संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः| अध्यायः ३७ पार्वतीखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ पार्वतीखण्डः - अध्यायः ३७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर नारद उवाच ॥तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ॥किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥१॥ ॥ब्रह्मोवाच ॥गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ॥सारुन्धतीषु हिमवान् यदकार्षीद्ब्रवीमि ते ॥२॥तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ॥महामनास्स मुमुदे हिमवान् पर्वतेश्वरः ॥३॥तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ॥लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥४॥अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ॥नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥५॥ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ॥ददुश्शिवाय तत्पत्रं तिलकं सम्विधाय च ॥६॥सन्मानिता विशेषेण प्रभुणा च यथोचितम् ॥सर्वे ते प्रीतिमनस आजग्मुश्शैलसन्निधिम् ॥७॥सन्मानितान्विशेषेण महेशेनागताञ्जनान् ॥दृष्ट्वा सुहर्षिताञ्च्छैलो मुमोदातीव चेतसि ॥८॥ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ॥नानादेशस्थितानाञ्च निखिलानां सुखास्पदम् ॥९॥ततस्स कारयामास स्वर्णसंग्रहमादरात् ॥नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥१०॥तण्डुलानां बहूञ्छैलान् पृथुकानां तथैव च ॥गुडानां शर्कराणाञ्च लवणानां तथैव च ॥११॥क्षीराणां च घृतानाञ्च दध्नां वापीश्चकार सः ॥यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥१२॥शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ॥अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥१३॥बह्वीर्हैयंगवानाञ्च ह्यासवानां तथैव च ॥नाना पक्वान्नसंघांश्च महास्वादुरसाँस्तथा ॥१४॥नाना व्यञ्जनवस्तूनि गणदेवहितानि च ॥अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥१५॥मणिरत्नप्रकाराणि सुवर्णरजतानि च ॥द्रव्याण्येतानि चान्यानि संगृह्य विधिपूर्वकम् ॥१६॥मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ॥संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥१७॥ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ॥पुरद्विजस्त्रियो दृष्ट्वा लोकाचारं प्रचक्रिरे ॥१८॥सोत्सवं विविधं तत्र सुमंगलपुरस्सरम् ॥हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥१९॥सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ॥एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥२०॥आजग्मुस्सस्त्रियो हृष्टास्ससुतास्सपरिच्छदाः ॥तदैव शृणु देवर्षे गिर्य्यागमनमादृतः ॥२१॥वर्णयामि समासेन शिवप्रीतिविवृद्धये ॥देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥२२॥नानारत्नपरिभ्राजत्समाजस्सपरिच्छदः ॥नानामणिमहारत्नसारमादाय यत्नतः ॥२३॥सुवेषालंकृतः श्रीमान् जगाम स हिमालयम् ॥मन्दरस्सर्वशोभाढ्यस्सनारीतनयो गिरिः ॥२४॥सूपायनानि संगृह्य जगाम विविधानि च ॥अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥२५॥बहुशोभासमायुक्त आजगाम मुदान्वितः ॥उदयाचल आदाय सद्रत्नानि मणीनपि ॥२६॥अत्युत्कृष्टपरीवार आजगाम महासुखी ॥मलयो गिरिराजो हि सपरीवार आदृतः ॥२७॥सुदिव्यरचनायुक्त आययौ बहुसद्बलः ॥सद्यो दर्दुरनामा च मुदितस्सकलत्रकः ॥२८॥बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम् ॥निषदोपि प्रहृष्टात्मा सपरिच्छद आययौ ॥२९॥ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ॥आजगाम महाभाग्यो भूधरो गन्धमादनः ॥३०॥करवीरस्तथैवापि महाविभव संयुतः ॥महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥३१॥सगणस्ससुतस्त्रीको बहुशोभासमन्वितः ॥पारियात्रो हि हृष्टात्मा मणि रत्नाकरस्सयुत् ॥३२॥सगणस्सपरीवार आययौ हिमभूधरम् ॥क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥आजगाम गिरिश्रेष्ठस्स मुपायन आदृतः ॥३३॥पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ॥महोपायनमादायाजगाम हिमभूधरम् ॥३४॥नीलः सलीलस्स सुतस्सस्त्रीको द्रव्यसंयुतः ॥आजगाम हिमागस्य गृहमानन्दसंयुतः ॥३५॥त्रिकूटश्चित्रकूटोपि वेंकटः श्रीगिरिस्तथा ॥गोकामुखी नारदश्च हिमगेहमुपागमत् ॥३६॥विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ॥आजगाम प्रहृष्टात्मा सदारतनयश्शुभः ॥३७॥कालंजरो महाशैलो बहुहर्षसमन्वितः ॥बहुभस्सगणः प्रीत्याजगामहिमभूधरम् ॥३८॥कैलासस्तु महाशैलो महाहर्षसमन्वितः ॥आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥३९॥अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ॥इहापि येऽचलास्सर्वे आययुस्ते हिमालयम् ॥४०॥निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ॥आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥४१॥तदा सर्वे समायाताश्शोणभद्रादयः खलु ॥बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति ॥४२॥नद्यस्सर्वास्समायाता नानालंकारसंयुताः ॥दिव्य रूपधराः प्रीत्या विवाहश्शिवयोरिति ॥४३॥गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ॥आययौ हिमशैलम्वै विवाहश्शिवयोरिति ॥४४॥गंगा तु सुमहाप्रीत्या नानालंकारसंयुता ॥दिव्यरूपा ययौ प्रीत्या विवाहश्शिवयोरिति ॥४५॥नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ॥महाप्रीत्या जगामाशु विवाहश्शिवयोरिति ॥४६॥आगतैस्तैस्ततः सर्वैस्सर्वतो हिमभूधरम् ॥संकुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥४७॥महोत्सवा लसत्केतुध्वजातोरणकाधिका ॥वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥४८॥हिमालयोपि सुप्रीत्यादरेण विविधेन च ॥तेषां चकार सन्मानं तासां चैव यथायथम् ॥४९॥सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ॥सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥५०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : October 07, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP