संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| पोडशोऽध्याय:। मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - पोडशोऽध्याय:। १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत पोडशोऽध्याय:। Translation - भाषांतर गजेनैव यथा युध्येच्छृणु ते कथयाम्यहम् ।बाहो: स्फालानमित्येव सुस्थानाचालनं तत: ॥१॥पादयोश्च समं स्थानं निष्ठं वाल्पताडनम् ।कण्ठरा (रो) धो दण्डधातो हस्ताभ्या स्कन्धधारणाम् ॥२॥कराकर्षणमन्योन्यं शिरसोन्योन्यधारणम् ।उरोधारणमुरसा प्रह (र)णं चोरस्येव कक्षाविदारणम् ॥३॥यो येन यथा वापि प्रविश्य स्थानकेऽपि च ।करबले वाथ शीर्षं ततो मुहडकेन वा ॥४॥बाहुबलेन बलवान् बलहस्तेन वा पुन: ।गजस्य युध्दे कथितं वृपगस्य तु कथ्यते ॥५॥वृयभस्य वृषभेण यथा युध्दं तथा शृणु ।बाहोरास्फालनं चैव समं समाग (म) मेव च ॥६॥सतलहस्तप्रमाणं हननं बाहुना तथा ।चरणाघर्पणं चैव बलमन्योन्यमेव च ॥७॥स्थानके च प्रवेशं च शीर्षेण देहलेपनम् ।पृष्ठे चाप्युदरे वापि स्थानविज्ञानमेव च ॥८॥अथ सिंहस्य सिहेन युध्दं भवेद्यथा पुन: ।उभयोश्चैव नान्योपि भ्रमणं भ्रामणं तथा ॥९॥करचालनके दण्डो पश्च वाछोनकं तथा ।प्रशव्दाश्च तथैवान्ये तथा चोत्पतनं परम् ॥१०॥बलाबलं च विज्ञेयं चतु: स्थानप्रवेशनम् ।नितम्बेन कर्पणं च विज्ञानं स्थानकेन च ॥११॥शोषणं शोणितस्यापि तथा च छेदनं परम् ।तेजोज्वलनतापेन वेगेश्च प्रपदेन च ॥१२॥ताडनेन तपोप्राप्ते तत्र भीपणसागरे ।सोनेन पातितस्येव कृष्णेन कथितं पुरा ॥१३॥मृगस्य च मृगेणाथ युध्दं तथा शृणुप्य तत् ।बालकास्तालनं प्रोक्त समं च तलचेष्टितम् ॥१४॥समं च शौर्यमुभयोस्तथाडवर्तनं व्दयो: ।दुरागत्य समारम्भात्पार्श्वे च भ्रमणं तथा ॥१५॥शीघ्राघात: समुत्थानं लघूकरणमेव च ।लघुकत्वस्थानकं चैव विविधं युध्दमेव च ॥१६॥अधोनि:सरणं चैव बहुदॄश्यकरं तथा ।उरुपादं च संधानं कक्षाया: स्थानघातनम् ॥१७॥तकणं रक्षणं केगान् मृगयुध्दं च गुल्मनि ।एवंविधानि युध्दानि कथितानि मुरारिणा ॥१८॥ज्ञात्वा चैव बलज्ञानाअत्मनस्य (श्च) परस्य च ।योध्दयव्यं मुच्यते पापै: प्रतिकुर्वन् परस्परम् ॥१९॥स्वजातियुध्दं कथितं विजाति कथयाम्यहम् ।गजसिंहकयोरेव संग्रामस्य प्रसूयते ॥२०॥समपादमुन्नताडं गजस्थानमितीप्यते ।सिंहम्येव परं स्थानं लागाडं भीमदर्शनम् ॥२१॥ओजसाश्चै(चै)व वेगेव प्राणेनैव परस्परम् ।विज्ञानमायिग्रहणं रडभूमौ विनिश्चितम् ॥२२॥सिंहस्यापि वशेन स्याद् व्दयोर्युध्दं भवेद्यदि ।सिंहस्यापि भवेल्लीनं बाहास्फालनमिप्यते ॥२३॥पादौ चलौ च विषमे लीनाडस्थानमेव च ।वृषस्यापि करस्थानमडुप्ठस्थानमेव च ॥२४॥सिंहेन सह वृषभो उद्यमेवं सगाचरत् ।तदा लाग ऊर्ध्व्दस्थोपि घातयत्यपि वा पुन: ॥२५॥पक्षव्दयेपि सिंहेन पात्यते वृषभस्तथा ।ऊर्ध्दस्थोपि तथा चार्थं कथं च त्रोटिको भवेत् ॥२६॥तदा सिंहो वृषेणापि पात्यते नात्र संशय: ।यथा युध्दं भवत्येव कथं च मृगसिंहयो: ॥२७॥सिंहस्यापि तथा लीनं करास्फोटनीमप्येत ।लीनाडस्थानमपि च चलनं विषमं बलम् ॥२८॥मृगस्य बलिनश्चैव बाहास्फालनमिप्यते ।अडानामथ घटनं भ्रमण्म पाश्चतोपि च ॥२९॥दूरात्प्रसरणं प्रोक्तं करस्य स्पर्शने तथा ।अतो वेगाग्रहणं च पातनापातनं तथा ॥३०॥एवप्रकारेण मृग समं सिंहेन युध्दयति ।गजसिंहे समुत्साहे बलैर्विविधचेष्टितै: ॥३१॥कुर्वन् परं जयत्येव विपरीतं विनश्यति ।बलेनाप्यबलेनापि योध्दव्यं विजयैपुणा ॥३२॥गजस्यैव मृगस्यैव यदि युध्दं परस्परम् ।उन्नताडं गदस्थानं समपादं तथैव च ॥३३॥चलाड चलपादं च मृगस्यैव भवत्यपि ।गजो गन्तुं प्रविष्ट्श्च मृगस्य कुशलं तत: ॥३४॥अतो मृगेण योध्दव्यं चलपादं यदान्तरम् ।पुष्पावर्त्य जघो युध्दयेत्कापि कस्यापि जायते ॥३५॥तस्मादोजो न प्रोक्तव्यो गजेनापि गजाहये ।ऊर्ध्दस्यापि कथा वापि त्रोटितस्तु भवेद्यदि ॥३६॥तदाडं प्रविश्य मृगो गजं घातयति ध्रुवम् ।स्थानं किंच प्रविश्याथ विज्ञानं गन्तुमिप्यति ॥३७॥सदा परस्परं युध्दं कथितं कैटभारिणा ।एवं कुर्वन् सदा मल्लो नियुध्दविजयी भवेत् ॥३८॥गजस्य वृषभस्यापि युध्दं तत्कथितं पुरा ।भ्रमणेनाडसेन करमुत्पादयत्यपि ॥३९॥उत्पाद्य शीघ्रं वृषभो गजं घातयति ध्रुवम् ।प्रस्थानं चैव विज्ञानं सदॄशं दृढमेव च ॥४०॥गृहात्येवं प्रकुर्वाणो मल्लस्तु विजयी भवेत् ।वृषभस्य मृगस्यापि यदि युध्दं भवेत्तदा ॥४१॥वृषभस्य समानं च करास्फोटनमेव च ।विषमं पादस्थानं च समाग: स्थानमुत्तमम् ॥४२॥वृषभस्य भवेद्युध्दं कथितं कैटभारिणा ।तालवितालघातश्च वेगघातस्तथैव च ॥४३॥समतालेन तालश्च तथा च परिवर्तनम् ।उभयोर्दण्डहननं स्कन्धाघातनमेव च ॥४४॥बाहुघात: पाशुघातो दृष्टिघातस्तथैव च ।यो येन पात्यते चैवं स तेन पातितो भवेत् ॥४५॥भवत्येवविध युध्द गजस्य वृषभस्य च । N/A References : N/A Last Updated : December 31, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP