संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| कार्तिकपत्र्यगत्रे देवतोत्थापनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत कार्तिकपत्र्यगत्रे देवतोत्थापनम् Translation - भाषांतर नील उवाच ।एकादश्यां ततो रात्रौ शुक्लपक्षस्य मानव: ।सोपवासो हरिं देवं नृत्यगीतैविबोधयेत् ॥५१६॥आषाढमासे प्रतिमां केशवस्य तु कारयेत् ।सुप्तां च शेषपर्यके शैलमृध्देमदारुभि: ॥५१७॥ताम्रारकूटरजतै: चित्र वापि निवेशयेत् ।लक्ष्म्युत्संगगतौ पादौ तस्यां तस्य च कारयेत् ॥५१८॥कार्तिकस्य तु शुक्लन्ते कार्य तस्यं विबोधनम् ।यथा तथा मे गदत: श्रृणु त्वं वाडवोत्तम ॥५१९॥एकादश्यां तु कर्तव्यं रात्रौ जागरणं तथा ।गीतैर्नृत्यैस्तथा वाद्यै: ब्रह्मघोषस्तथैव च ॥५२०॥वीणापटहशब्दैश्च पुराणानां च वाचनै: ।तत्कथ श्रवणैश्चान्यैस्तथा स्तोत्रोपकीर्तनै: ॥५२१॥प्रेक्षणीयै: प्रदानैश्च भूमिशोभ भिरेवच ।पुष्पधूपप्रदानैश्च नैवेद्यैर्विविधैस्तथा ॥५२२॥दीपवृक्षैश्च विविधैर्यह्णिपोजाभिरेवच ।भक्ष्यैरपूपै: शाकैश्च परमात्रै: फलैस्तथा ॥५२३॥इक्षोर्विकारै: मधुना मृध्दीकाभव्य्दाडिमै: ।कुटीरकस्य मज्जर्य्या मार्जन्या लवणेन च ॥५२४॥रक्तसुत्रेण रक्तेन चन्दनेन सितेन च ।अलक्रकेन बीजैश्च कुडुमेन सुगन्धिता ॥५२५॥संपूज्य प्रतिमां रात्रौ व्दितीयेऽहनि पंडित: ।स्रात्वा नदीजले पुणये प्रतिमां स्थापयेत् शुभाम् ॥५२६॥उत्यिता तां परां ब्रह्मन् पूर्वद्रव्यैर्विनिर्मिताम् ।यदि चित्रनिविष्टा स्यात् प्रतिमा ब्राह्मणोत्तम ॥५२७॥तस्यां स्रानादि कर्तव्यं बुधैश्चित्तोपचारत: ।पश्चरात्रविधानेन वेद्यामावहिता बुध: ॥५२८॥आसनस्था यथाशक्ति स्रापयेत यथाविधि ।आदौ आज्येन तैलैन मधुना तदनन्तरम् ॥५२९॥दध्रा क्षीरेण च तत: पश्चगव्येन चाप्यथ ।उव्दर्तन्म ततो देयं माषचुर्णैरत: परम् ॥५३०॥ततो मसूरचूर्णैश्च ततस्त्वामल्काणुभि: ।रुद्रकाललकुत्थैश्च तगरै: कर्णकैस्तथा ॥५३१॥प्रियडंभिश्च सिध्दार्थै ततो वै बीजपूरकै: ।मर्वोषधिसर्वगन्धै: सर्वबीजैश्च काश्चनै: ॥५३२॥राजतैर्मौक्तिकैश्चापि नानारत्नाम्बुमिस्तथा ।ततोऽपि मतिमान् देव प्रीत्यर्थ तं तदानयेत् ॥५३३॥माडल्यानि यथालाभं रत्नानि च कुशोदकम् ।दन्तिदन्तीध्दृतामृच वृपश्रृगोध्दता तथा ॥५३४॥नदीतीरात्सगोस्थानाव्दल्मीकात्संगमाध्ददात् ।इन्द्रस्थानाच सरस: तथा पर्वतमस्तकात् ॥५३५॥एतै: सस्राप्य देवेशं दद्याव्दार चनां शुभाम् ।ततश्च कलशा देया यथाशक्ति स्वलंकृता: ॥५३६॥जानिपल्लवसंपूर्णा: फलपूर्णास्तु कांचना: ।पुणयाहे वेदशब्देन वेणुवीणारवेन च ॥५३७॥सूतमागधशब्देन तथा वन्दिस्वनेन च ।स्रपयेत बुध: सम्यक् प्रतिमास्थापितं हरिम् ॥५३८॥एवं संप्राप्य गोविन्दं स्वनुलिप्तं स्वलंकृतम् ।सवाससं पूजयेत जातीपुष्पै:? सकुड्मलै: ॥५३९॥धूपं च सरजो दद्यात् दद्याद्दीपंसुशोभनम् ।ततश्च पूजयेत् देवं परमात्रै: सुभोभनै: ॥५४०॥अत्रै: प्रधानरत्नैश्च पूज्या: भागवतास्तथा ।ततोऽग्रिहवनं कार्य्य विप्रा: पूज्यास्त्वनन्तरम् ॥५४१॥वासेभिर्भूषणै: रत्नै: गोभिरश्वै: गजै: धनै: ।यथाविभवतां विप्र भोक्तव्यं तदनन्तरम् ॥५४२॥त्रयोदश्यां तत: पूज्या जना ये रडंजीविन: ।मल्लभट्टादयो ब्रह्मन् स्वस्ववित्तानुरुपत: ॥५४३॥चतुर्दश्यां न भोक्रव्यं पयसाऽपिवाअ ।पश्चदश्यां तथा पूज्यो देवदेवो जनार्दन: ॥५४४॥पौणीमासीं तु संप्राप्य न भोक्तव्यं तदा दिवा ।ततश्चन्द्रादये प्राप्ते पूजनीयाश्च कृत्तिका: ॥५४५॥कार्तिकेयं तथा खडं वरुणं च हुताशनम् ।माल्यै: गन्धै स्तथा धूपै: भक्ष्यै रुचाचचै स्तथा ॥५४६॥परमात्रै स्तथा शाकै र्वहिसंतवणैस्तथा ।दक्षूणां च विकारैश्च दीपवृक्षै: सुशोभनै: ॥५४७॥कल्माषै: लेपिकामिश्च व्दिजांश्च परिपूजयेत् ।एवं कृत्त्वा तदा पूजां मासदत्तं तु दीपकम् ॥५४८॥वहिर्गृहात्त यद्दत्तं पटक तत्त कारयेत् ।अपां समीप नीत्वा तु सभक्ष्यं तत्र वाहयेत् ॥५४९॥तस्य मूले तु कर्तव्यं ततोवै चन्दनाचनम् ।क्षीरेण पूर्णतं कृत्वा कुर्यान्मत्स्यं च सैकतम् ॥५५०॥मुक्त नेत्रं न्यसेत्तस्मिन् तं च विप्रे निवेदयेत् ।बलीवंर्द ततो दद्यात् श्वेतं शक्या विशेषत: ॥५५१॥सर्वसस्यधरं रम्यं सर्वगन्धसमन्वितम् ।सवाससं व्दिजे दद्यात् श्वेतं शक्या विशेषत : ॥५५२॥याम्यं मार्ग सुखेनैव तेन यान्ति विपचिता: ।यावन्ति रोमकूषाणि तस्य दानस्य काश्यप ॥५५३॥तावव्दर्पसहस्राणि स्वर्गे मोदन्ति तत्प्रदा: ।पूजयित्वा ततो विष्णुं रक्तमाल्यादिभि: स्वयम् ॥५५४॥भोक्रव्यं गोरसप्रायं सुप्तव्यं चाप्यनन्तरम ।देवोत्थापनमेतध्दि कर्तव्यं दिनपश्चकम् ॥५५५॥पश्चाहमेतच्च तथा सुप्तव्यं स्थण्डिले बुधै: ।दिने दिने च स्रातव्यं नदीतोये सुशीतले ॥५५६॥पूजनीयो हरिर्देवो ब्राह्मणा: सहुताशना: ।यर्जनीयं तदा मांसं प्रयत्नादपि काश्यप ॥५५७॥दैत्यदानवयक्षाश्च पिशाचा: राक्षसै: सह ।वर्जयन्ति च ते मासं मासादा दिनपश्चकम ॥५५८॥एवं संपूज्य देवेशं सर्वकामसमन्वितम् ।आयु: परममासाद्य विष्णुलोके महीयते ॥५५९॥स्ववित्तशक्तथा कर्तव्यं अप्युक्तं नूनमेव तु ।प्राप्रोतोदं फलं सर्व वित्ताशाठयं विवर्जयेत् ॥५६०॥इति श्री नीलमते कार्तिकपत्र्यगत्रे देवतोत्थापनम् । N/A References : N/A Last Updated : January 08, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP