
स्वागतं स्वाधिकारा वै निर्विघ्नाः संति वस्तुतः॥
किमर्थमागता यूयमत्र सर्वे वदंतु मे ॥३॥
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः॥
मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥४॥
देवा ऊचुः॥
लोकेश तारको दैत्यो वरेण तव दर्पित॥
निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात्स्वयम् ॥५॥
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम्॥
तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥६॥
अहर्निशं बाधतेस्मान्यत्र तत्रास्थितान्स वै॥
पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥७॥
तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर॥
तेन सर्वे वयं तात पीडिता विकला अति ॥८॥
अग्निर्यमोथ वरुणो निर्ऋतिर्वायुरेव च॥
अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥९॥
सर्वे मनुष्यधर्माणस्सर्वेः परिकरैर्युताः॥
सेवंते तं महादैत्यं न स्वतंत्राः कदाचन ॥१०॥
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा॥
तदिच्छाकार्य्यनिरतास्सर्वे तस्यानुजीविनः ॥११॥
यावत्यो वनितास्सर्वा ये चाप्यप्सरसां गणाः॥
सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥१२॥
न यज्ञास्संप्रवर्तते न तपस्यंति तापसाः॥
दानधर्मादिकं किंचिन्न लोकेषु प्रवर्त्तते ॥१३॥
तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः॥
स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥१४॥
तेन नस्तारकेणेदं सकलं भुवनत्रयम्॥
हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥१५॥
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः॥
स्वस्थास्तद्वारितास्तेन लोकनाथसुरारिणा ॥१६॥
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि॥
वयं सर्वे तारकाख्यवह्नौ दग्धास्सुविह्वलाः ॥१७॥
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः॥
विकारे सांनिपाते वा वीर्यवंत्यौषधानि च ॥१८॥
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने॥
उत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम् ॥१९॥
ब्रह्मोवाच॥
इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने॥
प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥२०॥
ब्रह्मोवाच॥
ममैव वचसा दैत्यस्तारकाख्यस्समेधितः॥
न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥२१॥
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः॥
विष वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥२२॥
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शंकरः॥
किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचो दितः ॥२३॥
तारकाख्यस्तु पापेन स्वयमेष्यति संक्षयम्॥
यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥२४॥
न मया तारको वध्यो हरिणापि हरेण च॥
नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते ॥२५॥
शिववीर्य्यसमुत्पन्नो यदि स्यात्तनयस्सुराः॥
स एव तारकाख्यस्य हंता दैत्यस्य नापरः ॥२६॥
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः॥
महादेवप्रसादेन सिद्धिमेष्यति स धुवम् ॥२७॥
सती दाक्षा यिणी पूर्वं त्यक्तदेहा तु याभवत्॥
सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः ॥२८॥
तस्या अवश्यं गिरिशः करिष्यति कर ग्रहम्॥
तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥२९॥
तथा विदध्वं सुतरां तस्यां तु परियत्नतः॥
पार्वत्यां मेनकाजायां रेतः प्रतिनिपातने ॥३०॥
तमूर्द्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम्॥
कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥३१॥
सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना॥
तपस्यते हिमगिरौ नित्यं संसेवते हरम् ॥३२॥
वाक्याद्धिमवतः कालीं स्वपितुर्हठतश्शिवा॥
सखीभ्यां सेवते सार्द्धं ध्यानस्थं परमेश्वरम् ॥३३॥
तामग्रतोऽर्च्चमानां वै त्रैलोक्ये वरवर्णिनीम्॥
ध्यानसक्तो महेशो हि मनसापि न हीयते ॥३४॥
भार्य्यां समीहेत यथा स कालीं चन्द्रशेखरः॥
तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥३५॥
स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः॥
निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ॥३६॥
इत्युक्त्वाहं सुरान्शीघ्रं तारकाख्यासुरस्य वै॥
उपसंगम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥३७॥
 ॥ब्रह्मोवाच॥
तेजोसारमिदं स्वर्गं राज्यं त्वं परिपासि नः॥
यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम् ॥३८॥
वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता॥
तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥३९॥
देवयोग्यानि तत्रैव कार्य्याणि निखिलान्यपि॥
भविष्यत्यरसुरश्रेष्ठ नात्र कार्य्या विचारणा ॥४०॥
इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः॥
स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः ॥४१॥
तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात्॥
शोणिताख्य पुरे स्थित्वा सर्वराज्यं चकार सः ॥४२॥
देवास्सर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम्॥
शक्रस्थानं ययुः प्रीत्या शक्रेण सुस माहिताः ॥४३॥
तत्र गत्वा मिलित्वा च विचार्य्य च परस्परम्॥
ते सर्वे मरुतः प्रीत्या मघवंतं वचोऽब्रुवन् ॥४४॥
देवा ऊचुः ॥
शम्भोर्य्यथा शिवायां वै रुचिजायेत कामतः॥
मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥४५॥
ब्रह्मोवाच॥
इत्येवं सर्ववृत्तांतं विनिवेद्य सुरेश्वरम्॥
जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्ड देवसांत्वनवर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP