जनमेजय वैशम्पायनसंवाद:
नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.
नीलमत पुराण
श्रीनिवासं हरिं देवं वरदं परमेश्वरम् ।
त्र्यैलोक्यनाथं गोविन्दं प्रणम्याक्षरमव्ययम् ॥१॥
परीक्षिव्दंशभृच्छीमान् नृपतिर्जनमेजय: ।
पप्रच्छ शिष्यं व्यासस्य वैशम्पायममन्तिकात् ॥२॥
जनमेजय उवाच ।
महाभारतसंग्रामे नानादेश्या नराधिपा: ।
महाशूरा: समायाता: पितृणां मे महात्मनाम् ॥३॥
कथं काश्मीरिको राजा नायातस्तर कीर्तय ।
पाण्डवैर्धार्तराष्टैश्च न वृत: स कथं नृप: ॥४॥
कश्मीरमण्डलं चैव प्रधानं जगति स्थितम् ।
कथं नासौ समाहतस्तत्र पाण्डकौरवै : ॥५॥
कीं नामाभूत स राजा च कश्मीराणां महाशय: ।
कथं वासौ निशम्यैतन्नायातश्चात्मना तदा ॥६॥
स्वर्गसोपानपंक्रिर्हि भव्यानां समभूदिदम् ।
भारतं नाम युध्दं यज्जिगीषूणां महात्मनाम् ॥७॥
अकारणमिदं नाम न भवेद्यदसौ तदा ।
नायातो भारतं युध्दं राजा काश्मीरिको महान् ॥८॥
वैशम्पायन उवाच ।
सत्यमेतन्महाराज त्वया प्रोक्तं महीपते ।
यथा नासौ समायातस्तन्निशामय सुव्रत ॥९॥
कुरुपाण्डववेलायां भूमिर्भगवता स्वयम् ।
पाविताभूद्दितिसुतानवतीर्णाज्जघान यत् ॥१०॥
तस्मिन् कालेऽत्र समभूत राजा विशदकीर्तिमान् ।
कश्मीरान् पालयन् सौम्य गोनन्द इति संज्ञया ॥११॥
असौ प्रतापकलितो दिशं सौम्यां समाश्रित: ।
शुशुभे विक्रमोदग्रो मानी कलितसंस्थिति: ॥१२॥
अथोत्थिते किल महाविरोधे दैत्यबन्धुना ।
वृष्णीनां कृष्णमुख्यानां जरासंधेन भूभृता ॥१३॥
श्रनेन बन्धुना मानस्थानमेष महीपति: ।
काश्मीरिकोऽभ्यर्थनयाहूत: साहाय्यकाम्यया ॥१४॥
गत्वासौ बन्धुगृह्यत्वाज्जरासंधस्य भूपते: ।
चक्रे साहाय्यकं धीमान् अरासन्धस्य भूपते: ॥१५॥
ररोधाथ च कंसारर्मथुरां मधुराकृति: ।
वलै: स्वैर्बलवान् राजा त्रेस्तुस्त यत्र दानवा; ॥१६॥
भूरिशोऽथ बले भग्रे यादवानां बलोध्दत: ।
बलो बलेन रुरुधे महता तं जिगीषया ॥१७॥
अतीव तुमुले तस्मिन् युध्दऽन्योन्यजिगीषया ।
काश्मीरिकोऽसौ क्रध्देज बलेन बलवान् बलात् ॥१८॥
रुध्दोऽभूत्पतितो भूमौ शस्त्रास्त्रत्ततविग्रह: ।
इत्यास्मिन् वीरकलितां गतिमाप्ते महात्मनि ॥१९॥
दामोदराभिधस्तस्य सूनू राजाऽभवत्सुधी: ।
विभूतिकलितेनाऽथ समृध्देन महात्मना ॥२०॥
येन काश्मीरभू : राज्ञाऽन्विता सौम्या जहास ह ।
स राजबीजी सत्कीर्तिर्वीर्यशाली महाभुज: ॥२१॥
अन्तश्चिन्तातुरो जातु न लेभे निर्वृतिं पराम् ॥२२॥
श्रहो महात्मा राजा स कथं नाम हतो बलात् ।
व्दीपान्तर्वासिना तातो बलेन बलवान् मम ॥२३॥
अथोपसिन्धु गान्धारविषयेऽभुत्स्वयंवर: ।
यत्राहूँता: समाजग्मू राजानां वीर्यशालिन: ॥२४॥
तत्रागतं समाकर्ण्य वासुदेवं स्वयंवरे ।
जगाम माधवं योध्दुं चतुरडबलान्वित: ॥२५॥
तत्र तस्याभवद्युध्दं वासुदेवेन धीमता ।
यादृशं वासुदेवस्य नरकेन सहाऽभवत् ॥२६॥
तत: स वासुदेवेन युध्दे तस्मिन्निपातित: ।
अन्तर्वतीं तस्य पत्नीं वासुदेवोऽभ्यषेचयत् ॥२७॥
भविष्यत्पुत्नराज्यार्थं तस्य देशस्य गौरवात् ।
तत: सा सुषुवे पुत्रं बालगोनन्दसंज्ञितम् ॥२८॥
बालभावात् पाण्डुसुतैर्नानीत: कौरवैर्न वा ॥२९॥
जनमेजय उवाच ।
देशस्य गौरवं चक्रे किमर्थ व्दिजसत्तम ।
वासुदेवो महात्मा यदभ्यषिज्चत्स्वय स्त्रियम् ॥३०॥
वैशम्पायन उवाच ।
यैषा देवी उमा सैव कश्मीरा नृपसत्तम ।
आसीत् सर पूर्णजलं सुरम्यं सुमनोहरम् ॥३१॥
कल्पारम्भप्रभृति यत्पुरा मन्वन्तराणि षट् ।
अस्मिन्मन्वन्तरे जातं विषयं सुअनोहरम् ॥३२॥
शालिमालाकुलं स्फीतं सत्फलाद्यै: समन्वितम् ।
स्वाध्यायध्याननिरतैर्यज्ञशीलैर्जनैर्युतम् ॥३३॥
तपस्विभिर्धर्मपरैर्वेदवेदाडंपारगै: ।
क्षत्रियै: सुमहाभागै: सर्वशस्त्रास्त्रपारगै: ॥३४॥
वैश्यैर्वृत्तिरतै: शूद्रैर्व्दिजातिपरिचारकै: ।
देवतायतनोपेत सर्वतीर्थमयं शुभम् ॥३५॥
पृथिव्यां यानि तीर्थानि तानि तत्र नराधिप ।
ॠष्याश्रमसुसंबाधं शीतातपशुभं सुखम ॥३६॥
अधृष्यं पराराष्ट्राणां तद्भयाजामकोविदम् ।
गोश्वनागादिबहुलं दुर्भिक्षातंकवर्जितम् ॥३७॥
अदेवमातृकं पुण्यं रम्यं प्राणभूतां हितम् ।
सर्धसस्यगणोपेतमनातडं बहुप्रजम् ॥३८॥
स्त्रीमिश्च सुकुमाराभिर्देवालयसममाश्रयम् ।
दुष्टैर्भुजंगशार्दूलमहिषर्क्षैर्विवर्जितम् ॥३९॥
ब्रह्म घोषधनुर्घोषनित्योत्सव्समाकुलम् ।
केलिप्रायजनाकीर्णं नित्यहृष्टबुधावृतम् ॥४०॥
उद्यानारामसम्बाधं वीणापटहनादितम् ।
नित्याशौण्डजनोपेतं सतां हृदयवल्लभम् ॥४१॥
नानापुष्पफलोपेतं नानाद्रुमलतोज्ज्वलम् ।
नानामृगगणाकींर्ण सिध्दचारणसेवितम् ॥४२॥
कश्मीरमण्डलं पुण्य सर्व तीर्थमरिन्दम ।
तत्र नागा ह्र्दा: पुण्यास्तत्र पुण्या: शिलोपया: ॥४३॥
तत्र नद्यस्तथा पुण्या: पुण्यान्यपि सरांसि च ।
देवालया: सुपुण्याश्च तेषां चैव तथाश्रमा: ॥४४॥
तन्मध्येन च निर्याता सीमन्तमिव कुर्वती ।
वितस्ता परमा देवी साक्षाध्दिमनगोद्भवा ॥४५॥
जनमेजय उवाच ।
मन्वन्तरेषु सर्वेषु यदासीव्दिमलं सर: ।
कथं वैवस्वते जातं तन्मण्डलमिति प्रभो ॥४६॥
ब्रहि मे भगवन् किज्चित्रास्ति तेऽविदितं खलु ।
प्रियशिष्योऽसि तस्यर्षेर्व्यासस्यामिततेजस: ॥४७॥
श्री वैशम्पायन उवाच ।
इममर्थ पुरा वर्त्स गोनन्दाख्यो नृपोत्तम: ।
तीर्थयात्राप्रसंगेन बृहदश्वमुपागतम् ॥४८॥
पूजयित्वा स नृपति: पप्रच्छ मुनिसत्तमम् ।
सुखासोनं समादाय पाद्यार्ध्यादि अनुक्रमात ॥४९॥
गोनन्द उवाच ।
मन्वान्तरेषु पूर्वेषु नासीदेतत्पुरं किल ।
कश्मीराख्यं बभूवास्मिन्कथं वैवस्वतेऽन्तरे ॥५०॥
इति नीलमते जनमेजय वैशम्पायनसंवाद: ॥
N/A
References : N/A
Last Updated : January 08, 2018
TOP